भाष्यरत्नप्रभाव्याख्या
दहराधिकरणम्
दहर उत्तरेभ्यः । छान्दोग्यमुदाहरति
अथेति ।
भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थोऽथशब्दः । ब्रह्मणोऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।
अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह
तथा ब्रह्मपुरमितीति ।
अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना ।
परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् । तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति
तत्राकाशेत्यादिना ।
दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः । नच 'आकाशस्तल्लिङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यदन्तस्तदन्वेष्टव्यम्' इत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् ।
ननु भूताकाशस्याल्पत्वं कथम् , एकस्योपमानत्वमुपमेयत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति
तस्येत्यादिना ।
हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पितभेदात्सादृश्यम् , स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः ।
ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह
अथवेति ।
भक्त्येति ।
चैतन्यगुणयोगेनेत्यर्थः ।
मुख्यं ब्रह्म गृह्यतामित्यत आह
न हीति ।
अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह
तत्रेति ।
पुरस्वामिन एव तदन्तःस्थत्वसम्भवान्नान्यापेक्षेत्यर्थः ।
व्यापिनोऽन्तःस्थत्वं कथमित्यत आह
मन इति ।
आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह
आकाशेति ।
ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह
न चात्रेति ।
परमन्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः । यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् 'आकाशस्तल्लिङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।
अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति
परमेश्वर इत्यादिना ।
आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः ।
वाक्यस्य तात्पर्यमाह
तत्रेति ।
निवर्तयति । आचार्य इति शेषः ।
नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह
यद्यपीति ।
ननु 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यभेदेऽप्युपमा दृष्टेतिचेत् , न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः ।
पूर्वोक्तमनूद्य निरस्यति
नन्वित्यादिना ।
'सीताश्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्या कृतमित्यनुदाहरणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् ।
किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह
अपिचेति ।
आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।
ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह
उभयेति ।
अतोऽल्पावनिवृत्तावेव तात्पर्यमिति भावः ।
एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् । सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह
नचेत्यादिना ।
विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः ।
प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निरपेक्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह
अत्र ब्रूम इति ।
शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह
स इति ।
पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।
ननु ब्रह्मशब्दस्य जीवेऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह
अथवेति ।
बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भावदित्यर्थः ।
अनन्तफललिङ्गादपि दहरः परमात्मेत्याह
तद्यथेति ।
अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः ।
दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति
यदपीत्यादिना ।
उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते
नन्विति ।
एतत् आकाशस्वरूपम् । आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः ।
तर्हि जगदेव ध्येयं स्यादित्याह
नैतदेवमिति ।
अस्तु को दोषः, तत्राह
तत्रेति ।
सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।
'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह
तस्मादिति ।
यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति
सहान्तःस्थैरिति ॥ १४ ॥
दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह
गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे
तथा हीति ।
लोकेऽपि दृष्टमित्यर्थान्तरमाह
लोकेऽपीति ।
गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे
तथेति ।
जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः ।
ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते
नन्विति ।
निषादस्थपतिन्यायेन समाधत्ते
गमयेदिति ।
षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्याश्रुतषष्ठ्यर्थसम्बन्धलक्षकत्वकल्पनायोगात्श्रुतद्वितीयाविभक्तेः पूर्वपदसम्बन्धकल्पनायां लाघवात् , अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्वद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः ।
कर्मधारये लिङ्गं चास्तीति व्याचष्टे
एतदेवेति ।
सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥ १५ ॥
सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह
धृतेरिति ।
नन्वथशब्दाद्दहरप्रकरणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते
कथमिति ।
'य आत्मा’ इति प्रकृताकर्षादथशब्दो दहरस्य धृतिगुणविधिप्रारम्भार्थ इत्याह
दहरोऽस्मिन्नित्यादिना ।
श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः । सूत्रे तु महिमशब्दसामानाधिकरण्याद्धृतिशब्दः क्तिन्नन्तो विधारणं ब्रूते, 'स्त्रियां क्तिन्' इति भावे क्तिनो विधानादिति विभागः ।
सेतुरसङ्करहेतुः, विधृतिस्तु स्थितिहेतुरित्यपौनरुक्त्यमाह
यथोदकेति ।
सूत्रं योजयति
एवमिहेति ।
धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महिम्नोऽस्मिन्परमात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः ।
धृतेश्चेति चकारात्सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यम् । तत्र नियमने श्रुत्यन्तरोपलब्धिमाह
एतस्येति ।
धृतौ तमाह
तथेति ॥ १६ ॥
आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम् ॥ १७ ॥
यदि 'एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवोऽपीत्याशङ्क्य निषेधति
इतरेति ।
जीवस्यापि वाक्यशेषमाह
अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽस्मात्कार्यकरणसङ्घातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसम्पद्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।
ज्योतिषोऽनात्मत्वं निरस्यति
एष इति ।
'सम्प्रसादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।
अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह
तथेति ।
तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः
यथेति ।
ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह
यथा चेति ।
नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह
नैतदित्यादिना ।
दहरे श्रुतधर्माणामसम्भवान्न जीवो दहर इत्यर्थः ।
