अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आदित्यादिमत्यधिकरणम्

आदित्यादि ।
पृथि­व्य­ग्न्य­न्त­री­क्षा­दि­त्य­द्यु­सं­ज्ञेषु लोकेषु हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ती­हा­र­नि­ध­नै­रंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशे­षा­ज्ञा­ना­त्सं­शयः ।

पूर्व­व­दु­त्क­र्षा­न­व­धा­र­णा­द­नि­यम इति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्रेति ।

सिद्ध­रू­पा­दि­त्या­दिभ्यः कर्म­रू­पो­द्गी­था­दीनां फल­स­न्नि­क­र्षे­णो­त्क­र्षा­द्ब्र­ह्म­व­द्वि­शे­ष­णत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह -
अथवेति ।
तत्त­त्प­क्ष­सि­द्धि­रेव पूर्वो­त्त­र­प­क्ष­फलं मन्तव्यम् ।

किञ्चा­न­ङ्गे­ष्वे­वा­ङ्ग­दृ­ष्टि­रि­त्यत्र तेष्व­ङ्ग­वा­चि­प­द­प्र­योगं लिङ्गमाह -
तथा चेयमेवेति ।
तदेतदग्न्याख्यं साम एतस्यां पृथि­वी­रू­पा­या­मृ­च्य­ध्यू­ढ­मु­प­रि­स्थि­त­मि­त्यर्थः ।

ऋचि साम­व­त्पृ­थि­व्या­म­ग्नि­र्दृ­श्यते, अतः साम्या­त्पृ­थि­व्ये­व­र्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथि­व्य­ग्नि­दृष्ठिः स्यात्, तदा पृथि­व्य­ग्न्यो­रृ­क्सा­म­प­द­प्र­योगो न स्यादित्यत्र दृष्टान्तमाह -
क्षत्तरीति ।
अतः प्रयो­गा­न्य­था­नु­प­पत्त्या पृथि­व्य­ग्न्यो­रृ­क्सा­म­दृ­ष्टि­रि­त्यर्थः ।

विषयसप्तम्या चैवमेवेत्याह -
अपि चेति ।
गायत्रसंज्ञं साम ।

किञ्च पूर्वा­धि­क­र­ण­सि­द्धा­न्त­न्या­ये­ना­प्ये­व­मि­त्याह -
प्रथमेति ।

अन­ङ्ग­बु­द्ध्या­ङ्गा­न्यु­पा­स्या­नीति सिद्धान्तयति -
एवमिति ।
उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रि­य­मा­णे­षू­प­प­द्यते, अङ्गानां समृ­द्ध्य­नु­कू­ल­प्र­कृ­त­क­र्मा­पू­र्व­ज­न­क­त्वा­दि­त्यर्थः ।

ननु यत्रोपास्तीनां प्रकृ­त­क­र्मा­पू­र्व­स­न्नि­कृ­ष्टा­ङ्ग­द्वा­रा­पेक्षं फलं श्रुतं तत्र फलो­प­प­त्त­येऽ­ङ्गा­ना­मु­पा­स्यत्वं भवतु तद­न­पे­क्ष­लो­का­दि­फ­लेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते -
भवत्विति ।

यथा स्वत­न्त्र­प­शु­फ­ल­स्यापि गोदोहनस्य अङ्ग­द्वा­रा­पे­क्ष­यैव फलमिष्टं तद्व­ल्लो­का­दि­फ­ले­षू­पा­स­ने­ष्वपि कर्मा­पू­र्वा­ङ्ग­द्वा­रैव फलकल्पना युक्ता, कर्मा­धि­कृ­त­स्यै­वा­ङ्गा­श्रि­तो­पा­स­ने­ष्व­धि­का­रात्, अतोऽ­ङ्गा­ना­मे­वो­पा­स्य­त्व­मिति समाधत्ते -
तेष्वपीति ।

