अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

कृत्स्नप्रसक्त्यधिकरणम्

कृत्स्न­प्र­सक्तिः ।

क्षीर­दृ­ष्टा­न्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्ण­या­र्थ­मि­द­म­धि­क­र­ण­मिति पूर्वा­धि­क­र­णे­नो­त्त­रा­धि­क­र­णस्य कार्यत्वं सङ्गतिमाह -
चेतनमिति ।

निर­व­य­वा­द्ब्र­ह्मणो जगत्सर्गं वदन् समन्वयो विषयः । स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे -
कृत्स्नेति ।

ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा । आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यति­रे­क­दृ­ष्टा­न्तेन विवृणोति -
यदि ब्रह्मेत्यादिना ।
पर्य­णं­स्य­त्प­रि­ण­तोऽ­भ­वि­ष्यत् । एक­दे­श­श्चा­वा­स्था­स्य­द­प­रि­ण­तोऽ­भ­वि­ष्यत् ।

उक्तश्रुतिभ्यो निर­व­य­व­त्व­सिद्धेः फलितं दोषमाह -
ततश्चेति ।

यदा परि­णा­म­व्य­ति­रे­केण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्यु­प­दे­शोऽ­र्थ­शून्यः स्यादिति दोषान्तरमाह -
द्रष्टव्यतेति ।

ब्रह्मणः परिणामात्मना जन्म­ना­शा­ङ्गी­कारे 'अजोऽ­मरः' इति श्रुति­वि­रो­ध­श्चे­त्याह -
अजत्वादीति ।

साव­य­व­त्व­प­क्ष­मा­शङ्क्य सूत्रशेषेण परिहरति -
अथेत्यादिना ॥२६॥

परिणामपक्षो दुर्घट इति यदुक्तं तद­स्म­दि­ष्ट­मे­वेति विवर्तवादेन सिद्धान्तयति -
श्रुतेरिति ।

स्वपक्षे पूर्वो­क्त­दो­ष­द्वयं नास्तीति सूत्रयोजनया दर्शयति -
तुश­ब्दे­ने­त्या­दिना ।

ईक्षितृत्वेन व्याकर्तृत्वेन चेक्ष­णी­य­व्या­क­र्त­व्य­प्र­प­ञ्चा­त्पृ­थ­गी­श्व­र­स­त्त्व­श्रु­तेर्न कृत्स्न­प्र­स­क्ति­रि­त्याह -
सेयं देवतेति ।

न्यूना­धि­क­भा­वे­नापि पृथक्सत्त्वं श्रुतमित्याह -
तावानिति ।

इत­श्चा­स्त्य­वि­कृतं ब्रह्मेत्याह -
तथेति ।
'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषु­प्ति­का­ल­रू­प­वि­शे­ष­णा­च्चे­त्यर्थः ।

लिङ्गान्तरमाह -
तथेन्द्रियेति ।
भूम्या­दे­र्वि­का­र­स्ये­न्द्रि­य­गो­च­र­त्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्म­ण­स्त­त्प्र­ति­षे­धा­द­वा­ङ्म­न­स­गो­च­र­त्व­श्रु­ते­श्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।

कृत्स्न­प्र­स­क्ति­दोषो नास्ती­त्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह -
न चेति ।

ननु ब्रह्म कार्या­त्म­ना­प्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति -
शब्दमूलं चेति ।
यदा लौकिकानां प्रत्य­क्ष­दृ­ष्टा­ना­मपि शक्तिरचिन्त्या तदा शब्दै­क­स­म­धि­ग­म्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधा­भा­व­श्चे­त्यु­भयं यथा­श­ब्द­म­भ्यु­प­ग­न्त­व्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्य­क्ष­दृ­ष्ट­व­स्तु­स्व­भा­वेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तद­चि­न्त्य­स्व­रू­प­मिति स्मृत्यर्थः ।

आशयानवबोधेन शङ्कते -
ननु शब्देनापीति ।

यद्वा ब्रह्म परि­णा­मी­त्ये­क­दे­शि­ना­मियं सिद्धा­न्त­सू­त्र­व्याख्या दर्शिता तामाक्षिपति -
नन्विति ।
शब्दस्य योग्य­ता­ज्ञा­न­सा­पे­क्ष­त्वा­दि­त्यर्थः ।

ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्व­श्रु­ति­स­मा­धानं स्यादित्यत आह -
क्रियेति ।

निरवयवत्वे ब्रह्मणः प्रकृ­ति­त्व­श्रु­ति­वि­रोधः, सावयवत्वे निर­व­य­व­त्व­श­ब्द­वि­रोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रका­रा­न्त­रा­नु­प­ल­म्भा­च्छ्रु­तीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाश­य­मु­द्धा­ट­यति -
नैष दोष इति ।
निरवयवस्य वस्तुनः कूट­स्थ­स्या­प्य­वि­द्यया कल्पि­त­ना­म­रू­प­वि­का­रा­ङ्गी­का­रा­द्दु­र्घ­ट­त्व­दोषो नास्ति । वास्त­व­कौ­ट­स्थ्यस्य कल्पि­त­वि­का­र­प्र­कृ­ति­त्वे­ना­वि­रो­धा­दि­त्यर्थः ।

