अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अदृश्यत्वाधिकरणम्

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः । मुण्ड­क­वा­क्य­मु­दा­ह­रति
अथेति ।

कर्म विद्या­रू­पा­प­र­वि­द्यो­क्त्य­न­न्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति
यत्तदिति ।
अद्रेश्यमदृश्यं ज्ञाने­न्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्म­ण­त्वा­दि­जातिः, चक्षुः­श्रो­त्र­शू­न्य­म­च­क्षुः­श्रो­त्रम् , पाणि­पा­द­शू­न्य­म­पा­णि­पा­दम् , ज्ञान­क­र्मे­न्द्रि­य­वि­क­ल­मि­त्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्या­व्य­य­प­दाभ्यां नाशा­प­क्ष­य­यो­र्नि­रासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डि­ता­स्त­द­क्षरं तद्विद्या परेत्यन्वयः । अद्रे­श्य­त्वा­दि­गु­णानां ब्रह्म­प्र­धा­न­सा­धा­र­ण­त्वा­त्सं­शयः ।

पूर्व­व­द्र­ष्टृ­त्वा­दीनां चेत­न­ध­र्मा­णा­म­त्रा­श्रु­ते­रस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति
तत्रेति ।
पूर्वपक्षे प्रधा­ना­द्यु­पास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्ण­ना­भि­र्लू­ता­कीटः तन्तू­न्स्व­दे­हा­त्सृ­जति, उपसंहरति चेत्यर्थः । सतो जीवतः ।

ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह
अपिचेति ।

अत्र प्रधाने विरु­ध्य­मा­नोऽ­स­म्भा­वितो वाक्यशेषः श्रुत इति शङ्कते
ननु य इति ।

पञ्च­म्य­न्ता­क्ष­र­श्रुत्या भूतप्रकृतेः प्रत्य­भि­ज्ञा­ना­त्प्र­थ­मा­न्त­प­र­श­ब्दो­क्तस्य जग­न्नि­मि­त्ते­श्व­रस्य सर्व­ज्ञ­त्वा­दि­क­मि­त्याह
अत्रोच्यत इति ।

'सन्दिग्धे तु वाक्य­शे­षात्' इति न्यायेन सिद्धान्तयति
एवं प्राप्त इति ।

चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्य­शे­षा­दी­श्व­र­त्व­नि­र्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्य­भि­ज्ञा­प­का­भा­वा­दिति शङ्कते
नन्विति ।

'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृ­ते­र­पा­दा­न­सं­ज्ञायां पञ्च­मी­स्म­र­णा­द­क्ष­रा­त्स­म्भ­व­तीति प्रकृ­ति­त्वे­नो­क्ता­क्ष­रस्य भूत­यो­ने­र्वा­क्य­शेषे तस्मादिति प्रकृ­ति­त्व­लि­ङ्गेन प्रत्य­भि­ज्ञा­न­म­स्तीति समाधत्ते
अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्या­दी­त्यर्थः ।

यदुक्तं पञ्च­म्य­न्ता­क्ष­र­श्रुत्या भूतयोनेः प्रत्य­भि­ज्ञा­ना­द­चे­त­न­त्व­मिति, तत्राह
अक्षरात्परत इति ।

नायमक्षरशब्दो भूतयोनिं परामृशति, पर­वि­द्या­धि­ग­म्य­त्वे­नो­क्त­स्या­क्ष­रस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्य­क्ष­र­श्रुत्या वेद्य­त्व­लि­ङ्ग­वत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह
येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रू­या­दि­त्यु­प­क्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्ष­रा­त्प­रतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।

तर्हि पञ्च­म्य­न्ता­क्ष­र­श­ब्दार्थः क इत्या­श­ङ्क्या­ज्ञा­न­मिति वक्ष्यत इत्याह
कथमिति ।

परविद्येति समाख्ययापि तद्विषयस्य ब्रह्म­त्व­मि­त्याह
अपिचेति ।

ननु प्रधानविद्यापि कार­ण­वि­ष­य­त्वा­त्प­रे­त्यत आह
परापरविभागो हीति ।
अनि­त्य­फ­ल­त्वे­ना­प­र­विद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्य­शे­षो­क्ते­रि­त्यर्थः ।

अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह
नचेति ।

ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधा­न­वि­द्यो­च्यत इत्यत आह
तिस्रश्चेति ।

इतश्च भूत­यो­ने­र्ब्र­ह्म­त्व­मि­त्याह
कस्मिन्निति ।
अचे­त­न­मा­त्र­स्यै­का­य­त­न­मु­पा­दानं तज्ज्ञा­ना­त्का­र्य­ज्ञा­नेऽपि तद­का­र्या­णा­मा­त्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।