उत्क­र्षा­न­व­धा­र­णा­द­नि­यम इत्युक्तं निरस्यति -
फलात्मेति ।

उप­क्र­म­ब­ला­च्चा­ङ्ग­मु­पा­स्य­मि­त्याह -
अपि चेति ।
रस­त­म­त्वा­दि­गु­णा­द्यु­प­स­ङ्ख्या­न­मि­त्यर्थः ।

द्वितीयं पूर्वपक्षं दूषयति -
यत्तू­क्त­मि­त्या­दिना ।
कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।

सिद्धा­दि­त्या­द्या­त्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह -
आदि­त्या­दि­भा­वे­नेति ।
माण­व­केऽ­ग्नि­दृ­ष्टि­व­दु­द्गी­था­दि­ष्वा­दि­त्या­दि­धियां गौणत्वान्न कर्म­त्वा­भि­भा­व­क­त्व­मि­त्य­ङ्गे­ष्व­न­ङ्ग­त्व­धी­र­वि­रु­द्धे­त्या­शयः ।

प्रयो­गा­नु­प­प­त्ति­मुक्तां निरस्यति -
तदेतदिति ।

लक्षणाबीजं सम्बन्धमाह -
लक्षणा चेति ।
गङ्गायां घोष इत्यत्र सन्नि­कृ­ष्ट­सं­यो­ग­स­म्ब­न्धेन तीरलक्षणा, अग्निर्माणवक इत्य­त्रा­ग्नि­नि­ष्ठ­शु­चि­त्वा­दि­गु­ण­व­त्त्व­रू­प­प­र­म्प­रा­स­म्ब­न्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथि­व्या­ग्नि­दृ­ष्टि­प­क्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्ट­व्य­ता­ख्य­प­र­म्प­रा­स­म्ब­न्धेन पृथि­व्य­ग्नि­ल­क्षणा युक्तेत्यर्थः ।

ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राज­न्य­प्र­यो­गा­दिति शङ्कते -
तत्र यद्यपीति ।
तथापि ऋक्सा­म­स­म्ब­न्धा­त्पृ­थि­व्य­ग्न्यो­रे­वै­त­स्या­मृ­च्य­ध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः ।

ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह -
प्रसिद्धयोरिति ।
तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथ­गु­क्ते­स्त­दे­त­स्या­मि­त्य­त्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रती­का­भे­द­दृष्ट्या पृथिव्यग्न्योः प्रती­क­स­न्नि­धा­ना­त्त­यो­रेव प्रतीकपदप्रयोगः कृत­स्त­द­भे­द­दा­र्ढ्या­ये­त्यर्थः ।

तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह -
क्षत्रिति ।
स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राज­न्य­प्य­स्ती­त्य­क्ष­रार्थः ।

ऋगादावेव पृथि­व्या­दि­दृ­ष्टि­रि­त्यत्र हेत्वन्तरमाह -
इयमिति ।

सप्तम्या लोका­ना­मु­पा­स्य­त्व­मुक्तं निरस्यति -
तथा लोकेष्विति ।
सामात्मना लोकानुपासीतेति द्विती­या­स­प्त­म्यो­र्भ­ङ्ग­स्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एक­वि­भ­क्ति­भ­ङ्ग­ला­घ­वेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्या­त­मि­त्यर्थः ।

ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह -
यत्रापीति ।
'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गा­रा­दि­प­ञ्चा­व­य­वस्य साम्न उपासनमुक्त्वा 'इति तु पञ्च­वि­ध­स्यो­पा­स­नम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवो­पा­स्य­त्व­मि­त्यर्थः ।

यदुक्तं प्राथ­म्या­त्पृ­थि­व्या­दे­रू­पा­स्य­त्व­मिति, तत्राह -
एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथि­वी­त्व­वि­धे­रु­द्दे­श्यस्य प्रथमनिर्देशो वाच्य­स्त­था­प्यु­क्त­न्या­य­ब­ला­द्व्य­त्ययो ग्राह्य इत्यर्थः ॥६॥