भाष्यरत्नप्रभाव्याख्या
कार्याख्यानाधिकरणम्
कार्याख्यानादपूर्वम् ।
'मे किमन्नं किं वासः' इति प्राणेन पृष्टा वागादयः ऊचुः, 'यदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्तेऽन्नमापो वासः' इति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः ।
शाखाद्वयेऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह -
अनन्तरं चेति ।
तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तोऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति । किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः । पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः । तत्तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसोऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवान्नं प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनोऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः ।
अत्रोभयोरप्यपूर्वत्वात्संशयमाह -
तत्किमिति ।
संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह -
किं तावदिति ।
ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या । पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः ।
उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह -
अथवेति ।
प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः ।
प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति -
एवमिति ।
प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः । स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः ।
स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं स्मृत्यानूद्यत इति शङ्कते -
नन्विति ।
श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति -
नेति ।
'द्विजो नित्यमुपस्पृशेत्' इत्याद्या स्मृतिः ।
आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह -
न चेयं श्रुतिरिति ।
अत एवेति आचमनविध्यभावादेवेत्यर्थः ।
अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह -
तस्मादिति ।
स्वयं चेति अपूर्वत्वादित्यर्थः ।
शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह -
न चैवं सतीति ।
आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः ।
किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह -
अपि चेति ।
भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणोपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः ।
इतश्चाचमनमत्र न विधेयमित्याह -
अपि चेति ।
अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते -
नन्विति ।
उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः । पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः ।
आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह -
अत एवेति ।
तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः ।
तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति -
योऽपीति ॥१८॥