अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

दहराधिकरणम्

दहर उत्तरेभ्यः । छान्दो­ग्य­मु­दा­ह­रति
अथेति ।
भूमविद्यानन्तरं दह­र­वि­द्या­प्रा­र­म्भा­र्थोऽ­थ­शब्दः । ब्रह्म­णोऽ­भि­व्य­क्ति­स्था­न­त्वा­द्ब्र­ह्म­पुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यद­न्त­रा­का­श­श­ब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।

अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्रा­का­श­श­ब्दा­देकं संशयमुक्त्वा ब्रह्म­पु­र­श­ब्दा­त्सं­श­या­न्त­र­माह
तथा ब्रह्मपुरमितीति ।
अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना ।

परपुरुषशब्दस्य ब्रह्मणि मुख्य­त्वा­द्ब्रह्म ध्येय­मि­त्यु­क्तम् । तथे­हा­प्या­का­श­प­दस्य भूताकाशे रूढ­त्वा­द्भू­ता­काशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति
तत्रा­का­शे­त्या­दिना ।
दह­र­वा­क्य­स्या­न­न्त­र­प्र­जा­प­ति­वा­क्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्या­दि­स­ङ्ग­तयः । पूर्वपक्षे भूता­का­शा­द्यु­पास्तिः, सिद्धान्ते सगु­ण­ब्र­ह्मो­पास्त्या निर्गुणधीरिति फलभेदः । नच 'आका­श­स्त­ल्लि­ङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यद­न्त­स्त­द­न्वे­ष्ट­व्यम्' इत्याकाशान्तः स्थस्या­न्वे­ष्ट­व्य­त्वा­दि­लि­ङ्गा­न्व­येन दहराकाशस्य ब्रह्मत्वे स्पष्ट­लि­ङ्गा­भा­वात् ।

ननु भूता­का­श­स्या­ल्पत्वं कथम् , एक­स्यो­प­मा­न­त्व­मु­प­मे­यत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुत­स­र्वा­श्र­यत्वं च कथमित्याशङ्क्य क्रमेण परिहरति
तस्येत्यादिना ।
हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पि­त­भे­दा­त्सा­दृ­श्यम् , स्वत एक­त्वा­त्स­र्वा­श्र­य­त्व­मि­त्यर्थः ।

ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह
अथवेति ।

भक्त्येति ।
चैत­न्य­गु­ण­यो­गे­ने­त्यर्थः ।

मुख्यं ब्रह्म गृह्यतामित्यत आह
न हीति ।

अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह
तत्रेति ।
पुरस्वामिन एव तद­न्तः­स्थ­त्व­स­म्भ­वा­न्ना­न्या­पे­क्षे­त्यर्थः ।

व्यापि­नोऽ­न्तः­स्थत्वं कथमित्यत आह
मन इति ।

आकाशपदेन दह­र­म­नु­कृ­ष्यो­क्तो­प­मा­दिकं ब्रह्मा­भे­द­वि­व­क्षया भविष्यतीत्याह
आकाशेति ।

ननु जीव­स्या­का­श­प­दा­र्थ­त्व­म­यु­क्त­मि­त्या­शङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मि­न्न­न्तःस्थं किञ्चि­द्ध्ये­य­मिति पक्षान्तरमाह
न चात्रेति ।
परमन्तःस्थं वस्तु, तद्वि­शे­ष­ण­त्वे­ना­धा­र­त्वेन दहराकाशस्य तच्छ­ब्दे­नो­पा­दा­ना­दि­त्यर्थः । यद्वा अन्वे­ष्य­त्वा­दि­लि­ङ्गा­द्द­ह­रस्य ब्रह्म­त्व­नि­श्च­यात् 'आका­श­स्त­ल्लि­ङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।

