भाष्यरत्नप्रभाव्याख्या
अदृश्यत्वाधिकरणम्
अदृश्यत्वादिगुणको धर्मोक्तेः । मुण्डकवाक्यमुदाहरति
अथेति ।
कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति
यत्तदिति ।
अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रम् , पाणिपादशून्यमपाणिपादम् , ज्ञानकर्मेन्द्रियविकलमित्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः । अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः ।
पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति
तत्रेति ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः । सतो जीवतः ।
ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह
अपिचेति ।
अत्र प्रधाने विरुध्यमानोऽसम्भावितो वाक्यशेषः श्रुत इति शङ्कते
ननु य इति ।
पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह
अत्रोच्यत इति ।
'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन सिद्धान्तयति
एवं प्राप्त इति ।
चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते
नन्विति ।
'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्सम्भवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनेर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते
अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः ।
यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानादचेतनत्वमिति, तत्राह
अक्षरात्परत इति ।
नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह
येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।
तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह
कथमिति ।
परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह
अपिचेति ।
ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह
परापरविभागो हीति ।
अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः ।
अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह
नचेति ।
ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह
तिस्रश्चेति ।
इतश्च भूतयोनेर्ब्रह्मत्वमित्याह
कस्मिन्निति ।
अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।
ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह
अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा ।
नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह
अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसम्पादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञसंयोगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः । येष्ववरमनित्यफलकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः ।
ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति
श्रोत्रियमिति ।
कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः ।
सर्वसाम्ये तवाप्यनिष्टापत्तेरित्याह
अपिच स्थूला इति ॥ २१ ॥
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे
विशिनष्टि हीत्यादिना ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबाह्याभ्यन्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः । अविद्याकृतं नामरूपात्मकं शरीरं तेन परिच्छेदोऽल्पत्वम् । तस्य शरीरस्य धर्माज्जाड्यमूर्तत्वादीनित्यर्थः ।
नन्वक्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह
अक्षरमव्याकृतमिति ।
अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् । अव्याकृतमव्यक्तम् । अनादीति यावत् । नामरूपयोर्बीजमीश्वरः तस्य शक्तिरूपम् । परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम् । भूतानां सूक्ष्माः संस्कारा यत्र तद्भूतसूक्ष्ममीश्वरश्चिन्मात्र आश्रयो यस्य तत्तथा । तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतम् । यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बाष्यबहिर्भूतम् , 'एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्योतप्रोतभावेनाव्याकृतस्य चिदाश्रयत्वश्रुतेराश्रयपदलक्षणाया निर्मूलत्वात् । नहि मूलप्रकृतेर्भेदे किञ्चिन्मानमस्ति । नच 'इन्द्रो मायाभिः' इति श्रुतिर्मानम् , 'अजामेकाम्' इत्याद्यनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्बुद्धिभेदेन मायाभेदानुवादित्वात् । तदुक्तं सुरेश्वराचार्यैः 'स्वतस्त्वविद्याभेदोऽत्र मनागपि न विद्यते' इति । साङ्ख्ययोगाचार्याः पुराणेतिहासकर्तारश्च मूलप्रकृत्यैक्यं वदन्ति । नन्वविद्यैक्ये बन्धमुक्तिव्यवस्था कथम् । नच व्यवस्था नास्तीति वाच्यम् , श्रवणे प्रवृत्त्यादिबाधापातादिति चेत् , उच्यतेये ह्यविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वेन सांशत्वमविद्याया अङ्गीकार्यम् , तथा चानर्थात्मकस्वीयसङ्घातात्मना परिणताविद्यांशोपहितजीवभेदाद्व्यवस्था सिध्यति । यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः करणपरिणाम्यज्ञानांशनशो मुक्तिरिति । एवं च श्रोतुः स्वरूपानन्दप्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीवन्मुक्तिशास्त्रं चेति सर्वमबाधितं भवति । नचैवं नानाजीवपक्षादविशेषः, मूलप्रकृतिनानात्वाभावादित्यलम् ।
परत्वेहेतुः
अविकार इति ।
ननु सूत्रकृता श्रुतौ प्रधानाद्भेदव्यपदेश उक्तस्तत्र कथमज्ञानाद्भेदोक्तिर्व्याख्यायते, तत्राह
नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽन्यस्याप्रामाणिकत्वादित्यर्थः । अतोऽत्राज्ञानमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते । तन्निरासेनार्थात्साङ्ख्याकल्पितप्रधाननिरास इति मन्तव्यम् ॥ २२ ॥
वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे
अपिचेत्यादिना ।
'प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौतमाग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थः ।
तनुमहिम्न इति ।
अल्पशक्तेरित्यर्थः ।
यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह
अहमन्नमिति ।
वृत्तिकृद्व्याख्यां दूषयति
अन्ये पुनरिति ।
एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः । निरदिक्षदवोचदित्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः । 'तस्मादित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।
यदुक्तम् 'अग्निर्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह
सर्वात्मत्वमपीति ।
ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यम् , तत्राह
श्रुतीति ।
अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् ।
ननु तस्य भूतान्तरात्मत्वं कथम् , तत्राह
विकारेति ।
पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः ।
स्वपक्षे सूत्रार्थमाह
अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः ॥ २३ ॥