भाष्यरत्नप्रभाव्याख्या
आत्मत्वोपासनाधिकरणम्
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह -
य इति ।
शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति -
कथमिति ।
भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह -
उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसङ्गतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह सङ्गतिः ।
विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह -
नाहमिति ।
किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति -
ईश्वरस्य चेत्यादिना ।
एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते -
अन्यत्वेऽपीति ।
एकत्वध्यानमस्मदिष्टमेव ।
एकत्वं तु नास्तीत्याह -
काममिति ।
अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्बिम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति -
एवमित्यादिना ।
ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् । न चैवमधिकार्यभावः । एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह -
यत्पुनरुक्तमित्यादिना ।
वेदसत्यत्वश्रद्धालुः शङ्कते -
प्रत्यक्षाद्यभाव इति ।
वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारम् , वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह -
नेति ।
अविद्यामाक्षिपति -
कस्येति ।
प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह -
यस्त्वमिति ।
अज्ञानमूलत्वात्प्रश्नादेरिति भावः ।
सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते -
नन्विति ।
अभेदज्ञानात्प्राक्चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् । ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह -
यद्येवमिति ।
अनिर्वाच्यत्वेन दोषान्तरमपि निरस्तमित्याह -
योऽपीति ॥३॥