अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वायुक्रियाधिकरणम्

इन्द्रियाणि विचार्य तद्व्या­पा­रा­त्प्राणं पृथ­क्क­र्तु­मु­त्प­त्ति­र­ति­दिष्टा । सम्प्र­त्यु­त्प­न्न­प्रा­ण­स्व­रूपं पृथक्करोति -
न वायुक्रिये पृथगुपदेशात् ।

मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहो­स्वि­त्त­त्त्वा­न्त­र­मिति वायु­प्रा­ण­यो­र्भे­दा­भे­द­श्रु­तीनां मिथो­वि­रो­धा­त्सं­शये पूर्वपक्षमाह -
तत्रेति ।

द्वितीयं साङ्ख्य­पू­र्व­प­क्ष­माह -
अथवेति ।

सिद्धान्तत्वेन सूत्रमादत्ते -
अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्रा­ण­च­क्षुः­श्रो­त्रै­श्च­तु­ष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्य­भि­व्य­ञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः ।

श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथ­गु­त्प­त्ति­लि­ङ्गेन चेन्द्रि­य­त­द­भि­न्न­व्या­पा­रे­भ्योऽपि भिन्नत्वमित्याह -
तथेति ।

प्राण­स्ये­न्द्रि­य­वृ­त्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति -
न च समस्तानामिति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रा­दि­साध्या, करणानां प्रत्ये­क­मे­कै­क­रू­प­ग्र­हा­दि­वृ­त्ता­वैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्या­स­त्त्वा­दि­त्यर्थः ।

प्राणाभावादिति ।
श्रोत्रा­दी­ना­मे­क­प्रा­ण­ना­ख्य­वृ­त्त्य­नु­कू­ल­प­रि­स्प­न्देषु मानाभावात् , श्रव­णा­दी­ना­म­प­रि­स्प­न्द­त्वेन विजातीयानाम् , परि­स्प­न्द­रू­प­प्रा­ण­ना­न­नु­कू­ल­त्वा­द­वा­न्त­र­व्या­पा­रा­भा­वान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।

किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह -
तथा प्राणस्येति ।

यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्य­भे­द­श्रु­ते­र्ग­ति­माह -
उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥

प्राणस्य कर­ण­वृ­त्ति­त्वा­भावे जीव­व­द्भो­क्तृत्वं स्यादिति शङ्कते -
स्यादेतदिति ।

प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह -
तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सह­प्र­यु­ज्य­मा­न­त्वेन सामत्वेन वा साम्या­त्स­ह­पा­ठ­स्तथा करणैः सहोपकरणत्वेन साम्या­त्प्रा­णस्य पाठ इति न हेत्व­सि­द्धि­रि­त्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जड­त्वा­द्भौ­ति­क­त्वाच्च, देहवत् ॥१०॥

ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकम् , प्राणस्य तु निर्वि­ष­य­त्वा­द­सा­धा­र­ण­का­र्या­भा­वाच्च नोपकरणत्वमिति शङ्कते -
स्यादेतदिति ।

उक्तव्याप्तेः शरीरे व्यभि­चा­रा­द्दे­हे­न्द्रि­य­धा­र­णो­त्क्रा­न्त्या­द्य­सा­धा­र­ण­का­र्य­स­त्वाच्च निर्विषयस्यापि प्राणस्य शरी­र­व­द्भो­गो­प­क­र­ण­त्व­म­क्षतं न तु चक्षु­रा­दि­व­ज्ज्ञा­न­क­र्म­क­र­ण­त्व­मस्ति येन सविषयत्वं स्यादिति परिहरति -
न तावदित्यादिना ।
अहंश्रेयसि स्वस्य श्रेष्ठ­ता­नि­मि­त्तम् । व्यूदिरे विवादं चक्रिरे ।

तद्वृ­त्ति­मा­त्र­ही­न­मिति ।
मूकादिभावेन स्थितमित्यर्थः । अवरं नीचम् , कुलायं देहाख्यं गृहम् , प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः । तदैव तदानीमेव । तेन प्राणेन यदश्नाति जीवस्तेन प्राण­कृ­ता­श­ने­नेति यावत् । एवं श्रुतेः प्राण­स्या­सा­धा­रणं कार्य­म­स्ती­त्यु­क्तम् ॥११॥

तत्रैव हेत्वन्तरार्थं सूत्रं व्याचष्टे -
इतश्चेत्यादिना ।
वृत्तिरवस्था । अग्निमन्थनादिकं वीर्यवत्कर्म ।

कामा­दि­वृ­त्ति­व­ज्ज्ञा­नेऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति -
नन्व­त्रा­पी­त्या­दिना ।
प्रमाणं प्रमितिः विपर्ययो भ्रमः । शश­वि­षा­णा­दि­ज्ञानं विकल्पः । तामसी वृत्तिर्निद्रा । स्मृतिः प्रसिद्धा ।

भ्रम­नि­द्र­यो­र­वि­द्या­वृ­त्ति­त्वान्न मनो­वृ­त्ति­त्व­मि­त्य­रुच्या स्वमतमाह -
बह्विति ।

सूत्र­स्या­र्था­न्त­र­माह -
जीवेति ।
तदेवं प्राण­वा­यो­र्भे­दा­भे­द­श्रु­त्यो­र­वि­रोध इति सिद्धम् ॥१२॥