अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

कार्याख्यानाधिकरणम्

कार्या­ख्या­ना­द­पू­र्वम् ।
'मे किमन्नं किं वासः' इति प्राणेन पृष्टा वागादयः ऊचुः, 'यदिदं किं चाश्वभ्य आ कृमि­भ्य­स्त­त्तेऽ­न्न­मापो वासः' इति सर्व­प्रा­णि­भि­र्भु­ज्य­मानं यदिदं प्रसिद्धं श्वादि­प­र्य­न्त­मन्नं तत्प्राणस्य तवान्नमाप आच्छा­द­न­मि­त्यु­पा­स­केन चिन्त­नी­य­मि­त्यर्थः ।

शाखा­द्व­येऽ­प्य­वि­शे­ष­श्रु­ति­मुक्त्वा विशे­श­ष­श्रु­ति­भे­द­माह -
अनन्तरं चेति ।
तस्मादपां प्राण­व­स्त्र­त्वा­द­शि­श­ष्य­न्तोऽ­शनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति । किं तत्, भोज­ना­त्पू­र्व­मूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परि­द­ध­त्या­च्छा­द­य­न्ती­त्यर्थः । पूर्वो­त्त­रा­च­म­न­सं­ब­न्धि­नी­ष्वप्सु प्राण­वा­स­स्त्व­चि­न्त­न­रू­प­म­न­ग्न­ता­ध्यानं कार्यमिति भावः । तत्त­स्मा­दि­त्यु­क्तार्थं यतः पूर्वे विद्वां­सोऽ­श­ना­त्प्रा­गूर्ध्वं चाचामन्त एतमेवान्नं प्राणं तत्ते­ना­च­म­ने­ना­न­ग्न­मा­च्छा­दितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मा­दे­वं­वि­दि­दा­नी­न्त­नोऽ­प्यु­पा­सक एवं कुर्यादिति वाजिश्रुत्यर्थः ।

अत्रो­भ­यो­र­प्य­पू­र्व­त्वा­त्सं­श­य­माह -
तत्किमिति ।

संदि­ग्ध­स­दु­प­क्र­मस्य वाक्य­शे­षा­न्नि­र्ण­य­व­दा­चा­म­न्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्य­शे­षा­द्वि­धि­त्व­नि­र्णय इति दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
किं तावदिति ।
ज्ञान­सा­ध­नो­पा­स­ना­ङ्ग­वि­धि­वि­चा­रा­त्पा­द­स­ङ्ग­ति­र्बोध्या । पूर्वपक्षे प्राण­वि­द्या­ङ्ग­त्वे­ना­पू­र्वा­च­मनं विहि­त­म­न्य­त्रो­प­सं­ह­र्त­व्य­मिति फलं सिद्धान्ते तस्या­वि­धे­य­त्वा­न्ना­ङ्ग­त्वे­नो­प­सं­हार इति विवेकः ।

उभयविधाने वाक्यभेदः स्यादि­त्य­रु­च्या­प­क्षा­न्त­र­माह -
अथवेति ।
प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः ।

प्रसि­द्धा­नु­वा­दे­ना­प्र­सिद्धं विधेयमिति न्यायेन सिद्धान्तयति -
एवमिति ।
प्रयतस्य प्रयत्नवतो भावः प्राय­त्यं­शु­द्धि­स्त­द­र्थ­मि­त्यर्थः । स्मृत्या शुद्यर्थं कार्यत्वेन विहि­त­स­क­ल­क­र्मा­ङ्ग­तया प्राप्ता­च­म­ना­नु­वा­दे­ना­पू­र्व­म­न­ग्न­ता­ध्या­न­मेव विधीयत इति सूत्रार्थः ।

स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं स्मृत्यानूद्यत इति शङ्कते -
नन्विति ।

श्रुति­स्मृ­त्यो­र­न­योर्न मूलमूलिभावो भिन्न­वि­ष­य­त्वा­दिति परिहरति -
नेति ।
'द्विजो नित्य­मु­प­स्पृ­शेत्' इत्याद्या स्मृतिः ।

आच­म­ना­न्त­र­वि­धि­मु­पेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह -
न चेयं श्रुतिरिति ।
अत एवेति आच­म­न­वि­ध्य­भा­वा­दे­वे­त्यर्थः ।

अप्सु प्राण­वा­स­स्त्व­ध्या­नाख्यः संकल्पः प्राण­वि­द्या­ङ्ग­त्वेन विधीयत इत्याह -
तस्मादिति ।
स्वयं चेति अपू­र्व­त्वा­दि­त्यर्थः ।

शुद्यर्थं विनि­यु­क्त­स्या­च­म­नस्य प्राणा­च्छा­द­ना­र्थत्वं विरु­द्ध­मि­त्या­श­ङ्क्याह -
न चैवं सतीति ।
आच­म­न­स्या­च्छा­द­ना­र्थ­त्व­म­सि­द्ध­मि­त्यर्थः ।

किञ्च यथा पूर्ववाक्ये प्राण­स्या­न्न­ध्या­न­मङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यान­वि­धि­रु­त्त­रत्र क्रिया­वि­धि­रि­त्य­र्ध­वै­शसं स्यादित्याह -
अपि चेति ।
भक्षयेदिति शब्दा­भा­वा­च्छ्वा­द्य­न्नस्य सर्वस्य मनुष्वेणोपासकेन भोक्तु­म­श­क्य­त्वाच्च न पूर्ववाक्ये क्रिया­वि­धि­रि­त्यर्थः ।

इतश्चाचमनमत्र न विधेयमित्याह -
अपि चेति ।

अनग्नं मन्यन्त इत्यत्र वास­स्त्व­ध्या­न­मपि न विधेयं दोषसाम्यदिति शङ्कते -
नन्विति ।
उभ­यो­र­प्य­नु­वा­दत्वे वैफ­ल्या­द­व­श्य­मे­का­नु­वा­दे­नैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्य­स्या­न­ग्न­त्व­स्या­ख्या­ना­द­पू­र्व­त्वा­च्चेति समाधानार्थः । पूर्ववदिति स्मृत्या प्राप्त­मि­त्यर्थः ।

आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह -
अत एवेति ।
तस्मा­दे­वं­वि­द­शि­ष्य­न्ना­चा­मे­द­शित्वा चाचामेदिति वाक्य­स्या­वि­धित्वे काण्वैरपठनं लिङ्गमित्यर्थः ।

तर्हि पाठ­ब­ला­न्मा­ध्य­न्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति -
योऽपीति ॥१८॥