भाष्यरत्नप्रभाव्याख्या
तृतीयाध्याये द्वितीयः पादः
तृतीयाऽध्याये द्वितीयः पादः ।
संध्ये सृष्टिराह हि ।
उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह -
अतिक्रान्त इति ।
साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः । अस्मिन् पादे 'न स्थानतोऽपि' इत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थोऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति -
तत्र संशय इत्यादिना ।
स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत्प्रातीतिका इति संशयार्थः । आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् । अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः । सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात्स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् । मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवे सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाद्धृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सोऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः । तथा च श्रुतिः - 'तस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं च' इति । अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् । अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्नेऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते ।