अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

परायत्ताधिकरणम्

परात्तु तच्छ्रुतेः ।

यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात् , तथा कामा­दि­प­रि­णा­मि­बु­द्धि­रा­त्मनि कर्तृ­त्वा­द्य­ध्यासे करणमित्युक्तम् । तदध्यस्तं कर्तृ­त्व­मु­प­जीव्य जीवस्य कार­क­स­म्प­न्न­त्वा­दी­श्व­रस्य कार­यि­तृ­त्व­श्रु­तेश्च संशयमाह -
यदिदमिति ।
अत्र 'एष ह्येव' इत्या­दि­श्रु­तीनां कर्तृ­स्वा­त­न्त्र्य­द्यो­त­क­वि­ध्या­दि­श्रु­ति­भि­र्वि­रो­ध­स­मा­धा­ना­त्पा­द­स­ङ्गतिः ।

कर्ममीमांसकमतेन पूर्वपक्षयति -
तत्रेत्यादिना ।
बुद्ध्या­दि­का­र­क­स­म्प­त्ता­वी­श्व­र­व्य­ति­रेके कर्तृ­त्व­व्य­ति­रे­का­नु­प­ल­ब्धे­र्ने­श्वरः प्रयोजकः ।

किञ्च प्रयोजकत्वे नैर्घृ­ण्या­दि­प्र­सङ्ग इत्याह -
क्लेशात्मकेन चेति ।

दत्तोत्तरमिदं चोद्यमिति शङ्कते -
नन्विति ।

पूर्वं जीवस्य धर्मा­ध­र्म­वत्त्वं सिद्धवत्कृत्य तत्सा­पे­क्ष­त्वा­द्वि­ष­म­ज­ग­त्क­र्तृ­त्व­म­वि­रु­द्ध­मि­त्युक्तं सम्प्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्मा­ध­र्म­व­त्त्व­सिद्धिः, तद्वत्त्वसिद्धौ तत्सा­पे­क्ष­का­र­यि­तृ­त्व­सिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृ­त्व­सि­द्धि­रिति चक्रकापत्तेः कर्मसापेक्षत्वं न सम्भवतीत्युच्यत इत्याह -
सत्यमिति ।

अस्तु कर्मानपेक्षस्य प्रवर्तकत्वम् , तत्राह -
अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत् , कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरिति जगद्वैचित्र्यं विध्या­दि­शास्त्रं च न स्यात् । तस्मा­द्वि­ध्या­दि­शा­स्त्रा­र्थ­व­त्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यम् , तथा च कार­यि­तृ­त्व­श्रु­ति­वि­रोधः ।

ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति -
एतामिति ।
यथा चन्द­ना­दि­सा­मग्र्यां सत्यां धर्मव्यतिरेके सुख­व्य­ति­रे­क­ग्र­हा­भा­वेऽपि 'पुण्यो वै पुण्येन कर्मणा भवति' इत्या­दि­शा­स्त्र­प्रा­मा­ण्या­देव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्र­ब­ला­त्का­र­यि­तृ­त्व­सि­द्धि­रिति भावः ॥४१॥

धर्मा­ध­र्मा­भ्या­मेव फल­वै­ष­म्य­सि­द्धे­र­ल­मी­श्व­रे­णे­त्या­शङ्क्य बीजै­रे­वा­ङ्कु­र­वै­ष­म्य­सिद्धेः पर्ज­न्य­वै­यर्थ्यं स्यात् । यदि विशेषहेतूनां साधा­र­ण­हे­त्व­पे­क्ष­त्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधा­र­ण­हे­तु­त्वान्न वैयर्थ्यमित्याह -
पर्जन्यवदिति ।

दृष्टान्तं विवृणोति -
यथेति ।
अति­दी­र्घ­व­ल्ली­ग्र­न्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादि­त्या­पा­द्यते उत चक्रकापत्तिर्वा । नाद्य इत्याह -
नैष दोष इति ।
अध्यापकाधीनस्य बटो­र्मु­ख्या­ध्य­य­न­क­र्तृ­त्व­द­र्श­ना­दिति भावः ।

चक्रकं निरस्यति -
अपि चेति ।
अनवद्यं जीवस्य कर्तृ­त्व­मी­श्व­रस्य कारयितृत्वं चेति शेषः ।

ईश्वरस्य सापेक्षत्वे विध्या­दि­शा­स्त्र­प्रा­मा­ण्या­न्य­था­नु­प­पत्तिं प्रमाणयति -
कथमित्यादिना ।

एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्य­था­न­पे­क्षत्वे वैयर्थ्यं प्रपञ्चयति -
ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत । तयोः कार्यं स एव कुर्यादिति यावत् । तथा च जीवस्य निर­पे­क्षे­श्व­र­प­र­त­न्त्र­त्वा­द्वि­ध्या­दि­शा­स्त्र­म­कि­ञ्चि­त्क­र­म­न­र्थकं स्यादिति सम्बन्धः । पुरुषकारः प्रयत्नः ।

आदिशब्दार्थमाह -
तथेति ।
पूर्वो­क्त­दे­षोऽ­कृ­ता­भ्या­ग­मादिः । तस्मा­त्क­र्म­सा­पे­क्षे­श्व­रस्य कारयितृत्वात् 'एष ह्येव' इत्या­दि­श्रु­ते­र्वि­ध्या­दि­श्रु­त्य­वि­रोध इति सिद्धम् ॥४२॥