अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अबधिकरणम्

आपः ।
अतिदेशोऽयम् ।

तथा ह्याथर्वणे मुण्डकग्रन्थे 'एत­स्मा­ज्जा­यते प्राणो मनः सर्वे­न्द्रि­या­णिच । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी' इति मन्त्रेऽपां ब्रह्मजत्वं श्रुतम् । 'अग्ने­रापः' इति श्रुत्या तस्य विरोधोऽस्ति न वेति सन्देहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपा­म­ग्नि­दा­ह्य­त्वेन विरो­धा­द­ग्नि­ज­त्वा­स­म्भ­वा­त्क्र­मार्था पञ्चमीत्यविरोध इत्य­धि­का­श­ङ्का­या­मु­क्त­ते­जो­न्या­य­म­ति­दिश्य व्याचष्टे -
अत इति ।

प्रत्यक्षविरोधे कथ­म­पा­म­ग्नि­ज­त्व­नि­र्णयः, तत्राह -
सति वचन इति ।
त्रिवृ­त्कृ­त­यो­र­प्ते­ज­सो­र्वि­रो­धेऽ­प्य­ग्ने­राप इति वच­ना­द­ती­न्द्रि­य­यो­स्त­यो­र्नास्ति विरोध इति निर्णीयत इत्यर्थः ।

न केवलं श्रुत्य­वि­रो­ध­ज्ञा­ना­या­य­म­ति­देशः किन्तु पञ्च­भू­तो­त्प­त्ति­क्र­म­नि­र्ण­यार्थं चेत्याह -
तेजसस्त्विति ।
तस्मा­त्ते­जो­भा­वा­पन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥११॥