रूपभेदाङ्गीकारे सावयवत्वं स्यादि­त्या­श­ङ्क्योक्तं विवृणोति -
न हीत्यादिना ।

कृत्स्न­प्र­सक्तिं निरस्य दोषान्तरं निरस्यति -
वाचारम्भणेति ।

ननु श्रुति­प्र­ति­पा­द्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह -
न चेयमिति ।

निष्प्र­प­ञ्च­ब्र­ह्म­धी­शे­ष­त्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्य­स­कृ­दा­वे­दि­तम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -
तस्मादिति ॥२७॥

पूर्वा­व­स्था­ना­शे­ना­व­स्था­न्तरं परिणामः, यथा दुग्धस्य दधिभावः । पूर्व­रू­पा­नु­प­म­र्दे­ना­व­स्था­न्तरं विवर्तः, यथा शुक्तेः रजतभावः । तत्र ब्रह्मणो विव­र्तो­पा­दा­नत्वं स्वप्न­सा­क्षि­दृ­ष्टा­न्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः -
आत्मनि चेति ।
रथयोगाः अश्वाः ॥२८॥

किञ्च कृत्स्न­प्र­स­क्त्या­दीनां साङ्ख्या­दि­प­क्षेऽपि दोष­त्वा­न्ना­स्मान् प्रत्यु­द्भा­व­नी­य­त्वम् , 'यश्चोभयोः समो दोषः' इति न्यायादित्याह सूत्रकारः -
स्वपक्षेति ।

प्रधानस्य निरवयवत्वे कृत्स्न­प्र­सक्तिः सावयवत्वे च निर­व­य­व­त्वा­भ्यु­प­ग­म­वि­रोध इत्यत्र शङ्कते -
नन्विति ।
किं साम्यावस्था गुणानां विकारः, समुदायो वा । आद्ये तस्या न मूलप्रकृतित्वम् , विकारत्वात् । द्वितीये प्रपञ्चाभावः, समु­दा­य­स्या­व­स्तु­त्वेन मूलाभावात् ।

अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत् , तर्हि कृत्स्न­प्र­स­क्ते­र्मू­लो­च्छेदो दुर्वार इत्यभिप्रेत्य परिहरति -
नैवमित्यादिना ।
इति यतोऽतः समानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः ।

प्रत्येकं सत्त्वा­दि­क­मि­त­र­गु­ण­द्व­य­स­चिवं निरवयवं यद्युपादानं तर्हि कृत्स्न­स्यो­पा­दा­नस्य कार्य­रू­प­त्व­प्र­स­क्ते­र्मू­लो­च्छेद इत्यु­क्ते­र्नि­र­व­य­व­त्व­सा­ध­क­त­र्क­स्या­भा­स­त्वा­द्गु­णानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्न­प्र­स­क्ति­रे­क­दे­श­प­रि­णा­म­स­म्भ­वा­दिति शङ्कते -
तर्केति ।

एतद्दोषाभावेऽपि दोषान्तरं स्यादिति परिहरति -
एवमपीति ।

ननु गुणा­ना­म­व­य­वा­स्त­न्तु­व­दा­र­म्भका न भवन्ति किन्तु कार्य­वै­चि­त्र्या­नु­मि­ता­स्त­द्गताः शक्तय इत्याशङ्क्य मायि­क­श­क्ति­भि­र्ब्र­ह्म­णोऽपि सावयवत्वं तुल्यमित्याह -
अथेत्यादिना ।

अणुवादेऽपि दोषसाम्यमाह -
तथेति ।
साङ्ख्यवद्दोषः समान इति सम्बन्धः । निरवयवयोः परमाण्वोः संयोगो व्याप्य­वृ­त्ति­र­व्या­प्य­वृ­त्तिर्वा । आद्ये तत्कार्यस्य द्व्यणु­क­स्यै­क­प­र­मा­णु­मा­त्र­त्वा­पत्तिः, प्रथि­म्नोऽ­धि­क­प­रि­मा­ण­स्या­नु­प­पत्तेः । न ह्यणो­र­ण्व­न्त­रे­णो­प­र्यधः पार्श्वतश्च व्याप्तौ ततोऽधिकद्रव्यं सम्भवति । द्वितीये परमाण्वोः साव­य­व­त्वा­प­त्ति­रि­त्यर्थः ।

ननु त्वं चोर इत्युक्ते त्वमपि चोर इति­व­द्दो­ष­सा­म्यो­क्ति­र­यु­क्ते­त्यत आह -
परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम् , अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२९॥