भाष्यरत्नप्रभाव्याख्या
सन्ध्याधिकरणम्
न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह -
स हि कर्तेति ॥१॥
किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह -
अपिचेत्यादिना ।
रूढिमाशङ्क्य प्रकरणान्निरस्यति -
नन्वित्यादिना ।
यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः ।
स्वप्नस्य जाग्रदर्थैः समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह -
अथो खल्वाहुरिति ॥२॥
स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति -
तुशब्द इत्यादिना ।
चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवेऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः । कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः ।
सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति -
न तावादित्यादिना ।
संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः, पार्श्वस्थान्प्रतीति शेषः । एतत्स्वप्नं यथा स्यात्तथा यत्र काले स्वप्न्यया वृत्त्या चरति तदा स्वशरीरे यथेष्टं चरतीत्यर्थः ।
बहिरिवेति ।
कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः ।
गुणमाह -
यो हीति ।
देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थोऽपि बहिरित्युक्त इत्यर्थः । एवं सति श्रुतियुक्तिभ्यामन्तरेव स्वप्ने सतीत्यर्थः ।
विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह -
कालेति ।
अत्र रात्रिसमयेऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् । पूर्वपक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तसामग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम् ॥३॥
स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितोऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे -
मायेत्यादिना ।
मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नाः सत्यसूचकाश्चेत्सत्याः स्युरित्यत आह -
तत्रापि भवतु नामेति ।
सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः ।
यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद्स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह -
यदुक्तमित्यादिना ।
तथा च स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः ।
श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह -
अपिचेति ।
व्यतिकरः संकरः, श्रुत्या तत्परतयेत्यर्थः । जागरितादविशेषादिति भावः ।
फलितमाह -
तस्मादिति ।
एतेनेति ।
भाक्तत्वेनेत्यर्थः ।
द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात्सिद्धः, नाद्य इत्याह -
यदप्युक्तमित्यादिना ।
स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थः ।
न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।
जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह -
तस्य त्विति ।
एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति -
न चास्माभिरिति ।
तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह -
पारमार्थिकस्त्विति ।
द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह -
न चेति ।
कस्तर्हि स्वप्नस्य जाग्रतो विशेषोऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह -
प्रागिति ॥४॥
पूर्वं कॢप्तसामग्र्यभावात्स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे -
अथपि स्यादित्यादिना ।
सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः ।
तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते -
किमिति ।
नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादात्कस्यचिद्व्यज्यत इत्याह -
न नास्तीति ।
विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः । ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति । क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् ।
सगुणविद्याफलमाह -
तस्येति ।
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मन्त्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तद्भोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः ॥५॥
उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह -
कस्मादिति ।
सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति -
उच्यत इत्यादिना ।
जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति -
नन्वित्यादिना ।
स्वप्नेऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनः स्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वेऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति । तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः ॥६॥