भाष्यरत्नप्रभाव्याख्या
गुहाप्रविष्टाधिकरणम्
अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह
गुहामिति ।
ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचिकेतवाक्यानामध्ययनम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।
बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह
तत्रेति ।
पूर्वोत्तरपक्षयोः फलं स्वयमेवाह
यदीत्यादिना ।
तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये । अतस्त्वयोपदिष्टोऽहमेतदात्मतत्त्वं जानीयामित्यर्थः । तदपि परमात्मस्वरूपमपीत्यर्थः ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति
अत्राहेति ।
छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह
अत्रोच्यत इति ।
पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह
यद्वेति ।
नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।
पूर्वपक्षे 'पिबन्तौ' इति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह
बुद्वीति ।
एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।
मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह
न चेति ।
ब्रह्मक्षत्रपदस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबत्पदस्य संनिहितगुहापदाद्बुद्धिजीवपरतेति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
गोचरः फलम् ।
एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्तिमात्रग्रहे लाघवात् । न विजातीयम् , जातिव्यक्त्युभयकल्पनागौरवात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् । तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह
सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्वरेऽनेकानर्थसङ्कुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वान्कामानित्यन्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥
विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह
विशेषणाच्चेति ।
स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहिरागतमात्मानम् , अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।
ऋतपानमन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति
तस्मादिहेति ।
उक्तन्यायमतिदिशति
एष इति ।
द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् ।
एतावात्मानौ, तल्लिङ्गदर्शनादित्याह
तयोरन्य इति ।
विशेषणाच्चेत्याह
अनन्तरे चेति ।
अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह
मुह्यमान इति ।
नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः ।
'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधुनाकृत्वाचिन्तामुद्धाटयति
अपर इति ।
अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः ।
सत्त्वं बुद्धिरिति शङ्कते
सत्त्वशब्द इति ।
बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह
नापीति ।
पूर्वपक्षार्थस्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः । तावता मन्त्रव्याख्यामात्रेण । एवमेव जीवस्य ब्रह्मत्वोक्तावेव । नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः । भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः । अविद्या नागच्छतीति वार्थः ।
जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते
कथमिति ।
बुद्धेर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह
उच्यत इति ।
तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः ।
वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह
इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्यविवेकाच्चिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः ।
भोक्तृत्वमाविद्यकम् , न वस्तुत इत्यत्र मानमाह
तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