अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सहकार्यन्तरविध्यधिकरणम्

सह­का­र्य­न्त­र­विधिः ।
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनोऽपि ब्राह्मण आपा­त­ज्ञा­न­रू­प­प­ण्डा­वा­न्प­ण्डि­त­स्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मन­ने­ना­सं­भा­व­ना­नि­रा­सेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातु­मि­च्छे­देवं मननश्रवणे कृत्वादानन्तरं मुनि­र्नि­दि­ध्या­स­न­कृ­त्स्या­दे­व­म­मौनं च मौना­द­न्य­द्बा­ल्य­पा­ण्डि­त्य­द्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञान­सा­म­ग्री­पौ­ष्क­ल्या­न­न्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः । मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः ।

यथा तं ह बक इत्या­दि­वा­क्य­शे­षा­दु­द्गी­था­द्यु­पा­स­न­स्या­र्त्वि­ज्य­त्व­नि­र्ण­य­स्त­द्व­दथ ब्राह्मण इति विधि­ही­न­वा­क्य­शे­षा­न्मौ­न­स्या­प्य­वि­धे­य­त्व­नि­श्चय इति पूर्वपक्षमाह -
न विधीयत इति ।
अत्र ध्यान­स्या­न­नु­ष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् । यदि मौनं पारिव्राज्यं तदा वाक्या­न्त­र­प्रा­प्त­म­नू­द्यते बाल्य­वि­धि­प्र­शं­सा­र्थम् । यदि ज्ञानं तदा पाण्डि­त्य­श­ब्दा­त्प्रा­प्त­मिति पूर्व­प­क्ष­ग्र­न्थार्थः ।

मुनि­श­ब्दा­द्वि­ज्ञा­ना­ति­शयः प्रतीयते तस्य ज्ञान­मा­त्र­वा­चि­पा­ण्डि­त्य­श­ब्दान्न प्राप्तिः । नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयु­ज्य­मा­न­त्वात् । तस्मादप्राप्तं मौन­म­पू­र्व­त्वा­द्विधिं कल्प्यतीति सिद्धान्तयति -
एवमित्यादिना ।

आप­स्त­म्ब­प्र­यो­गस्य गतिमाह -
इतराश्रमेति ।

किञ्चामौनं च मौनं च निर्विद्येति श्रव­ण­म­न­न­व­द­नु­ष्ठे­य­त्वो­क्ते­र्मौ­नस्य विधेयतेत्याह -
निर्वे­द­नी­य­त्वेति ।
न च त्रयाणां विधाने वाक्यभेदो दोषः । उप­रि­धा­र­ण­व­दि­ष्ट­त्वा­त्त­द्वा­क्य­भे­द­स्येति भावः ।

कस्येदं ध्यानं विधीयत इत्याह -
तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृ­त­त्वा­दि­त्यर्थः ।

सूक्ष्मा­र्थ­सा­क्षा­त्का­र­सा­ध­न­त्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह -
नन्वित्यादिना ।

ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्स­फ­ल­क्र­तु­प­र­वा­क्येऽ­ङ्ग­वि­धि­व­दि­त्याह -
विध्यादिवदिति ।
प्रधा­न­मा­र­भ्या­ङ्ग­प­र्यन्तो विधिः । तत्र प्रधानः क्रतु­र्वि­ध्या­दि­रत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः । एत­त्सू­त्र­भा­ष्य­भा­वा­न­भिज्ञाः संन्या­सा­श्र­म­ध­र्म­श्र­व­णादौ विधिर्नास्तीति वदन्ति । विधौ ह्यप्रा­प्ति­मा­त्र­म­पे­क्षितं तच्च भेद­द­र्श­न­प्रा­ब­ल्या­द्द­र्शि­त­मिति संप्रदायविदः ॥४७॥ समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्यु­प­सं­हा­रा­त्सं­न्यासो नास्तीति शङ्कार्थः । आया­स­वि­शि­ष्ट­क­र्म­बा­हु­ल्या­द्गृ­हि­णो­प­सं­हारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥४८॥

संन्या­स­गा­र्ह­स्थ्य­द्व­य­मत्र सूत्रकृतोक्तम् । ततोऽ­न्य­दा­श्र­म­द्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति -
मौनवदिति ।
आश्र­म­द्व­य­व­दि­त्यर्थः । इतरयोरपीति वाच्ये बहू­क्ति­र­वा­न्त­र­भे­द­म­पेक्ष्य । स चास्माभिः प्राग्दर्शितः ॥४९॥