अप­ह­त­पा­प्म­त्वा­दि­लि­ङ्गो­पे­ता­त्म­क­श्रुत्या केव­ला­का­श­श्रु­ति­र्बा­ध्येति सिद्धान्तयति
परमेश्वर इत्यादिना ।
आका­श­स्या­क्षे­प­पू­र्व­क­मिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्र­त्या­का­शोऽ­ल्प­तरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूया­दा­का­श­स्या­ल्प­ता­नि­वृ­त्ति­मि­त्यर्थः ।

वाक्यस्य तात्पर्यमाह
तत्रेति ।
निवर्तयति । आचार्य इति शेषः ।

नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्नि­वृ­त्ति­रि­त्या­श­ङ्क्याह
यद्यपीति ।
ननु 'राम­रा­व­ण­यो­र्युद्धं राम­रा­व­ण­यो­रिव' इत्य­भे­देऽ­प्यु­पमा दृष्टेतिचेत् , न अभेदे सादृ­श्य­स्या­न­न्व­येन युद्धस्य निरूपमत्वे तात्प­र्या­द­य­म­न­न्व­या­ल­ङ्कार इति काव्यविदः ।

पूर्वोक्तमनूद्य निरस्यति
नन्वित्यादिना ।
'सीता­श्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभा­यो­ग­सी­ता­श्ले­ष­रू­प­वि­शे­ष­ण­भे­दा­द्भे­दा­श्र­य­ण­मे­क­स्यैव श्रीरा­म­स्यो­प­मा­नो­प­मे­य­भा­व­सि­द्ध्य­र्थ­म­गत्या कृत­मि­त्य­नु­दा­ह­रणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्य­स्या­ल्प­त्व­नि­वृ­त्ति­प­र­त्वेन गतिसद्भावात् ।

किञ्च हार्दा­का­श­स्या­न्त­र­त्वा­त्यागे अल्पत्वेन व्याप­क­बा­ह्या­का­श­सा­दृश्यं न युक्तमित्याह
अपिचेति ।
आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।

ननु हार्दा­का­श­स्या­ल्प­त्व­नि­वृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह
उभयेति ।
अतोऽ­ल्पा­व­नि­वृ­त्ता­वेव तात्पर्यमिति भावः ।

एव­मा­का­शो­प­मि­त­त्वा­द्द­ह­रा­काशो न भूतमित्युक्तम् । सर्वा­श्र­य­त्वा­दि­लि­ङ्गे­भ्यश्च तथेत्याह
नचेत्यादिना ।
विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः ।

प्रथ­म­श्रु­त­ब्र­ह्म­श­ब्देन तत्सा­पे­क्ष­च­र­म­श्रु­त­ष­ष्ठी­वि­भ­क्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निर­पे­क्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह
अत्र ब्रूम इति ।

शरीरस्य ब्रह्मण तदु­प­ल­ब्धि­स्था­न­त्व­रूपे सम्बन्धे मानमाह
स इति ।
पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।

ननु ब्रह्मशब्दस्य जीवेऽ­प्य­न्ना­दिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह
अथवेति ।
बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्र­स­द्भा­व­दि­त्यर्थः ।

अन­न्त­फ­ल­लि­ङ्गा­दपि दहरः परमात्मेत्याह
तद्यथेति ।
अथ कर्म­फ­ला­द्वौ­रा­ग्या­न­न्त­र­मिह जीव­द­शा­या­मा­त्मानं दहरं तदाश्रितांश्च सत्य­का­मा­दि­गु­णा­ना­चा­र्यो­प­दे­श­म­नु­विद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्व­लो­के­ष्व­न­न्त­मै­श्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः ।

दहरे उक्त­लि­ङ्गा­न्य­न्य­था­सि­द्धानि तेषां तद­न्तः­स्थ­गु­ण­त्वा­दि­युक्तं स्मारयित्वा दूषयति
यदपीत्यादिना ।