ब्रह्म­वि­द्या­श­ब्दाच्च भूत­यो­नि­र्ब्र­ह्मे­त्याह
अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्म­वि­द्या­मु­वाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्त­र्भा­वा­द्ब्र­ह्म­विद्या सर्व­वि­द्या­प्र­तिष्ठा ।

नन्वपरविद्या परप्रकरणे किम­र्थ­मु­क्ते­त्यत आह
अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृ­ढा­नि­त्य­फ­ल­स­म्पा­द­ना­शक्ताः, षोडशर्त्विजः पत्नी­य­ज­मा­न­श्चे­त्य­ष्टा­दश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कार­य­न्ती­त्यृ­त्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञ­सं­योगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एव­मृ­त्वि­गा­दि­ना­म­प्र­वृ­त्ति­नि­मित्तं यज्ञ इति यज्ञरूपाः । येष्व­व­र­म­नि­त्य­फ­लकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्य­दा­त्म­ज्ञा­न­मिति ये मूढास्तुष्यन्ति ते पुनः पुन­र्ज­न्म­म­र­ण­मा­प्नु­व­न्ती­त्यर्थः । तद्विज्ञानार्थं ब्रह्म­वि­ज्ञा­नार्थं गुरु­म­भि­ग­च्छे­दे­वेति नियमः ।

ब्रह्म­नि­ष्ठ­स्या­प्य­न­धी­त­वे­दस्य गुरुत्वं वारयति
श्रोत्रियमिति ।
कार्य­मु­पा­दा­ना­भि­न्न­मि­त्यंशे दृष्टान्तः ।

सर्वसाम्ये तवा­प्य­नि­ष्टा­प­त्ते­रि­त्याह
अपिच स्थूला इति ॥ २१ ॥

विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे
विशिनष्टि हीत्यादिना ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबा­ह्या­भ्य­न्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः । अविद्याकृतं नामरूपात्मकं शरीरं तेन परि­च्छे­दोऽ­ल्प­त्वम् । तस्य शरीरस्य धर्मा­ज्जा­ड्य­मू­र्त­त्वा­दी­नि­त्यर्थः ।

नन्वक्षरशब्देन प्रधा­नो­क्ता­व­श­ब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह
अक्ष­र­म­व्या­कृ­त­मिति ।
अश्नोति व्याप्नोति स्ववि­का­र­जा­त­मि­त्य­क्ष­रम् । अव्या­कृ­त­म­व्य­क्तम् । अनादीति यावत् । नाम­रू­प­यो­र्बी­ज­मी­श्वरः तस्य शक्तिरूपम् । पर­त­न्त्र­त्वा­दु­पा­दा­न­मपि शक्ति­रि­त्यु­क्तम् । भूतानां सूक्ष्माः संस्कारा यत्र तद्भू­त­सू­क्ष्म­मी­श्व­र­श्चि­न्मात्र आश्रयो यस्य तत्तथा । तस्यैव चिन्मात्रस्य जीवे­श्व­र­भे­दो­पा­धि­भू­तम् । यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बा­ष्य­ब­हि­र्भू­तम् , 'एत­स्मि­न्ख­ल्व­क्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्यो­त­प्रो­त­भा­वे­ना­व्या­कृ­तस्य चिदा­श्र­य­त्व­श्रु­ते­रा­श्र­य­प­द­ल­क्ष­णाया निर्मूलत्वात् । नहि मूल­प्र­कृ­ते­र्भेदे किञ्चि­न्मा­न­मस्ति । नच 'इन्द्रो मायाभिः' इति श्रुतिर्मानम् , 'अजा­मे­काम्' इत्या­द्य­ने­क­श्रु­ति­ब­लेन लाघवतर्कसहायेन तस्याः श्रुते­र्बु­द्धि­भे­देन माया­भे­दा­नु­वा­दि­त्वात् । तदुक्तं सुरे­श्व­रा­चार्यैः 'स्वत­स्त्व­वि­द्या­भे­दोऽत्र मनागपि न विद्यते' इति । साङ्ख्य­यो­गा­चार्याः पुरा­णे­ति­हा­स­क­र्ता­रश्च मूल­प्र­कृ­त्यैक्यं वदन्ति । नन्वविद्यैक्ये बन्ध­मु­क्ति­व्य­वस्था कथम् । नच व्यवस्था नास्तीति वाच्यम् , श्रवणे प्रवृ­त्त्या­दि­बा­धा­पा­ता­दिति चेत् , उच्यतेये ह्यवि­द्या­ना­ना­त्व­मि­च्छन्ति तैरपि परिणामित्वेन सांश­त्व­म­वि­द्याया अङ्गीकार्यम् , तथा चान­र्था­त्म­क­स्वी­य­स­ङ्घा­ता­त्मना परि­ण­ता­वि­द्यां­शो­प­हि­त­जी­व­भे­दा­द्व्य­वस्था सिध्यति । यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः कर­ण­प­रि­णा­म्य­ज्ञा­नां­श­नशो मुक्तिरिति । एवं च श्रोतुः स्वरू­पा­न­न्द­प्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीव­न्मु­क्ति­शास्त्रं चेति सर्वमबाधितं भवति । नचैवं नाना­जी­व­प­क्षा­द­वि­शेषः, मूल­प्र­कृ­ति­ना­ना­त्वा­भा­वा­दि­त्य­लम् ।

