भाष्यरत्नप्रभाव्याख्या
अनिष्टादिकार्यधिकरणम्
एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति -
अनिष्टादिकारिणामपीति ।
'ये वै के च' इत्यविशेषश्रुतेः, 'वैवस्वतं संगमनं जनानाम्' इति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे -
तत्रेत्यादिना ।
यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः । पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात्पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् ।
पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह -
देहारम्भ इति ।
पापिनां स्वर्गभोगाभावेऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः ॥१२॥
सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया । प्रयतां मृत्वा गच्छताम् । सम्यक्परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति । स च बालोऽयं स्त्रीवित्तादिलोकोऽस्ति न परलोकोऽस्तीति मानी । स मे मम यमस्य वशमाप्नोतीत्यर्थः । पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात् 'ये वै के च' इत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः ॥१३॥ सूत्रत्रयस्य भाष्यं सुबोधम् ॥१४ ॥ ॥१५ ॥ ॥१६॥
यदुक्तं मार्गान्तराभावात्पापिनामपि चन्द्रगतिरिति । तन्न । तृतीयमार्गश्रुतेरित्याह -
विद्याकर्मणोरिति ।
मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः । एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः ।
प्रतिपत्ताविति ।
प्राप्तिसाधने इत्यर्थः । अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत 'अतश्च न संपूर्यते' इत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः ।
अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह -
न अश्रुतत्वादिति ।
अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह -
अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात्पुनरुक्तिर्व्यर्थेत्यर्थः । अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम् ॥१७॥
एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते -
यत्पुनरित्यादिना ।
विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः ।
पुरुषशब्दाच्चैवमित्याह -
अपिचेति ।
मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह -
अपिचेत्यादिना ।
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः ॥१८॥
अनियमे स्मृतिसंवादार्थं सूत्रम् -
स्मर्यतेऽपीति ।
लोक्यतेऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह -
बलाकेति ॥१९॥
'अण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च' इतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे -
अपिचेति ।
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः ॥२०॥
अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते -
नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः । संशोकः स्वेदः ॥२१॥