उत्त­र­त्रा­का­श­स्व­रू­प­प्र­ति­पा­द­ना­न्य­था­नु­प­पत्त्या पूर्वं तस्या­न्वे­ष्य­त्वा­दि­क­मि­त्य­त्रा­न्य­थो­प­पत्तिं शङ्कते
नन्विति ।
एतत् आकाशस्वरूपम् । आक्षे­प­बी­ज­मा­का­श­स्या­ल्प­त्व­मु­प­मया निर­स्या­न्तः­स्थ­व­स्तू­क्ते­स्त­द­न्तः­स्थ­मेव ध्येयमित्यर्थः ।

तर्हि जगदेव ध्येयं स्यादित्याह
नैतदेवमिति ।

अस्तु को दोषः, तत्राह
तत्रेति ।
सर्वनामभ्यां दह­रा­का­श­मा­कृ­ष्या­त्म­त्वा­दि­गु­णा­नुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।

'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह
तस्मादिति ।

यद्वा आकाशस्तस्मिन् यद­न्त­स्त­दु­भ­य­म­न्वे­ष्ट­व्य­मिति योजनां सूचयति
सहान्तःस्थैरिति ॥ १४ ॥

दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह
गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छ­न्त्य­स्त­दा­त्मना स्थिता अप्य­नृ­ता­ज्ञा­ने­ना­वृ­तास्तं न जानन्ति अतः पुन­रु­त्ति­ष्ठ­न्ती­त्यर्थः ।

नन्वे­त­त्प­द­प­रा­मृ­ष्ट­द­ह­रस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमा­या­त­मि­त्य­शङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे
तथा हीति ।

लोकेऽपि दृष्ट­मि­त्य­र्था­न्त­र­माह
लोकेऽपीति ।

गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे
तथेति ।
जीव­भू­ता­का­श­यो­र्ब्र­ह्म­लो­क­श­ब्द­स्या­प्र­सि­द्धे­रिति भावः ।

ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते
नन्विति ।

निषा­द­स्थ­प­ति­न्या­येन समाधत्ते
गमयेदिति ।
षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्नि­वि­द्या­दि­सा­म­र्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्या­श्रु­त­ष­ष्ठ्य­र्थ­स­म्ब­न्ध­ल­क्ष­क­त्व­क­ल्प­ना­यो­गा­त्श्रु­त­द्वि­ती­या­वि­भक्तेः पूर्व­प­द­स­म्ब­न्ध­क­ल्प­नायां लाघवात् , अतो निषा­द­स्ये­ष्टि­सा­म­र्थ्य­मात्रं कल्प्यमिति । तद्व­द्ब्र­ह्म­लो­क­शब्दे कर्मधारय इत्यर्थः ।

कर्मधारये लिङ्गं चास्तीति व्याचष्टे
एतदेवेति ।
सूत्रे चकार उक्त­न्या­य­स­मु­च्च­यार्थः ॥ १५ ॥

सर्व­ज­ग­द्धा­र­ण­लि­ङ्गाच्च दहरः पर इत्याह
धृतेरिति ।

नन्व­थ­श­ब्दा­द्द­ह­र­प्र­क­रणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते
कथमिति ।

'य आत्मा’ इति प्रकृ­ता­क­र्षा­द­थ­शब्दो दहरस्य धृति­गु­ण­वि­धि­प्रा­र­म्भार्थ इत्याह
दह­रोऽ­स्मि­न्नि­त्या­दिना ।
श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः । सूत्रे तु महि­म­श­ब्द­सा­मा­ना­धि­क­र­ण्या­द्धृ­ति­शब्दः क्तिन्नन्तो विधारणं ब्रूते, 'स्त्रियां क्तिन्' इति भावे क्तिनो विधानादिति विभागः ।

सेतु­र­स­ङ्क­र­हेतुः, विधृतिस्तु स्थिति­हे­तु­रि­त्य­पौ­न­रु­क्त्य­माह
यथोदकेति ।

सूत्रं योजयति
एवमिहेति ।
धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महि­म्नोऽ­स्मि­न्प­र­मा­त्म­न्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः ।

