अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अन्तरधिकरणम्

अन्त­स्त­द्ध­र्मो­प­दे­शात् ।

छान्दो­ग्य­वा­क्य­मु­दा­ह­रति
अथ य इति ।
अथे­त्यु­पा­स्ति­प्रा­र­म्भार्थः ।

हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्ति­मा­नु­पा­स­कै­र्दृ­श्यते । मूर्तिमाह
हिरण्येति ।
प्रणखो नाखाग्रं तेन सहे­त्य­भि­वि­धा­वाङ् ।

नेत्र­यो­र्वि­शे­ष­मा­ह­त­स्येति ।
कपेर्मर्कटस्य आसः पुच्छ­भा­गोऽ­त्य­न्त­ते­जस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरु­ष­स्या­क्षिणी, सद्यो­वि­क­सि­त­र­क्ता­म्भो­ज­न­यन इत्यर्थः ।

उपा­स­ना­र्थ­मा­दि­त्य­म­ण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति
तस्योदिति ।

तन्नाम निर्वक्ति
स इति ।
उदित उद्गतः । सर्व­पा­प्मा­स्पृष्ट इत्यर्थः ।

नामज्ञान फलमाह
उदेति हेति ।

देव­ता­स्था­न­मा­दि­त्य­म­धि­कृ­त्यो­पा­स्त्यु­क्त्य­न­न्त­र­मा­त्मानं देहमधिकृत्यापि तदुक्तिरित्याह
अथेति ।

पूर्वत्र ब्रह्म­प­द­मा­न­न्द­म­य­प­द­मा­न­न्द­प­दा­भ्या­स­श्चेति मुख्य­त्रि­त­या­दि­ब­हु­प्र­मा­ण­व­शा­न्नि­र्गु­ण­नि­र्ण­य­वत् , रूप­व­त्त्वा­दि­ब­हु­प्र­मा­ण­व­शा­ज्जीवो हिरण्मय इति­पू­र्व­सि­द्धा­न्त­दृ­ष्टा­न्त­स­ङ्गत्या पूर्वमुत्सर्गतः सिद्ध­नि­र्गु­ण­स­म­न्व­य­स्या­प­वा­दार्थं पूर्वपक्षयति
संसारीति ।
अत्र पूर्वो­त्त­र­प­क्ष­यो­र्जी­व­ब्र­ह्म­णो­रु­पास्तिः फलम् । अक्षि­णी­त्या­धा­र­श्र­व­णाच्च संसारीति सम्बन्धः ।

श्रुतिमाह
स एष इति ।
आदित्यस्थः पुरुषः, अमु­ष्मा­दा­दि­त्या­दू­र्ध्वगा ये केचन लोका­स्ते­षा­मी­श्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एत­स्मा­द­क्ष्णोऽ­ध­स्तना ये लोकाः, ये च मनुष्यकामा भोगा­स्ते­षा­मी­श्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वे­श्वरः' इत्य­वि­शे­ष­श्रु­ते­रिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्या­दा­हे­तु­त्वा­त्से­तु­रेष एव । अतः सर्वेशवर इत्यर्थः ।

सूत्रं व्याचष्टे
य एष इति ।
यद्य­प्ये­क­स्मि­न्वाक्ये प्रथ­म­श्रु­ता­नु­सा­रेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्याना­र्थ­मी­श्वरे नेतुं शक्यं च । सर्व­पा­प्मा­स­ङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् ।

नच 'न ह वै देवान्पापं गच्छति' इति श्रुते­रा­दि­त्य­जी­व­स्यापि पाप्मा­स्प­र्शि­त्व­मिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रिय­मा­ण­पा­प्मा­सं­म्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्य­यो­गा­दि­त्य­भि­प्रे­त्याह
सर्व­पा­प्मा­प­ग­मश्च परमात्मन एवेति ।

सार्वात्म्यमाह
तथेति ।
अत्र तच्छ­ब्दै­श्चा­क्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्सा­ह­च­र्या­त्साम स्तोत्रम् , उक्था­द­न्य­च्छ­स्त्र­मृ­गु­च्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।

पृथि­व्या­ग्न्या­द्या­त्मक इति ।
आधि­दै­व­त­मृ­क्पृ­थि­व्य­न्त­रि­क्ष­द्यु­न­क्ष­त्रा­दि­त्य­ग­त­शु­क्ल­भा­रूपा पञ्चविधा श्रुत्युक्ता, साम चाग्नि­वा­य्वा­दि­त्य­च­न्द्रा­दि­त्य­ग­ता­ति­कृ­ष्ण­रू­प­मुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्च­क्षुः­श्रो­त्रा­क्षि­स्थ­शु­क्ल­भा­रूपा चतुर्विधा, साम च प्राण­च्छा­या­त्म­म­नोऽ­क्षि­ग­ता­ति­नी­ल­रूपं चतुर्विधमुक्तम् ।

एवं क्रमेण ऋक्सामे अनुक्रम्याह
श्रुतिःतस्येति ।
यौ सर्वा­त्म­क­र्क्सा­मा­त्मकौ गेष्णा­व­मु­ष्या­दि­त्य­स्थस्य, तावे­वा­क्षि­स्थस्य गेष्णौ पर्वणीत्यर्थः ।

तच्चेति ।
ऋत्क्सा­म­गे­ष्ण­त्व­मि­त्यर्थः ।

सर्वगानगेयत्वं लिङ्गान्तरमाह
तद्य इति ।
तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः ।

ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह
यद्यदिति ।
पशु­वि­त्ता­दि­र्वि­भूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गा­न­मी­श्व­र­स्यै­वे­त्यर्थः । निर­ङ्गु­श­म­न­न्या­धी­नम् । एषा विचित्ररूपा मूर्ति­र्मा­या­वि­कृ­ति­त्वा­न्माया मया सृष्टेत्यर्थः ।

तदुक्तम् 'अश­ब्दम्' इत्यादिवाक्यं तंज्ञे­य­प­र­मि­त्याह
अपिचेति ।

तर्हि रूपं कुतः, तत्राह
सर्वेति ।
यत्र तूपा­स्य­त्वे­नो­च्यते तत्रे­त्य­ध्या­हृत्य सर्व­का­र­ण­त्वा­त्प्रा­प्त­रू­प­वत्वं 'सर्व­कर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना ।

मर्या­दा­व­दै­श्व­र्य­मी­श्व­रस्य नेत्युक्तं निराकरोति
ऐश्वर्येति ।
अध्या­त्मा­धि­दै­व­त­ध्या­न­यो­र्वि­भागः पृथ­क्प्र­यो­ग­स्त­द­पे­क्ष­मेव, नत्वैश्वर्यस्य परि­च्छे­दा­र्थ­मि­त्यर्थः ॥ २० ॥

ननु उपा­स्यो­द्दे­शे­नो­पा­स्ति­वि­धे­र्वि­धे­य­क्रि­या­क­र्म­णो­र्व्री­ह्या­दि­व­द­न्यतः सिद्धि­र्वा­च्ये­त्या­श­ङ्क्याह
भेदेति ।

आदि­त्य­जी­वा­दी­श्व­रस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह
अस्तीति ।

आदित्ये स्थित­र­श्मि­नि­रा­सा­र्थ­मा­दि­त्या­द­न्तर इति जीवं निरस्यति
यमिति ।

अशरीरस्य कथं नियन्तृत्वम् , तत्राह
यस्येति ।

अन्त­र्या­मि­प­दा­र्थ­माह
य इति ।

तस्या­ना­त्म­त्व­नि­रा­सा­याह
एष त इति ।
ते तव स्वरूपमित्यर्थः । आदि­त्या­न्त­र­त्व­श्रुतेः समा­न­त्वा­दि­त्यर्थः । तस्मात्पर एवा­दि­त्या­दि­स्था­नक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