अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अनाविष्काराधिकरणम्

अना­वि­ष्कु­र्व­न्न­न्व­यात् ।

तत्र बाल्ये विषये तद्धितस्य भावा­र्थ­त्वा­सं­भ­वा­त्क­र्मा­र्थत्वं गृहीत्वा तिष्ठ­न्मू­त्र­त्वा­दि­क­र्म­णोऽ­प्र­रू­ढे­न्द्रि­य­त्वा­दि­रू­प­भा­व­शु­द्धेश्च बाल­क­र्म­त्वा­वि­शे­षा­त्सं­श­य­माह -
तत्रेति ।
पूर्वपक्षे विद्याङ्गत्वेन तिष्ठ­न्मू­त्र­त्वा­दे­र­प्य­नु­ष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् ।

पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसि­द्ध­त्वा­त्ध्यानं विधे­य­मि­त्यु­क्तम्, तद्व­द्बा­ल्य­श­ब्दस्य कामचारादौ प्रसि­द्धे­स्त­द्वि­धि­ग्र­ह­ण­मि­त्याह -
किं ताविदिति ।
काम­त­श्च­र­ण­व­द­न­भ­क्ष­णानि यस्य स काम­चा­र­वा­द­भ­क्ष­ण­स्तस्य भाव­स्त­त्ते­त्यर्थः । यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्य­वि­धि­ब­ला­त्पा­ति­त्य­शा­स्त्र­म­न्य­वि­ष­य­मिति भावः ।

'यस्त्व­वि­ज्ञा­न­वा­न्भ­व­त्य­म­नस्कः सदाशुचिः । न स तत्पदमाप्नोति संसारं चाधि­ग­च्छति' इत्यादि शौच­भि­क्षा­दि­नि­य­म­वि­धि­शा­स्त्रा­वि­रु­द्धस्य भाव­शु­द्धा­ख्य­बा­ल्यस्य विधिसंभवान्न यथे­ष्ट­चे­ष्टा­वि­धि­रिति सिद्धान्तयति -
एवमिति ।

प्रधा­न­वि­रो­धि­त्वाच्च न तद्विधिरित्याह -
प्रधानेति ।
भाव­शु­द्धे­र्वि­द्यो­प­का­र­क­त्वे­ना­न्व­या­द­ना­वि­ष्कु­र्व­न्भ­वे­दिति बाल्यविध्यर्थ इति सूत्रयोजना ॥५०॥