धृतेश्चेति चका­रा­त्से­तु­प­दो­क्त­नि­या­म­क­त्व­लिङ्गं ग्राह्यम् । तत्र नियमने श्रुत्य­न्त­रो­प­ल­ब्धि­माह
एतस्येति ।

धृतौ तमाह
तथेति ॥ १६ ॥

आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्म­ण्या­का­श­श­ब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयो­ग­प्रा­चु­र्यम् ॥ १७ ॥

यदि 'एष आत्मा­प­ह­त­पाप्मा' इत्या­दि­वा­क्य­शे­ष­ब­लेन दहरः परस्तर्हि जीवोऽ­पी­त्या­शङ्क्य निषेधति
इतरेति ।

जीवस्यापि वाक्यशेषमाह
अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽ­स्मा­त्का­र्य­क­र­ण­स­ङ्घा­ता­त्स­म्य­गु­त्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्म­रू­पे­णा­भि­नि­ष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योति­रू­प­स­म्प­द्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।

ज्योति­षोऽ­ना­त्मत्वं निरस्यति
एष इति ।
'सम्प्र­सादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।

अव­स्था­व­दु­त्था­न­मपि जीवस्य लिङ्गमित्याह
तथेति ।

तदाश्रितस्य तस्मा­त्स­मु­त्थाने दृष्टान्तः
यथेति ।

ननु क्वाप्या­का­श­शब्दो जीवे न दृष्ट इत्या­श­ङ्क्यो­क्ता­व­स्थो­त्था­न­लि­ङ्ग­ब­ला­त्कल्प्य इत्याह
यथा चेति ।

निया­म­का­भा­वा­ज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह
नैतदित्यादिना ।
दहरे श्रुत­ध­र्मा­णा­म­स­म्भ­वान्न जीवो दहर इत्यर्थः ।

तर्हि पुनरुक्तिः, तत्राह
अतिरेकेति ।
उत्त­रा­च्चे­त्या­धि­का­श­ङ्का­नि­रा­सा­र्थ­मि­त्यर्थः ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह
पठिष्यतीति ।
जीवस्य स्वाप­स्था­न­भू­त­ब्र­ह्म­ज्ञा­ना­र्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥

असम्भवादिति हेतो­र­सि­द्धि­मा­शङ्क्य परिहरति
उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजा­प­ति­वा­क्य­ब­ला­त्पुनः समुत्थानं क्रियते । तत्र जीव­स्यै­वा­प­ह­त­पा­प्म­त्वा­दि­ग्र­ह­णे­ना­स­म्भ­वा­सि­द्धे­रि­त्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह
तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथा­प्य­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­मा­त्मा­न­मु­प­क्रम्य तस्य जाग्र­दा­द्य­व­स्था­त्र­यो­प­न्या­सा­द­व­स्था­लि­ङ्गेन जीव­नि­श्च­या­त्त­स्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।

इन्द्रं प्रजापतिर्बूते
य एष इति ।

प्राधा­न्या­द­क्षि­ग्र­हणं सर्वै­रि­न्द्रि­यै­र्वि­ष­य­द­र्श­न­रू­प­जा­ग्र­द­व­स्था­प­न्न­मि­त्याह
द्रष्टारमिति ।
महीयमानः वास­ना­म­यै­र्वि­षयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजा­प­ति­र्व्या­चष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवो­प­हृ­त­क­र­ण­त्वा­त्त­त्कृ­त­का­लु­ष्य­हीनः सम्प्रसन्नः, स्वप्नं प्रप­ञ्च­म­ज्ञा­न­मा­त्र­त्वेन विलापयति अतोऽ­ज्ञा­न­स­त्त्वा­त्मु­क्ता­द्वि­ल­क्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्ता­स्फू­र्ति­प्र­द­त्वा­दा­त्मे­त्यर्थः ।

