अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अग्निहोत्राद्यधिकरणम्

अग्निहोत्रादि तु ।

नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति सन्देहे उभे पुण्यपापे तर­ती­त्य­वि­शे­ष­श्रु­ते­र्न­श्य­ती­त्या­श­ङ्क्यो­त्त­र­स्या­पी­त्यु­क्ता­ति­दे­शस्य नित्या­द्य­ति­रि­क्त­का­म्य­पु­ण्य­वि­ष­य­त्वे­ना­त्रा­प­वादं सिद्धान्तयति -
पुण्य­स्ये­त्या­दिना ।
अत्र पूर्वपक्षे ज्ञानार्थं नित्या­द्य­नु­ष्ठा­ना­सिद्धिः पङ्क­क्षा­ल­न­न्या­यात्, सिद्धान्ते तु ज्ञानो­त्प­त्त्य­र्थ­त्वा­त्त­त्सि­द्धि­रिति विवेकः । अत्र भाष्ये ज्ञानकर्मणोः साक्षा­दे­क­का­र्यत्वं परमतेनोक्त्वा साक्षा­त्पा­र­म्प­र्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् । अत एवेति ज्ञानादूर्ध्वं कर्मा­भा­वा­त्पू­र्व­क­र्म­वि­ष­य­मि­त्यर्थः ।

निर्गु­ण­वि­द्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितम् , सम्प्रति सगु­ण­वि­द्या­प­र­त्वेन सूत्र­स्या­ञ्ज­स्य­माह -
सगुणास्विति ॥१६॥

उत्तरसूत्रार्थं गृह्णाति -
किमित्यादिना ।
यत्प्रा­र­ब्धा­द­न्य­त्काम्यं पुण्यं पापं च तदेव विद्व­त्सु­हृ­द्द्वि­षतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञाना­न्न­श्य­तीति भावः ॥१७॥