अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वत्रप्रसिद्ध्यधिकरणम्

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
इदमिति ।
तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्म­धा­र­येऽ­स्मिन् शाक­पा­र्थि­व­न्या­येन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्वि­व­र्त­त्वा­दि­त्यर्थः ।

ब्रह्मणि मित्रा­मि­त्र­भे­दा­भा­वा­च्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपा­सीत' इत्य­नु­वा­दा­त्फ­ल­माह
अथेति ।
क्रतुमयः सङ्कल्पविकार इत्यर्थः ।

पुरुषस्य ध्यानविकारत्वं स्फुटयति
यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।

क्रतोर्विषयमाह
मन इति ।
ब्रह्मे­त्यु­प­क्र­मा­न्म­नो­मयं प्राणशरीरं भारूपं सत्य­स­ङ्क­ल्प­म­न्त­र्ह्र­दये ध्येयमित्यर्थः ।

पूर्वत्र ब्रह्म­लि­ङ्गै­र­ब्र­ह्म­लि­ङ्ग­बाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्ति­गु­ण­वि­धा­ना­र्थ­म­न्य­था­सि­द्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति
शारीर इत्यादिना ।

श्रुति­मा­श­ङ्क्या­न्य­था­सिद्ध्या परिहरति
नैष दोष इति ।

शमविधिपरत्वे हेतुमाह
यत्कारणमिति ।
यत एवमाह तस्मा­च्छ­म­वि­धि­प­र­मि­त्य­न्वयः । [अत्रेदंशब्दः प्रकृ­त­ब्र­ह्म­प­रा­म­र्शार्थो नतु जग­त्प­रा­म­र्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समा­ना­धि­क­र­ण­दा­र्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेय­ब्र­ह्म­वि­ष­य­त्वात् । अत्र तूपासनायां बाधा­ना­व­श्य­क­त्वा­द्वि­ष­या­भे­देन ब्रह्मण उपास्यत्वात् । ]

नच शमेति ।
शमध्यानयोर्विधौ वाक्य­भे­दा­प­त्ते­रि­त्यर्थः ।

जन्मपरम्परया जीवस्यापि सर्व­क­र्म­त्वा­दि­स­म्भ­व­माह
सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्या­दि­रा­दि­श­ब्दार्थः ।

आरा­ग्र­मा­त्र­स्येति ।
तोत्र­प्रो­ता­यः­श­ला­का­ग्र­प­रि­मा­ण­स्ये­त्यर्थः ।

सर्वत्र प्रसिद्वब्रह्मण एवा­त्रो­पा­स्य­त्वो­प­दे­शान्न जीव उपास्य इति सूत्रार्थमाह
सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वो­त्त­र­प­क्ष­सिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनः­प्र­चु­र­मु­प­धि­रस्य, प्राणः शरीरमस्येति समा­सा­न्त­र्ग­त­स­र्व­नाम्नः संनि­हि­त­वि­शे­ष्या­का­ङ्क्ष­त्वा­द्ब्रह्म सम्बध्यते ।

'स्योनं ते सदनं करोमि' इति संस्का­रा­र्थ­स­द­नस्य निरा­का­ङ्क्ष­स्यापि 'तस्मि­न्सीद' इति साका­ङ्क्ष­त­च्छ­ब्देन परा­म­र्श­द­र्श­ना­दि­त्याह
अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।

जीवोऽपि लिङ्गात्संनिहित इत्यत आह
जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपा­स्त्य­यो­ग्य­त्वा­त्फ­ला­भा­वाच्च । अतो विश्व­जि­न्न्या­येन सर्वा­भि­ल­षि­त­मा­न­न्द­रूपं ब्रह्मै­वो­पा­स­ना­क्रि­या­नु­ब­न्धीति भावः ।

किञ्च ब्रह्म­प­द­श्रुत्या लिङ्गबाध इत्याह
नचेति ।
अन्य­त­रा­का­ङ्क्षा­नु­गृ­हीतं फलवत्प्रकरणं विफ­ल­लि­ङ्गा­द्व­लीय इति समुदायार्थः ॥ १ ॥

वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह
तथा­प्यु­पा­दा­ने­नेति ।

नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह
उपादानानुपादाने त्विति ।
तात्पर्यं नाम फल­व­द­र्थ­प्र­ती­त्य­नु­कू­लत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।

तदिहेति ।
तत्तस्मात् । तात्प­र्य­व­त्त्वा­दि­त्यर्थः ।

सर्वात्मत्वे प्रमाणमाह
तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्रा­ण्य­स्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्या­द­य­स्त­स्येति सर्वा­त्म­त्वोक्तिः ॥ २ ॥

ननु जीव­ध­र्माः­श्चे­त्ब्र­ह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह
अनुपपत्तेरिति ।

सूत्रं व्याचष्टे
पूर्वेणेति ।
सर्वा­त्म­त्वा­दि­रू­क्त­न्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधि­ष्ठा­न­ज्ञा­न­काले कल्पि­त­ध­र्मा­भा­वात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः ।

ज्याय­स्त्वा­द्य­नु­प­पत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥

प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्म­क­र्तृ­व्य­प­दे­श­प­द­स्या­र्था­न्त­र­माह
तथोपास्येति ॥ ४ ॥

एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभ­क्ति­लो­प­श्छा­न्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मा­त्त­द­र्थ­यो­र्भेद इति सूत्रार्थः ॥ ५ ॥

स्मृतौ हृदिस्थस्य जीवा­द्भे­दो­क्ते­र­त्रापि हृदिस्थो मनोमय ईश्वर इत्याह
स्मृतेश्चेति ।
भूतानि जीवान् । यन्त्रं शरीरम् ।

अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्ति­नि­रा­सा­ये­क्ष­त्य­धि­क­रणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति
अत्राहेत्यादिना ।

त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह
सत्यमिति ॥ ६ ॥

अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मा­दा­र्थि­क­म­ल्प­त्वम् । अणी­या­नि­त्य­ल्प­त्व­वा­च­क­श­ब्दे­नापि श्रुतमित्याह
स्वशब्देनेति ।

नायं दोष इत्युक्तं विवृणोति
न तावदिति ।

कथमपि ।
ब्रह्म­भा­वा­पे­क्ष­या­पी­त्यर्थः । परिच्छेदत्यागं विना ब्रह्म­त्वा­स­म्भ­वा­त्त­त्त्यागे च ब्रह्मण एवो­पा­स्य­त्व­मा­या­तीति भावः ।

विभोः परिच्छेदोक्तौ दृष्टान्तमाह
यथा समस्येति ।
सर्वे­श्व­र­स्या­यो­ध्यायां स्थित्यपेक्षया परि­च्छे­दो­क्ति­व­द­ल्प­हृदि ध्येयत्वेन तथो­क्ति­रि­त्यर्थः ।

ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह
तत्रेति ।
हृदये परमात्मनो बुद्वि­वृ­त्ति­र­र्ग्रा­हिका भवति । अत ईश्व­रा­भि­व्य­क्ति­स्था­न­त्वा­त्त­दु­क्ति­रि­त्यर्थः ।

व्योम­दृ­ष्टा­न्ता­सिना शङ्कालतापि काचि­च्छि­न्ने­त्याह
तत्र यदाशङ्क्यत इत्यादिना ।
भिन्ना­य­त­न­त्वेऽपि व्योम्नः सत्य­भे­दा­द्य­भा­वा­दिति भावः ॥ ७ ॥

ब्रह्मणो हार्द­त्वेऽ­नि­ष्ट­स­म्भो­गा­प­त्ते­र्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे
व्योमवदिति ।

ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवा­भि­न्न­त्वाच्च जीववदित्युक्तं निरस्यति
न । वैशेष्यादिति ।
धर्मा­ध­र्म­व­त्त्व­मु­पा­धि­रि­त्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशे­ष­स्या­ति­श­यार्थो वा । धर्मादेः स्वाश्रये फल­हे­तु­त्व­म­ति­शयः, तस्मादिति सूत्रार्थः ।

किञ्च विभवो बहव आत्मान इति वादि­ना­मे­क­स्मि­न्देहे सर्वात्मनां भोक्तृ­त्व­प्र­सङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह
सर्वगतेति ।
वस्तुतस्तेषामेव भोग­सा­ङ्क­र्य­मि­त्यग्रे वक्ष्यते ।

ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृ­त्वा­नु­माने उप­जी­व्य­श्रु­ति­बा­ध­माह
यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽय­म­र्ध­ज­र­ती­य­न्यायः । स चात्र न युक्तः ।

न ह्यभे­द­म­ङ्गी­कृ­त्या­भो­क्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृ­त्व­वा­र­णा­दि­त्याह
शास्त्रं चेति ।

नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृही­त­मि­त्या­शङ्क्य बिम्ब­प्र­ति­बि­म्बयोः कल्पितभेदेन भोक्तृ­त्वा­भो­क्तृ­त्व­व्य­व­स्थो­प­प­त्ते­र­प्र­यो­जको हेतुरित्याह
अथा­गृ­ही­त­मि­त्या­दिना ।

कल्पि­ता­स­ङ्गि­त्व­म­धि­ष्ठा­नस्य वैशे­ष्य­मि­त्य­स्मि­न्न­र्थेऽपि सूत्रं पातयति
तदाहेति ।
ब्रह्मणो हार्दत्वे बाध­का­भा­व­च्छा­ण्डि­ल्य­वि­द्या­वाक्यं ब्रह्म­ण्यु­पास्ये समन्वितमिति सिद्वम् ॥ ८ ॥