भाष्यरत्नप्रभाव्याख्या
पत्यधिकरणम्
लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसङ्गतिमाह -
इदानीमिति ।
सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते -
तदिति ।
स्वोक्तिविरोधान्मैवमित्याह -
प्रकृतिश्चेत्यादिना ।
प्रतिष्ठापितत्वात्केवलनिमित्तेश्वरप्रतिषेधोऽवगम्यत इत्यन्वयः । व्याहतो विरुद्धोऽभिव्याहार उक्तिर्यस्य स तथा ।
अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो न प्रकृतिरिति शैवादिमतेन विरोधोऽस्ति न वेति सन्देहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्ताद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्त्वासत्त्वयोरेकत्रासम्भववत्कर्तृत्वोपादानत्वयोरप्येकत्रासम्भवात्कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह -
सा चेति ।
सेश्वराः साङ्ख्याः साङ्ख्यशब्दार्थः । चत्वारो माहेश्वराः शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति । सर्वोऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते । कार्यं महदादिकम् , कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः । पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
पाशुपतागमप्रमाण्यात्पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह -
तथेति ।
विमतं सकर्तृकम् , कार्यत्वात् , घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति । कर्मफलं सपरिकराभिज्ञदातृकम् , कालान्तरभाविफलत्वात् , सेवाफलवदिति गौतमा दिगम्बराश्च ।
ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात् , परिमाणवदिति साङ्ख्यसौगतपातञ्जला इति मत्वोक्तम् -
केचित्कथञ्चिदिति ।
सिद्धान्तयति -
अत इति ।
आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह -
किमिति ।
न तावत्स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् । न च सर्वज्ञज्ञानं मूलम् , तत्र मानाभावात् । न चागम एव मानम् , आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् । न च पुरुषवचसां स्वतोमानत्वं युक्तम् , मिथो विरोधेन तत्त्वाव्यवस्थानाच्च । नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः सम्भवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् । तथा च लोके यादृशाः कर्तारो दृष्टास्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः । यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शनेऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यताम् , कर्तुरेवोपादानत्वेन लाघवात् , अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् । अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् । अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्दोषेश्वरनिर्णयः ।
निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यम् , तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह -
हीनेति ।
यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् । न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्दोषत्वादावुदासीनत्वात् । न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात् , दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च । दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः । यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवोऽपि स्यादिति । न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः ।
ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते -
प्राणीति ।
जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह -
नेति ।
न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह -
कर्मेति ।
अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते -
नानादित्वादिति ।
अतीतकर्मणोऽपि जडत्वान्नेश्वरप्रेरकता । न च तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् । ततोऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयतीति चेत् । न । मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् । अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः । यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति । तन्न । विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात् , पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् । अस्माकं तु 'एष ह्येव साध्वसाधु कारयति' इति, 'निरवद्यम्' इति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् ।
किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह -
अपि चेति ।
प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथा चेश्वरः स्वार्थे रागादिमान् , प्रवर्तकत्वात् , सम्मतवत् । न च कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः ।
उदासीनः प्रवर्तक इति च व्याहतमिति योगान्प्रत्याह -
पुरुषेति ॥३७॥
प्रधानवादे दोषान्तरमाह सूत्रकारः -
सम्बन्धेति ।
ईश्वरेणासम्बद्धस्य प्रधानादेः प्रेर्यत्वायोगात्सम्बन्धो वाच्यः । स च संयेगः समवायो वा नास्तीत्यर्थः ।
कार्यबलात्प्रेरणयोग्यत्वाख्यः सम्बन्धः कल्प्यतामित्यत आह -
नाप्यन्य इति ।
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत्सम्बन्धकल्पना स्यात् । तच्चाद्याप्यसिद्धमित्यर्थः । मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसम्बन्धः, 'देवात्मशक्तिम्' इति श्रुतेः ।
किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसम्बन्धो वैदिकेनानुसर्तव्यः । आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह -
अपि चेति ।
सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् । न ह्यमनस्कस्य ज्ञानं सम्भवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः ।
प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह -
एवमन्यास्वपीति ॥३८॥
ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः -
अधिष्ठानेति ।
प्रधानादिकं चेतनस्यानधिष्ठेयम् , अप्रत्यक्षत्वात् , ईश्वरवत् , व्यतिरेकेण मृगादिवच्चेत्यर्थः ॥३९॥
चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति -
करणवदिति ।
रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति -
रूपेति ।
स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह -
तथापीति ।
भोगः सुखदुःखानुभवः । आदिपदाद्विषयानुभवग्रहः । न च यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यम् , भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात् , करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । न च विशेष्यवैयर्थ्यम् , परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् । न च प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः । जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।
विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति -
करणेति ।
प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् । अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः ।
सूत्रद्वयस्यार्थान्तरमाह -
अन्यथा वेति ।
यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह -
इतश्चेति ।
विमतं सेश्वरम् , कार्यत्वात् , राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् । तत्रेष्टापत्तिं निरस्यति -
न च तद्वर्णयितुमिति ।
न च नित्यं शरीरं सर्गात्प्रागपि सम्भवतीति वाच्यम् , शरीरस्य भौतिकत्वनियमादित्यर्थः ।
अस्त्वशरीर एवेश्वर इत्यत आह -
निरधिष्ठानत्वे चेति ।
जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति -
करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् । इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम् ॥४०॥
एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयोऽपि न सम्भवतीत्याह सूत्रकारः -
अन्तवत्वमिति ।
प्रधानपुरुषेश्वरत्रयमनित्यम् , इयत्तापरिच्छिन्नत्वात्घटवदित्याह -
पूर्वस्मिन्निति ।
सङ्ख्या वा परिमाणं वेयत्ता । तथा च निश्चितसङ्ख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् । यद्यपि सङ्ख्यावत्वमात्रं हेतुः सम्भवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् ।
तत्राद्यहेतोरसिद्धिर्नास्तीत्याह -
सङ्ख्यापरिमाणमिति ।
सङ्ख्यास्वरूपमित्यर्थः ।
द्वितीयहेतुं साधयति -
स्वरूपेति ।
प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात् , घटवदित्यर्थः ।
ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञातेऽपि जीवानामानन्त्यात्कथं सङ्ख्यानिश्चयः, तत्राह -
पुरुषेति ।
जीवसङ्ख्यापीश्वरेण निश्चीयते । अनिश्चये सर्वज्ञत्वायोगादित्यर्थः ।
हेतुसिद्धेः फलमाह -
ततश्चेति ।
माषराशिवत्केषाञ्चिज्जीवानां सङ्घस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः । नित्यस्यानवशेषादिति भावः । ननु ईश्वरः शिष्यतामिति चेत् । न । तस्यापि भिन्नित्वेनान्तवत्त्वात् ।
किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह -
प्रधानमिति ।
दोषान्तरमाह -
प्रधानेति ।
इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते -
अथेति ।
इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।
प्रदानादयः सङ्ख्यापरिमाणवन्तः, द्रव्यत्वात् , माषादिवदित्यनुमानादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति -
तत इति ।
तस्मात्केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न कर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम् ॥४१॥