तर्हि पुनरुक्तिः, तत्राह
अतिरेकेति ।
उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह
पठिष्यतीति ।
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥
असम्भवादिति हेतोरसिद्धिमाशङ्क्य परिहरति
उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते । तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासम्भवासिद्धेरित्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह
तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।
इन्द्रं प्रजापतिर्बूते
य एष इति ।
प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह
द्रष्टारमिति ।
महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः सम्प्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसत्त्वात्मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः ।
चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह
नाहेति ।
अहेति निपातः खेदार्थे ।
खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषुप्त्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह
एतमिति ।
एतस्मात्प्रकृतादात्मनोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य 'मघवन्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मात्प्रजापतिवाक्यात् । अतः सम्भवासिद्धेः ।
सिद्धान्तयति
तं प्रतीति ।
अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्यभिव्यक्तत्वमित्यर्थः ।
तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह
भूतपूर्वेति ।
ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।
विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह
एतदिति ।
जन्मानाशवत्त्वात् ।
प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह
उदशरावेति ।
उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।
किमुक्तमित्यत आह
यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् , 'एतदमृतमभयमेतब्रह्म' इति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् ।
ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह
तदेवेति ।
अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह
यावदिति ।
व्यतिरेकमाह
यदेति ।
अविद्यायां सत्यां जीवत्वम् , वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः ।
संसारित्वस्य कल्पितत्वे सिद्धं निगमयति
तदेव चास्येति ।
'समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिं व्याख्यातुमाक्षिपति
कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरूपमित्यन्वयः ।
मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह
सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।
जीवस्वरूपस्याभिभवे बाधकमाह
दृष्टेति ।
'विज्ञानघन एव’ इति श्रुत्या चिन्मात्रस्तावदात्मा । तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्वभावाद्व्यवहारो न स्यादित्यर्थः ।
अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यम् , व्यवहारदर्शनादित्याह
तच्चेति ।
अन्यथेत्युक्तं स्फुटयति
तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः । अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः ।
सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह
अत्रेति ।
वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् ।
तत्र कल्पितसङ्गे दृष्टान्तः
यथेति ।
श्रुतिकृतमिति ।
त्वम्पदार्थश्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।
प्राणादिभिन्नशुद्धत्वम्पदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह
केवलेति ।
सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह
तथा विवेकेति ।
उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् । अतो विवेक एव समुत्थानमित्यर्थः ।
ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह
शरीरस्थोऽपीति ।
अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः ।
अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह
तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।
ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकृतो निरस्त इत्याह
एवमिति ।
अंशादिशून्यत्वमसङ्गत्वम् । आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात् , व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः ।
प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह
कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।
छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह
नापीति ।
यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादी स्यादित्यर्थः ।
प्रथमवत्द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह
तथेति ।
अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह
किञ्चेति ।
सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह
तथा तृतीय इति ।
सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह
नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः ।
एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह
तथेति ।
श्रुतेरेकदेशिव्याख्यां दूषयति
केचित्त्विति ।
जीवपरयोर्भदादिति भावः ।
श्रुतिबाधान्मैवमित्याह
तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।
उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाध इत्याह
भूय इति ।
लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति
तस्मादिति ।
व्याख्यानान्तरसम्भवादित्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।
ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह
अपरे त्वित्यादिना ।
शारीरकस्यार्थं सङ्क्षेपेणोपदिशति
एक एवेति ।
अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यम् , आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात्सहप्रयोगः । ब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।
तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह
यस्त्त्विति ।
परमात्मनोऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति । तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः ।
अधिष्ठानस्य कल्पिताद्भेदेऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह
जीवस्यत्विति ।
कल्पितभेदानुवादस्य फलमाह
एवं हीति ।
सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति
प्रतिपाद्यमिति ।
आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ।
नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह
वर्णितश्चेति ।
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥ १९ ॥
एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह
अन्यार्थश्चेति ।
सूत्रं व्याचष्टे
अथेत्यादिना ।
प्रकृते दहरे विशेषो गुणस्तदुपदेशोऽपि नेत्यर्थः ।
तत्र दहरवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे
कथमित्यादिना ॥ २० ॥
उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्थान्तरमाह
श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥ २१ ॥