भाष्यरत्नप्रभाव्याख्या
अन्तरधिकरणम्
अन्तस्तद्धर्मोपदेशात् ।
छान्दोग्यवाक्यमुदाहरति
अथ य इति ।
अथेत्युपास्तिप्रारम्भार्थः ।
हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्तिमानुपासकैर्दृश्यते । मूर्तिमाह
हिरण्येति ।
प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ् ।
नेत्रयोर्विशेषमाहतस्येति ।
कपेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः ।
उपासनार्थमादित्यमण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति
तस्योदिति ।
तन्नाम निर्वक्ति
स इति ।
उदित उद्गतः । सर्वपाप्मास्पृष्ट इत्यर्थः ।
नामज्ञान फलमाह
उदेति हेति ।
देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह
अथेति ।
पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत् , रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वसिद्धान्तदृष्टान्तसङ्गत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति
संसारीति ।
अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् । अक्षिणीत्याधारश्रवणाच्च संसारीति सम्बन्धः ।
श्रुतिमाह
स एष इति ।
आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव । अतः सर्वेशवर इत्यर्थः ।
सूत्रं व्याचष्टे
य एष इति ।
यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्यानार्थमीश्वरे नेतुं शक्यं च । सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् ।
नच 'न ह वै देवान्पापं गच्छति' इति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्ययोगादित्यभिप्रेत्याह
सर्वपाप्मापगमश्च परमात्मन एवेति ।
सार्वात्म्यमाह
तथेति ।
अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम् , उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।
पृथिव्याग्न्याद्यात्मक इति ।
आधिदैवतमृक्पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् ।
एवं क्रमेण ऋक्सामे अनुक्रम्याह
श्रुतिःतस्येति ।
यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्य, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः ।
तच्चेति ।
ऋत्क्सामगेष्णत्वमित्यर्थः ।
सर्वगानगेयत्वं लिङ्गान्तरमाह
तद्य इति ।
तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः ।
ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह
यद्यदिति ।
पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः । निरङ्गुशमनन्याधीनम् । एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः ।
तदुक्तम् 'अशब्दम्' इत्यादिवाक्यं तंज्ञेयपरमित्याह
अपिचेति ।
तर्हि रूपं कुतः, तत्राह
सर्वेति ।
यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं 'सर्वकर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना ।
मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति
ऐश्वर्येति ।
अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः ॥ २० ॥
ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह
भेदेति ।
आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह
अस्तीति ।
आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति
यमिति ।
अशरीरस्य कथं नियन्तृत्वम् , तत्राह
यस्येति ।
अन्तर्यामिपदार्थमाह
य इति ।
तस्यानात्मत्वनिरासायाह
एष त इति ।
ते तव स्वरूपमित्यर्थः । आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः । तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