भाष्यरत्नप्रभाव्याख्या
उभयलिङ्गाधिकरणम्
सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति विचार्यापादसमाप्तेस्तत्पदार्थ निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह -
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।
उद्देश्यत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह -
येनेति ।
निर्विशेषत्वंसविशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गाः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः । यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः ।
निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति -
एवमिति ।
किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति । तत्राद्य निरस्य द्वितीयमनूद्य दूषयति -
अस्तु तर्हीति ।
स्थानमुपाधिः । ब्रह्मणि विशेषः कल्पितः, औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः ।
उपाधेः सत्यत्वेऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह -
उपाधीनामिति ।
तृतीयं निरस्यति -
अतश्चेति ।
सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः ।
निषेधश्रुतेश्चैवमित्याह -
सर्वत्र हीति ॥११॥
भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे -
अथापि स्यादिति ।
पूर्वोक्तं विरोधं स्मारयति -
ननूक्तमिति ।
भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः ।
किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति । आद्येऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति -
नेति ब्रूम इति ॥१२॥
द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह -
अपि चेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः ॥१३॥
द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते -
कथं पुनरिति ।
तत्परातत्परविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह -
अरूपवदेवेति ।
उपासनापरवाक्येषु आकारे तात्पर्याभावेऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह -
तेष्वसतीति ॥१४॥
कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह -
प्रकाशवच्चेति ।
नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनार्थवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह -
न हि वेदवाक्यानामिति ।
नन्वेवमपीति ।
उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वेऽपीत्यर्थः ।
उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारेऽपि न पूर्वापरविरोध इत्याह -
नेति ब्रूम इति ।
द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह -
सत्यमिति ॥१५॥
यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह -
आह चेति ।
सैन्धवघनो लवणपिण्डः ॥१६॥
किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह -
दर्शयति चेति ।
अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः । अधि अन्यत्पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीये तृतीये च प्रश्ने तूष्णीं भावं त्यक्त्वोवाच । उपशान्तो निरस्तद्वैतः । अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् । सत् इन्द्रियवेद्यम् । असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः । सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः ॥१७॥
किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह -
अत एव चोपमेति ।
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः । यथायं ज्योतिर्मयो विवस्वान्स्वत एकोऽपि घटभेदेन भिन्नाः अपोऽनुगच्छन् बहुधा क्रियते एवमजोऽयमात्मा देवः स्वप्रकाश एकोऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना ॥१८॥
इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम् -
अम्बुवदिति ।
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः ॥१९॥
उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम् -
वृद्धिहासेति ।
दृष्टान्तसाम्येऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह -
न चेदमिति ।
श्रूयते न कल्प्यत इत्यर्थः ।
श्रुतदृष्टान्तस्य 'सूर्यकादिवत्' इत्युपन्यासेन किं फलमित्यत आह -
शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः । अविरोध इति न वैषम्यमित्यर्थः । आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः । अल्पजलेऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षितमिति भावः ॥२०॥
प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः -
दर्शनाच्चेति ।
द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात्स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टोऽपि पुरुषः पूर्ण एवेत्यर्थः । तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् ।
एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात्निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति -
तस्मादिति ।
एकदेशिव्याख्यामुत्थापयति -
अत्रेति ।
न स्थानतोऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च । कुतःवैयर्थ्यात् । सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः आह च तन्मात्रम् । सन्मात्रं ब्रह्म श्रुतिराह, 'ज्ञानस्य सत्तानतिरेकात्' इति ।
इदं द्वितीयाधिकरणं दूषयति -
अत्र वयमिति ।
द्वितीयाधिकरणस्य किं ब्रह्मणोऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह -
यदि तावदिति ।
न हि द्वितीय इत्याह -
न चेति ।
ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह -
कथं वेति ।
न तृतीय इत्याह -
नापीति ।
सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह -
कथमिति ।
न च बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् । सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् ।
एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति -
नापीति ।
प्रसङ्गमेवाह -
सत्तेति ।
व्यावृत्तत्वं भिन्नत्वम् । निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात्भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः ।
उभयश्रुतिबलादुत्थानमिति शङ्कते -
श्रुतत्वादिति ।
मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह -
नेति ।
सद्बोधयोर्भेदोऽस्ति न वा । आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् । संप्रति द्वितीयं शङ्कते -
अथ सत्तैवेति ।
सद्बोधपदयोर्वाच्यभेदेऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः । अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् ।
किञ्चात्र संशयोऽप्ययुक्त इत्याह -
तथापीति ।
एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह -
सूत्राणीति ।
स्वपक्षे सूत्रसामञ्चस्यं चेत्याह -
अपि चेति ।
अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः । आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु 'मनोमयः प्राणशरीरः सत्यकामः' इत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः । मनोमय इति कोऽर्थः, मनोऽतिरिक्तोपाधिशून्य इत्यर्थः ।
एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसोऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति -
यदपीत्यादिना ।
किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वमुतोपासनाप्रकरणस्थानामपि । तत्राद्यमङ्गीकरोति -
ये हीति ।
अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह -
अयमिति ।
ईश्वर एव हरय इत्यर्थः ।
द्वितीयं दूषयति -
ये पुनरिति ।
मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह -
श्रुत्या चेति ।
किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मानाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति । सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह -
सर्वेषां चेति ।
ननूपासनाऽर्थकवाक्यानां स्वार्थे फलाभावात्सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह -
फलमपीति ।
अर्थैक्याभावाच्च नैकवाक्यतेत्याह -
कथं चेति ।
अर्थैक्यं शङ्कते -
एकेति ।
यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोऽर्थोऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः ।
नियोगासिद्ध्या दूषयति -
नेति ।
विषयं शङ्कते -
ननु द्वैतेति ।
प्रत्यनीकं प्रतिबन्धकम् ।
ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह -
ब्रह्मस्वभावो हि प्रपञ्च इति ।
कारणं हि कार्यस्य स्वरूपमतः कार्यनाशेऽपि कारणस्य न लयः, घटनाशेऽपि मृद्दर्शनादित्यर्थः ।
प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति -
तत्र यदि तावदिति ।
सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयोऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः ।
द्वितीयमनूद्य दूषयति -
अथेत्यादिना ।
उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः ।
किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा । नाद्यः, अशक्यत्वादित्याह -
अनावेदिते त्विति ।
द्वितीयं शङ्कते -
नन्विति ।
उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह -
नेति ।
एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह -
नियोज्योऽपि चेति ।
प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः ।
आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह -
द्रष्टव्यादिशब्दा इति ।
ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह -
ज्ञेयाभिमुखस्यापीति ।
किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् । तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह -
तस्मादिति ।
तं ज्ञानार्थिनं प्रतीत्यर्थः ।
ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह -
न चेति ।
नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति । विधिनान्यथाकृतं दृश्यत इत्यत आह -
यदीति ।
अन्यथाधीः कृतिसाध्या चेत्क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः ।
वेदान्तेषु विधिवादिनोऽन्यच्च दूषणमस्तीत्याह -
किञ्चान्यदिति ।
ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति -
अथेत्यादिना ।
किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह -
नियोगपरतायां चेति ।
फलितमाह -
अतश्चेति ।
इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति -
अभ्युपगम्यमानेऽपीति ।
भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः । निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः ।
कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह -
प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः ।
इहापि निर्गुणसगुणविद्ययोरेकाधिकारात्नियोगैक्यमस्तु, नेत्याह -
न त्विहेति ।
मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् ।
न च निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् । अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति -
तस्मादिति ॥२१॥