परत्वेहेतुः
अविकार इति ।

ननु सूत्रकृता श्रुतौ प्रधा­ना­द्भे­द­व्य­प­देश उक्तस्तत्र कथ­म­ज्ञा­ना­द्भे­दो­क्ति­र्व्या­ख्या­यते, तत्राह
नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽ­न्य­स्या­प्रा­मा­णि­क­त्वा­दि­त्यर्थः । अतोऽ­त्रा­ज्ञा­न­मेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते । तन्नि­रा­से­ना­र्था­त्सा­ङ्ख्या­क­ल्पि­त­प्र­धा­न­नि­रास इति मन्तव्यम् ॥ २२ ॥

वृत्ति­कृ­न्म­ते­नादौ सूत्रं व्याचष्टे
अपिचेत्यादिना ।
'प्राणो मनः सर्वेन्द्रियाणि च खं वायु­र्ज्यो­ति­रापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौत­माग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्व­प्रा­णि­ना­म­न्त­रा­त्मे­त्यर्थः ।

तनुमहिम्न इति ।
अल्प­श­क्ते­रि­त्यर्थः ।

यथा कश्चि­ब्र­ह्म­वि­त्स्वस्य सर्वा­त्म­त्व­प्र­क­ट­ना­र्थ­म­ह­म­न्न­मिति साम गायति न त्वन्न­त्वा­दि­क­मा­त्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह
अहमन्नमिति ।

वृत्ति­कृ­द्व्याख्यां दूषयति
अन्ये पुनरिति ।
एष सर्व­भू­ता­न्त­रात्मा सूत्रात्मा एत­स्मा­द्भू­त­यो­ने­र्जा­यत इति श्रुत्यन्वयेन हिर­ण्य­ग­र्भ­स्यात्र जाय­मा­न­त्वे­नो­प­न्या­सा­दि­त्यर्थः । निर­दि­क्ष­द­वो­च­दि­त्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपि­द्यु­लो­का­ग्नि­स्त­स्मा­द­जा­य­ते­त्यर्थः । 'तस्मा­दित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।

यदुक्तम् 'अग्नि­र्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह
सर्वा­त्म­त्व­म­पीति ।

ननु हिरण्यगर्भस्य जन्मा­न्य­त्रा­नुक्तं कथमत्र वक्तव्यम् , तत्राह
श्रुतीति ।
अग्रे समवर्तत जातः सन्भू­त­ग्रा­म­स्यैकः पति­री­श्व­र­प्र­सा­दा­द­भ­वत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजा­प­ति­सं­ज्ञात्वे सर्व­ना­म­त्वा­भा­वेन स्मा इत्य­यो­गा­दे­का­र­लो­पे­नै­कस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् ।

ननु तस्य भूता­न्त­रा­त्मत्वं कथम् , तत्राह
विकारेति ।
पूर्वकल्पे प्रकृ­ष्टो­पा­स­ना­क­र्म­स­मु­च्च­या­नु­ष्ठा­न­द­स्मि­न्कल्पे सर्व­प्रा­णि­व्य­ष्टि­लि­ङ्गानां व्यापकं सर्व­प्रा­ण्य­न्त­र्गतं ज्ञान­क­र्मे­न्द्रि­य­प्रा­णा­त्मकं सम­ष्टि­लि­ङ्ग­श­रीरं जायते तद्रूपस्य सूत्रात्मनः सर्व­भू­ता­न्त­रा­त्मत्वं युक्तमित्यर्थः ।

स्वपक्षे सूत्रार्थमाह
अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौत­स्मा­र्ता­दिकं तपश्च पुरुष एवेति सर्वा­न्त­र­त्व­रू­पो­प­न्या­साच्च भूतयोनौ ज्ञेये वाक्यं सम­न्वि­त­मि­त्यर्थः ॥ २३ ॥