अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अन्तराविज्ञानाधिकरणम्

अन्तराविशेषात् ।

उक्त­भू­तो­त्प­त्ति­ल­य­क्र­म­मु­प­जीव्य स किं कर­णो­त्प­त्ति­क्र­मेण विरुध्यते न वेति कर­णा­ना­म­भौ­ति­क­त्व­भौ­ति­क­त्वाभ्यां सन्देहे वृत्ता­नु­वा­द­पू­र्वकं पूर्वपक्षमाह -
भूता­ना­मि­त्या­दिना ।

करणान्येव न सन्तीति वदन्तं प्रत्याह -
सेन्द्रियस्येति ।
'मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ', 'श्रोत्रा­दी­नी­न्द्रि­या­ण्यन्ये' इति स्मृति­र्द्र­ष्टव्या । अन्यपराः शब्दाः लिङ्गा­नी­त्यु­च्यन्ते ।

करणानां क्रमा­का­ङ्क्षा­माह -
तयोरिति ।

आकाङ्क्षायां श्रुतिसिद्धः क्रमो ग्राह्य इत्याह -
अपि चेति ।
विज्ञा­य­तेऽ­ने­नेति विज्ञानं सेन्द्रिया बुद्धिः । आत्मनो भूतानां चान्तरा मध्ये तल्लि­ङ्गा­त्सृ­ष्टि­वा­क्यात् 'एत­स्मा­ज्जा­यते प्राणो मनः' इत्या­दि­रू­पा­द्वि­ज्ञा­न­म­नसी अनुक्रम्येते । तथा च करणक्रमेण पूर्वो­क्त­क्र­म­भङ्ग इति शङ्का­सू­त्रां­शार्थः । न च करणानां भौति­क­त्वा­द्भू­ता­न­न्त­र्य­मिति वाच्यम् , तेषां भौतिकत्वे मानाभावात् । तथा चात्मनः प्रथममाकाशस्य जन्म पश्चा­द्वा­यो­रि­त्यु­क्त­क्र­म­स्या­त्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्ति­र्य­थ­र्व­ण­श्रु­त्यो­र्वि­रो­धान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।

सिद्धान्तयति -
नेति ।
'आत्मन आकाशः' इत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्य­का­र­ण­भा­वे­ना­र्थतः क्रमो भाति । न तस्याथर्वणपाठेन बाधः अर्थ­क्र­म­वि­रो­धि­क्र­म­वि­शे­ष­स्या­श्रुतेः पाठ­क्र­म­स्या­र्थ­क्र­म­धी­शे­षस्य शेषि­बा­ध­क­त्वा­यो­गा­दितः श्रुत्य­र्थ­क्र­मा­वि­रो­धेन पाठस्य नेय­त्वा­द्भू­ता­न­न्तर्यं करणानामित्यर्थः ।

किञ्च भौति­क­त्वा­त्तेषां तदा­न­न्त­र्य­मि­त्याह -
यदीति ।
न च प्राण­स्या­ब्वि­का­र­त्वा­यो­गा­द­न्न­म­य­मि­त्या­दि­म­यटो न विकारार्थतेति वाच्यम् , करणानां विभक्तत्वेन कार्यतया कार­णा­का­ङ्क्षा­या­म­न्न­म­य­मि­त्या­दि­श्रु­ते­रा­का­ङ्क्षि­तो­क्त्य­र्थ­म­सति बाधके मयटो विकारार्थताया युक्तत्वात् । प्राचु­र्या­र्थत्वे त्वना­का­ङ्क्षि­तो­क्ति­प्र­स­ङ्गा­च्छ्रु­त्यैव तेजोबन्नप्राशने वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः । यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणे­न्द्रि­य­म­नांसि भौतिकानि भूता­धी­न­वृ­द्धि­म­त्त्वा­द्दे­ह­व­दिति भावः ।

ननु तेषां भौतिकत्वे कथमाथर्वणे पृथ­क्त­ज्ज­न्म­क­थनं भूतजन्मोक्त्यैव तज्ज­न्म­सि­द्धे­रि­त्यत आह -
व्यपदेशोऽपीति ।

प्रौढवादेन तेषा­म­भौ­ति­क­त्व­मु­पे­त्यापि श्रुत्यविरोधमाह -
अथ त्विति ।
करणानां भूतानां च पूर्वापरत्वे माना­भा­वा­न्नो­क्त­भू­त­क्र­म­भङ्गः । न चाथर्वणवाक्यं मानं पाठ­मा­त्र­त्वा­दि­त्यर्थः ।

तर्हि कथं क्रमनिर्णयः, तत्राह -
तथेति ।
इदं स्थूलमुत्पत्तेः प्राक्प्रजापतिः सूत्रात्मासीत् । अत्र सूक्ष्म­भू­ता­त्म­क­प्र­जा­प­ति­सर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।

एवञ्च भूत­क­र­णो­त्प­त्ति­श्रु­त्यो­र­वि­रो­धा­द्ब्र­ह्मणि सम­न्व­य­सि­द्धि­रिति सिद्धान्तफलं निगमयति -
तस्मादिति ॥१५॥