चतुर्थपर्याये ब्रह्मो­क्ते­स्त­स्यै­वा­प­ह­त­पा­प्म­त्वा­दि­गुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह
नाहेति ।
अहेति निपातः खेदार्थे ।

खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषु­प्त्य­व­स्था­या­मयं देव­द­त्तोऽ­ह­मि­त्ये­व­मा­त्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह
एतमिति ।
एत­स्मा­त्प्र­कृ­ता­दा­त्म­नोऽ­न्य­त्रान्यं न व्याख्या­स्या­मी­त्यु­प­क्रम्य 'मघ­व­न्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मा­त्प्र­जा­प­ति­वा­क्यात् । अतः सम्भवासिद्धेः ।

सिद्धान्तयति
तं प्रतीति ।
अव­स्था­त्र­य­शो­ध­ने­ना­वि­र्भू­तत्वं शोधितत्वमर्थस्य वाक्यो­त्थ­वृ­त्त्य­भि­व्य­क्त­त्व­मि­त्यर्थः ।

तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृ­त्त­त्वा­दि­त्यत आह
भूतपूर्वेति ।
ज्ञाना­त्पू­र्व­म­वि­द्या­त­त्का­र्य­प्र­ति­बि­म्बि­त­त्व­रूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।

विश्व­तै­ज­स­प्रा­ज्ञ­तु­री­य­प­र्या­य­च­तु­ष्ट­या­त्म­क­प्र­जा­प­ति­वा­क्यस्य तात्पर्यमाह
एतदिति ।
जन्मा­ना­श­व­त्त्वात् ।

प्रति­बि­म्ब­व­द्बि­म्ब­देहो नात्मेति ज्ञापनार्थं प्रजा­प­ति­रि­न्द्र­वि­रो­चनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्म­णे­ने­त्याह
उदशरावेति ।
उदकपूर्णे शरावे प्रति­बि­म्बा­त्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्य­मि­त्यु­क्त­श्रु­त्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।

किमुक्तमित्यत आह
यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य पर­स्प­र­व्य­भि­चा­रि­णी­भ्योऽ­व­स्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदे­वा­प­ह­त­पा­प्म­त्वा­दि­ध­र्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्ध­र्मो­क्ते­रि­त्यर्थः । एव­म­व­स्थो­प­न्या­सस्य विवे­का­र्थ­त्वान्न जीवलिङ्गत्वम् , 'एत­द­मृ­त­म­भ­य­मे­त­ब्रह्म' इति लिङ्गो­पे­त­श्रु­ति­वि­रो­धा­दि­ति­म­न्त­व्यम् ।

ननु जीव­त्व­ब्र­ह्म­त्व­वि­रु­द्ध­ध­र्म­वतोः कथमभेदः, तत्राह
तदेवेति ।

अन्व­य­व्य­ति­रे­काभ्यां जीव­त्व­स्या­वि­द्या­क­ल्पि­त­त्वा­द­वि­रोध इति मत्वा दृष्टा­न्ते­ना­न्व­य­माह
यावदिति ।

व्यतिरेकमाह
यदेति ।
अविद्यायां सत्यां जीवत्वम् , वाक्यो­त्थ­प्र­भो­धा­त्त­न्नि­वृत्तौ तन्नि­वृ­त्ति­रि­त्या­वि­द्यकं तदित्यर्थः ।

संसारित्वस्य कल्पितत्वे सिद्धं निगमयति
तदेव चास्येति ।

'समुत्थाय स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति श्रुतिं व्याख्या­तु­मा­क्षि­पति
कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरू­प­मि­त्य­न्वयः ।

मनःसङ्गिनो हि क्रियया मल­ना­शा­द­भि­व्य­क्तिर्न तु कूट­स्थ­स्या­स­ङ्गिन इत्याह
सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्या­न­म­न­भि­व्य­क्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।

