अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

स्वाम्यधिकरणम्

स्वामिनः फलश्रुतेः ।
अङ्गा­श्रि­तो­पा­स्ति­षू­भ­य­क­र्तृ­क­त्व­सं­भ­वा­त्सं­शयः ।

यः कृत­प्रा­य­श्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दा­ति­श­य­स्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्ते­त्यु­त्स­र्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह -
किमिति ।
अत्र कर्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­रण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यज­मा­न­गा­मि­स्व­त­न्त्र­फलाः किमु वाच्यं स्वनि­ष्ठ­ब्र­ह्म­वि­द्यायाः स्वात­न्त्र्य­मिति फलं विवेक्तव्यम् । अतः पादसंगतिः हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ति­हा­र­नि­ध­ना­ख्य­प­ञ्च­प्र­कारे साम्नि वृष्टि­ध्या­तु­र्व­र्ष­स­मृद्धिः फलमिति श्रुत्यर्थः ।

श्रुतं फलमृत्विग्गतं किं न स्यादित्यत आह -
तच्चेति ।
यथा­सा­ङ्ग­क्र­त्व­धि­कृ­ता­धि­का­र­त्वा­द्गो­दो­ह­नस्य फलं क्रत्वधिकारिगतं तद्व­द­ङ्गो­पा­स­न­स्यापि फलं तद्ग­त­मे­वे­त्यर्थः ।

अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह -
फलं चेति ।

यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते -
नन्विति ।
उद्गानेन साधयतीत्यर्थः । याजमानं फल­मि­त्यु­त्स­र्ग­स्या­सति बाधकवचने सिद्धिरिति समाध्यर्थः । तस्मा­त्फ­ल­भो­क्तृ­त्वा­दि­त्यर्थः ॥४४॥

उपा­स­न­मा­र्त्वि­ज्य­मृ­त्वि­क्क­र्तृ­क­मि­त्यत श्रौतं लिङ्गमाह -
तथा चेति ।
तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यात­वा­न्ध्यात्वा च नैमिशीयानां सत्रि­णा­मु­द्गा­ता­सी­दि­त्यर्थः । यजमानेन स्वगा­मि­फ­ल­क­सा­ङ्ग­प्र­यो­ग­क­र­णा­य­र्त्विजां क्रीत­त्वा­त्क­र्तृ­त्वेऽपि न तत्फ­ल­भा­क्त्व­मु­त्स­र्गस्य बाध­का­भा­वा­दि­त्यु­क्त­त्वात् । क्रयणद्वारा कर्तृ­त्व­भो­क्तृ­त्व­सा­मा­ना­धि­क­रण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः ॥४५ ॥ ॥४६॥