भाष्यरत्नप्रभाव्याख्या
अर्चिराद्यधिकरणम्
ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषयेति मार्गभेदं शङ्कते -
स्यादेतदिति ।
एकस्यैव मार्गस्यानेकान्यग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः । प्रत्यभिज्ञानाच्चेति समाध्यर्थः ।
गन्तव्यैक्यं विवृणोति -
तथा हीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः ।
एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदोऽप्रयोजक इत्युक्तं सम्प्रत्येवकारत्वरावचनयोर्गतिमाह -
यत्त्वित्यादिना ।
रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः । यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः ।
मार्गैक्ये लिङ्गमाह -
अपि चेति ।
शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः ।
उत्तरमार्गैक्येऽप्यर्चिरादिनेति विशेषणे को हेतुरित्यत आह -
भूयांसीति ॥१॥