जीव­स्व­रू­प­स्या­भि­भवे बाधकमाह
दृष्टेति ।
'विज्ञानघन एव’ इति श्रुत्या चिन्मा­त्र­स्ता­व­दात्मा । तच्चैतन्यं चक्षु­रा­दि­ज­न्य­वृ­त्ति­व्यक्तं दृष्ट्या­दि­प­द­वाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्व­भा­वा­द्व्य­व­हारो न स्यादित्यर्थः ।

अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्त­मि­त्य­ङ्गी­का­र्यम् , व्यव­हा­र­द­र्श­ना­दि­त्याह
तच्चेति ।

अन्यथेत्युक्तं स्फुटयति
तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यव­हा­रो­च्छि­त्ति­रि­त्यर्थः । अतः सदैव व्यक्त­स्व­रू­प­त्वा­दि­त्यर्थः ।

सदा वृत्तिषु व्यक्तस्य वस्तु­तोऽ­स­ङ्ग­स्या­त्मन आवि­द्य­क­दे­हा­द्य­वि­वे­क­रू­पस्य मलसङ्गस्य सत्त्वा­त्त­द्वि­वे­का­पे­क्षया समु­त्था­ना­दि­श्रु­ति­रि­त्यु­त्त­र­माह
अत्रेति ।
वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पि­त­त्व­मु­क्तम् ।

तत्र कल्पितसङ्गे दृष्टान्तः
यथेति ।

श्रुतिकृतमिति ।
त्वम्प­दा­र्थ­श्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।

प्राणा­दि­भि­न्न­शु­द्ध­त्व­म्प­दा­र्थ­ज्ञा­नस्य वाक्या­र्थ­सा­क्षा­त्कारः फलमित्याह
केवलेति ।

सशरीरत्वस्य सत्य­त्वा­त्स­मु­त्था­न­मु­त्क्रा­न्ति­रिति व्याख्येयं न विवेक इत्याशङ्क्याह
तथा विवेकेति ।
उक्त­श्रु­त्य­नु­सा­रे­णे­त्यर्थः । शरी­रे­ष्व­श­री­र­म­व­स्थि­त­मिति श्रुते­र­वि­वे­क­मा­त्र­क­ल्पितं सशरीरत्वम् । अतो विवेक एव समु­त्था­न­मि­त्यर्थः ।

ननु स्वकर्मार्जिते शरीरे भोग­स्या­प­रि­हा­र्य­त्वा­त्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह
शरीरस्थोऽपीति ।
अश­री­र­त्व­व­च्छ­री­र­स्थ­स्यापि बन्धा­भा­व­स्मृ­ते­र्जी­वतो मुक्ति­र्यु­क्ते­त्यर्थः ।

अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह
तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।

ज्ञाना­ज्ञा­न­कृ­ता­वा­वि­र्भा­व­ति­रो­भा­वा­विति स्थिते भेदोऽ­प्यं­शां­शि­त्व­कृतो निरस्त इत्याह
एवमिति ।
अंशा­दि­शू­न्य­त्व­म­स­ङ्ग­त्वम् । आत्मा द्रव्य­त्व­व्या­प्य­जा­ति­शून्यः विभुत्वात् , व्योम­व­दि­त्या­त्मै­क्य­सि­द्धे­र्भेदो मिथ्येत्यर्थः ।

प्रजा­प­ति­वा­क्याच्च भेदो मिथ्ये­त्या­का­ङ्क्षा­पू­र्व­क­माह
कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।

छायायां ब्रह्म­दृ­ष्टि­प­र­मिदं वाक्यं नाभेदपरमित्यत आह
नापीति ।
यस्य ज्ञाना­त्कृ­त­कृ­त्यता सर्व­का­म­प्रा­प्ति­स्त­मा­त्मा­न­म­न्वि­च्छाव इति प्रवृ­त्त­यो­रि­न्द्र­वि­रो­च­न­यो­र्य­द्य­ना­त्म­च्छायां प्रजा­प­ति­र्ब्रू­या­त्तदा मृषावादी स्यादित्यर्थः ।

