भाष्यरत्नप्रभाव्याख्या
स्तुतिमात्राधिकरणम्
स्तुतिमात्रम् ।
पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमोऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यमित्यर्थः ।
आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह -
किमिति ।
यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति -
स्तुत्यर्था इति ।
जुहूरियमेव पृथिवीति स्तूयते । चयनस्थः कूर्म आदित्य इति । आहवनीयः स्वर्गलोक इति स्तुतिः । तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः ।
स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति -
न हि स्तुतीति ।
पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् ।
स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह -
विधायकस्येति ।
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं॑रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः ॥२१॥
किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह -
भावेति ।
न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् । विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः ।
देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह -
तथा चेति ।
एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् । उपपदादिबाधके त्वन्यार्थपरमित्यर्थः ।
तदिदमाह -
लिङादीति ।
न च श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् । क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् । यद्यपि डुकृञ्करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस्भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः । तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते । तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते । कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता । तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ । कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता । आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् । कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते । तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः । तथा दण्डी भवेत्भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् । तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् । अस्तेर्भूरादेशात् । एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते । धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदेऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् ।
एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे -
प्रतिप्रकरणमिति ।
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः । एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति । आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः ॥२२॥