भाष्यरत्नप्रभाव्याख्या
कृत्स्नप्रसक्त्यधिकरणम्
कृत्स्नप्रसक्तिः ।
क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं सङ्गतिमाह -
चेतनमिति ।
निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः । स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे -
कृत्स्नेति ।
ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा । आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति -
यदि ब्रह्मेत्यादिना ।
पर्यणंस्यत्परिणतोऽभविष्यत् । एकदेशश्चावास्थास्यदपरिणतोऽभविष्यत् ।
उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह -
ततश्चेति ।
यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोऽर्थशून्यः स्यादिति दोषान्तरमाह -
द्रष्टव्यतेति ।
ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे 'अजोऽमरः' इति श्रुतिविरोधश्चेत्याह -
अजत्वादीति ।
सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति -
अथेत्यादिना ॥२६॥
परिणामपक्षो दुर्घट इति यदुक्तं तदस्मदिष्टमेवेति विवर्तवादेन सिद्धान्तयति -
श्रुतेरिति ।
स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति -
तुशब्देनेत्यादिना ।
ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात्पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह -
सेयं देवतेति ।
न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह -
तावानिति ।
इतश्चास्त्यविकृतं ब्रह्मेत्याह -
तथेति ।
'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।
लिङ्गान्तरमाह -
तथेन्द्रियेति ।
भूम्यादेर्विकारस्येन्द्रियगोचरत्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।
कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह -
न चेति ।
ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति -
शब्दमूलं चेति ।
यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।
आशयानवबोधेन शङ्कते -
ननु शब्देनापीति ।
यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति -
नन्विति ।
शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।
ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह -
क्रियेति ।
निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति -
नैष दोष इति ।
निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति । वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।
रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति -
न हीत्यादिना ।
कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति -
वाचारम्भणेति ।
ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह -
न चेयमिति ।
निष्प्रपञ्चब्रह्मधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -
तस्मादिति ॥२७॥
पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः । पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः । तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः -
आत्मनि चेति ।
रथयोगाः अश्वाः ॥२८॥
किञ्च कृत्स्नप्रसक्त्यादीनां साङ्ख्यादिपक्षेऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वम् , 'यश्चोभयोः समो दोषः' इति न्यायादित्याह सूत्रकारः -
स्वपक्षेति ।
प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते -
नन्विति ।
किं साम्यावस्था गुणानां विकारः, समुदायो वा । आद्ये तस्या न मूलप्रकृतित्वम् , विकारत्वात् । द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् ।
अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत् , तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति -
नैवमित्यादिना ।
इति यतोऽतः समानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः ।
प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसम्भवादिति शङ्कते -
तर्केति ।
एतद्दोषाभावेऽपि दोषान्तरं स्यादिति परिहरति -
एवमपीति ।
ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणोऽपि सावयवत्वं तुल्यमित्याह -
अथेत्यादिना ।
अणुवादेऽपि दोषसाम्यमाह -
तथेति ।
साङ्ख्यवद्दोषः समान इति सम्बन्धः । निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आद्ये तत्कार्यस्य द्व्यणुकस्यैकपरमाणुमात्रत्वापत्तिः, प्रथिम्नोऽधिकपरिमाणस्यानुपपत्तेः । न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततोऽधिकद्रव्यं सम्भवति । द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः ।
ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह -
परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम् , अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२९॥