प्रथ­म­व­त्द्वि­ती­या­दि­प­र्याये व्यावृ­त्ता­स्व­व­स्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह
तथेति ।

अव­स्था­भे­देऽ­प्य­नु­स्यूतौ युक्तिमाह
किञ्चेति ।

सुषुप्तौ ज्ञातु­र्व्या­वृ­त्ति­मा­श­ङ्क्याह
तथा तृतीय इति ।

सषुप्तौ निर्वि­क­ल्प­ज्ञा­न­रूप आत्मास्तीयत्र बृह­दा­र­ण्य­क­श्रु­ति­माह
नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाश­का­भा­वा­दि­त्यर्थः ।

एत­म­व­स्था­भि­र­स­ङ्ग­त्वे­नोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह
तथेति ।

श्रुते­रे­क­दे­शि­व्याख्यां दूषयति
केचित्त्विति ।
जीव­प­र­यो­र्भ­दा­दिति भावः ।

श्रुति­बा­धा­न्मै­व­मि­त्याह
तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।

उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उप­क्रा­न्त­प­र­मा­त्म­न­श्च­तुर्थ एवोक्तेस्तद्बाध इत्याह
भूय इति ।

लोक­सि­द्ध­जी­वा­नु­वा­देन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति
तस्मादिति ।
व्याख्या­ना­न्त­र­स­म्भ­वा­दि­त्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।

ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारी­र­क­मे­वो­त्त­र­मि­त्याह
अपरे त्वित्यादिना ।

शारीरकस्यार्थं सङ्क्षे­पे­णो­प­दि­शति
एक एवेति ।
अवि­द्या­मा­य­यो­र्भेदं निरसितुं सामानाधिकरण्यम् , आव­र­ण­वि­क्षे­प­श­क्ति­रू­प­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­भे­दा­त्स­ह­प्र­योगः । ब्रह्मै­वा­वि­द्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।

तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह
यस्त्त्विति ।
पर­मा­त्म­नोऽ­सं­सा­रि­त्व­सि­द्यर्थं जीवाद्भेदं द्रढयति । तस्या­सं­सा­रि­त्व­नि­श्च­या­भावे तदभेदोक्तावपि जीवस्य संसा­रि­त्वा­न­पा­या­दि­त्यर्थः ।

अधिष्ठानस्य कल्पि­ता­द्भे­देऽपि कल्पि­त­स्या­धि­ष्ठा­नान्न पृथ­क्स­त्त्व­मि­त्याह
जीवस्यत्विति ।

कल्पि­त­भे­दा­नु­वा­दस्य फलमाह
एवं हीति ।

सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति
प्रतिपाद्यमिति ।
आत्मेति तूप­ग­च्छ­न्ती­त्या­दि­सू­त्रा­ण्या­दि­प­दार्थः ।

नन्वद्वैतस्य शास्त्रार्थत्वे द्वैता­पे­क्ष­वि­धि­वि­रोधः तत्राह
वर्णितश्चेति ।
अद्वैतमजानतः कल्पि­त­द्वै­ता­श्रया विधयो न विदुष इति सर्व­मु­प­प­न्न­मि­त्यर्थः ॥ १९ ॥

एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवा­प­ह­त­पा­प्म­त्वा­द्यु­क्ते­र्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह
अन्यार्थश्चेति ।

सूत्रं व्याचष्टे
अथेत्यादिना ।
प्रकृते दहरे विशेषो गुण­स्त­दु­प­दे­शोऽपि नेत्यर्थः ।

तत्र दहरवाक्यशेषरूपं सम्प्र­सा­द­वा­क्य­मा­श­ङ्का­पू­र्वकं दह­र­ब्र­ह्म­प­र­त्वेन व्याचष्टे
कथमित्यादिना ॥ २० ॥

उपा­स्य­त्वा­द­ल्प­त्व­मु­क्त­मिति व्याख्याय श्रुत्या निर­स्त­मि­त्य­र्था­न्त­र­माह
श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥ २१ ॥