अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वधर्मोपपत्त्यधिकरणम्

सर्व­ध­र्मो­प­प­त्तेश्च ।

निर्गुणस्य ब्रह्मणो जग­दु­पा­द­न­त्व­वा­दि­वे­दा­न्त­स­म­न्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति सन्देहे, भवत्वीश्वरस्य विष­म­सृ­ष्टि­नि­मि­त्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात् , न तूपादानत्वं तद्व्यापकस्य सगु­ण­त्व­स्या­भा­वा­दिति प्रत्युदाहरणेन प्राप्ते सिद्धा­न्त­सू­त्र­ता­त्प­र्य­माह -
चेतनमिति ।
विव­र्तो­पा­दा­नत्वं निर्गु­ण­स्या­प्य­वि­रु­द्धम् , अज्ञातत्वस्य भ्रमा­धि­ष्ठा­न­त्व­प्र­यो­ज­कस्य सत्त्वात् , सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्य­त्वा­दि­भ्र­म­द­र्श­ना­दिति भावः ।

यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कार­ण­ध­र्म­त्वे­ना­प्र­सिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम् , ईश्वरस्यपि सर्व­क­र्तृ­त्व­श्र­व­णा­त्प्र­सि­द्ध्य­नु­सा­रे­णा­र्था­न्नि­र­ति­श­य­स­र्व­ज्ञत्वं सर्वशक्तित्वं च सिध्य­ती­त्य­भि­स­न्धा­याह -
सर्वज्ञं सर्वशक्तीति ।

महामायमिति ।
कर्तृ­त्वो­पा­दा­न­त्व­क­थने सर्व­श­ङ्का­प­ङ्क­क्षा­ल­ना­यो­क्तम् । तस्मा­दौ­प­नि­ष­द­सि­द्धान्ते न कश्चिद्दोष इति सिद्धम् ॥३७॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­य­स्या­ध्या­यस्य प्रथमपादः समाप्तः ॥१॥