अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अन्तर्याम्यधिकरणम्

अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् । बृह­दा­र­ण्य­क­वा­क्य­मु­दा­ह­रति
य इति ।

अन्त­र्या­मि­ब्र­ह्मणे प्रती­य­मा­ना­र्थ­माह
अत्रेति ।
'यः पृथि­व्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्य­न्त­म­ध्यात्मं चेति विभागः । अशरीरस्य निय­न्तृ­त्व­स­म्भ­वा­स­म्भ­वाभ्यां संशयः । पूर्व­त्रे­श्व­र­स्या­क्षि­स्था­न­त्व­सि­द्धये पृथि­व्या­दि­स्था­न­नि­र्देशो दृष्टान्त उक्तः, तस्य दृष्टा­न्त­वा­क्य­स्ये­श्व­र­प­र­त्व­म­त्रा­क्षिप्य समाधीयत इत्या­क्षे­प­स­ङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनी­श्व­रो­पास्तिः, सिद्वान्ते प्रत्य­ग्ब्र­ह्म­ज्ञा­न­मिति मन्तव्यम् ।

स्वयमेवारुचिं वद­न्प­क्षा­न्त­र­माह
अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदा­र्थ­त्वा­यो­गा­दिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वा­र्थ­प्र­का­शकं मन इत्यर्थः ।

उप­क्र­मा­दि­ना­न्त­र्या­म्यै­क्य­नि­श्च­या­द­ने­क­दे­व­पक्षो न युक्त इत्यरुचेराह
योगिनो वेति ।

आग­न्तु­क­सि­द्ध­स्या­न्त­र्या­मि­त्वेऽ­प्र­सि­द्ध­सा­ध­न­क­ल्प­ना­गौ­र­वा­न्नि­त्य­सिद्ध एवान्तर्यामीति सिद्धान्तयति
एवं प्राप्त इति ।

देवतानिरासे हेत्वन्तरमाह
यं पृथिवीति ।

ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति
नैष दोष इति ।

निय­म्या­ति­रि­क्त­श­री­र­शू­न्यत्वं वा हेतुः, शरी­रा­स­म्ब­न्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्विती­य­स्त्व­सिद्धः, ईश्वरस्य स्वावि­द्यो­पा­र्जि­त­स­र्व­स­म्ब­न्धि­त्वा­दि­त्याह
यान्नियच्छतीति ।
सशरीरो निय­न्ते­ति­लो­क­दृ­ष्टि­म­नु­सृ­त्यै­त­दु­क्तम् । वस्तुतस्तु चेत­न­सां­नि­ध्या­ज्ज­डस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चा­चि­न्त्य­मा­या­श­क्ते­श्चि­दा­त्मनः शरीरं विनैवोपपन्नम् ।

ननु देह­नि­य­न्तु­र्जी­व­स्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह
तस्यापीति ।
निरङ्कुशं सर्व­नि­य­न्तृ­त्व­मी­श्व­रस्य श्रुतम् , तस्य निय­न्त्र­न्त­रा­नु­माने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्व­रा­द्भे­द­क­ल्प­नया जीवस्य निय­न्तृ­त्वोक्तेः सत्य­भे­दा­भा­वा­न्ना­न­व­स्थे­त्यर्थः ॥ १८ ॥

प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह
अप्रतर्क्यमिति ।
रूपा­दि­ही­न­त्वा­द­वि­ज्ञे­यम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्मा­णा­म­भि­धा­ना­दिति हेत्वर्थः ॥ १९ ॥

उत्त­र­सू­त्र­नि­र­स्या­श­ङ्का­माह
यदि प्रधा­न­मि­त्या­दिना ।

अमृतश्चेति ।
विनाशिनो देहा­न्त­र­भो­गा­नु­प­प­त्ते­रि­त्यर्थः ।

यथा देव­द­त्त­क­र्तृ­क­ग­म­न­क्रि­याया ग्रामः कर्म न देवदत्तः, तथा­त्म­क­र्तृ­क­द­र्श­ना­दि­क्रि­याया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृ­वि­ष­य­त्वा­यो­गा­दि­त्याह
कर्तरीति ।
क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुण­त्व­प्र­धा­न­त्व­यो­र्वि­रो­धान्न कर्तुः कर्म­त्व­मि­त्यर्थः ।

दृष्टे­र्द्र­ष्टा­र­मा­त्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्या­दि­श्रु­ते­श्चा­दृ­ष्ट­त्वा­दि­धर्माः शारीरस्येत्याह
नेति ।

अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह
अपि चोभयेऽपीति ।

भेदेनेति सूत्रा­त्ता­त्त्वि­क­भे­द­भ्रान्तिं निरसितुं शङ्कते
कथमिति ।

नन्वत्रैको भोक्ता जीवः, ईश्व­र­स्त्व­भो­क्तेति न विरोध इति शङ्कते
का पुनरिति ।

तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह
नान्य इति ।

स एव श्रुत्यर्थमाह
अत्रेति ।

श्रुते­र­र्था­न्त­र­मा­शङ्क्य निषेधति
निय­न्त्र­न्त­रे­त्या­दिना ।

न केव­ल­म­प्र­स­क्त­प्र­ति­षेधः, किन्त्वविशेषेण द्रष्ट्र­न्त­र­नि­षे­ध­श्रु­ते­र­न्त­र्या­म्य­न्त­र­नि­षे­धा­र्थत्वे बाधश्चेत्याह
अविशेषेति ।

तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृ­भे­दो­क्ति­र­युक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुति­सू­त्रा­भ्या­म­नू­द्यत इति समाधत्ते
अत्रोच्यत इति ।

भेदः सत्यः किं न स्यादत आह
एको हीति ।
गौरवेण द्वयो­र­ह­न्धी­गो­च­र­त्वा­स­म्भा­व­देक एव तद्गोचरः । तदगोचरस्य घट­व­द­ना­त्म­त्वा­न्ना­त्म­भेदः सत्य इत्यर्थः ।

ततश्चेति ।
कल्पि­त­भे­दा­ङ्गी­का­रा­द्भे­दा­पेक्षं सर्वं युज्यत इत्यर्थः । तस्मा­द­न्त­र्या­मि­ब्रा­ह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