भाष्यरत्नप्रभाव्याख्या
सहकार्यन्तरविध्यधिकरणम्
सहकार्यन्तरविधिः ।
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनोऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः । मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः ।
यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह -
न विधीयत इति ।
अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् । यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् । यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः ।
मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः । नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् । तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति -
एवमित्यादिना ।
आपस्तम्बप्रयोगस्य गतिमाह -
इतराश्रमेति ।
किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह -
निर्वेदनीयत्वेति ।
न च त्रयाणां विधाने वाक्यभेदो दोषः । उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः ।
कस्येदं ध्यानं विधीयत इत्याह -
तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः ।
सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह -
नन्वित्यादिना ।
ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्येऽङ्गविधिवदित्याह -
विध्यादिवदिति ।
प्रधानमारभ्याङ्गपर्यन्तो विधिः । तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः । एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति । विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः ॥४७॥ समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः । आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥४८॥
संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् । ततोऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति -
मौनवदिति ।
आश्रमद्वयवदित्यर्थः । इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य । स चास्माभिः प्राग्दर्शितः ॥४९॥