अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ईक्षतिकर्माधिकरणम्

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः । प्रश्नो­प­नि­ष­द­मु­दा­ह­रति
एतदिति ।

पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्का­र­ध्या­ने­ना­य­त­नेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एक­मा­त्र­द्वि­मा­त्रो­ङ्का­र­यो­र्ध्या­न­मुक्त्वा ब्रवीति
यः पुनरिति ।
इत्थम्भावे तृतीया, ब्रह्मो­ङ्का­र­यो­र­भे­दो­प­क्र­मात् । यो ह्यका­रा­दि­मा­त्रा­त्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्र­दा­दि­वि­भूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः । एवं मात्राद्वयस्य सम्य­ग्वि­भू­ति­ज्ञाने द्विमात्रस्तथा त्रिमात्रः । तमोङ्कारं पुरुषं योऽभिध्यायीत स ओङ्का­र­वि­भू­ति­त्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः ।

संशयं तद्बीजं चाह
किमित्यादिना ।
अस्मिन् त्रिमात्रवाक्य इत्यर्थः । पूर्वत्र पूर्व­प­क्ष­त्वे­नोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्गतिः ।

यद्वा पूर्वत्र वर्णे रूढ­स्या­क्ष­र­श­ब्दस्य लिङ्गा­द्ब्र­ह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्म­लो­क­प्रा­प्ति­लि­ङ्गा­त्प­र­श­ब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति
तत्रापरमिति ।
कार्य­प­र­ब्र­ह्म­णो­रू­पा­स्ति­रू­भ­यत्र फलम् । स उपासकः । सूर्ये सम्पन्नः प्रविष्टः ।

ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह
नहीति ।
अन्यत्र तथात्वेऽपि अत्र पर­वि­त्प­र­म­प­र­वि­द­प­र­म­न्वे­ती­त्यु­प­क्र­मा­त्प­र­वि­दोऽ­प­र­प्रा­प्ति­र­युक्ता, उपक्रमविरोधात् । न चात्र पर­प्रा­प्ति­रे­वो­क्तेति वाच्यम् , परस्य सर्व­ग­त­त्वा­द­त्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मा­दु­प­क्र­मा­नु­गृ­ही­ता­द­प­र­प्रा­प्ति­रू­पा­ल्लि­ङ्गा­त्परं पुरुषमिति पर­श्रु­ति­र्बा­ध्ये­त्यर्थः ।

परश्रुतेर्गतिं पृच्छति
नन्विति ।
पिण्डः स्थूलो विराट्तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः ।

सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे
परमेवेति ।
स उपासक एत­स्मा­द्धि­र­ण्य­ग­र्भा­त्परं पुरुषं ब्रह्मा­ह­मि­ती­क्षत इत्यर्थः ।

नन्वी­क्ष­ण­वि­ष­योऽ­प्य­प­रोस्तु, तत्राह
तत्रा­भि­ध्या­य­ते­रिति ।

नन्वीक्षणं प्रमा­त्वा­द्वि­ष­य­स­त्य­ता­म­पे­क्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यात­व्य­स्त्व­स­त्योऽ­परः किं न स्यादित्यत आह
स एवेति ।
श्रुतिभ्यां प्रत्य­भि­ज्ञा­नात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्ष­णी­य­त्वोक्तेः । अत्र च श्रुति­प्र­त्य­भि­ज्ञा­नात्स एवायमिति ।

ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते
नन्विति ।

परात्पर इति शब्द­भे­द­म­ङ्गी­कृत्य श्रुति­भ्या­मु­क्त­प्र­त्य­भि­ज्ञाया अविरोधमाह
अत्रेति ।

ननु 'एत­स्मा­ज्जी­व­घ­ना­त्प­रात्' इत्ये­त­त्प­दे­नो­प­क्रा­न्त­ध्या­त­व्य­प­रा­म­र्शा­दी­क्ष­णीयः परात्मा ध्येयादन्य इत्यत आह
न चात्रेति ।
ध्यानस्य तत्फलेक्षणस्य च लोके समा­न­वि­ष­य­त्वा­द्ध्येय एवेक्षणीयः । एवं चोप­क्र­मो­प­सं­हा­र­यो­रे­क­वा­क्यता भवतीति भावः ।

''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एत­स्मा­ज्जी­व­घ­नात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे
कस्त­र्ही­त्या­दिना ।
'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।

एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह
अपर इति ।

जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति
जीवानां हीति ।
व्यष्टि­क­र­णा­भि­मा­निनां जीवानां घनः सङ्घातो यस्मि­न्स­र्व­क­र­णा­भि­मा­निनि स जीवघनः तत्स्वा­मि­क­त्वा­त्प­र­म्प­रा­स­म्ब­न्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।

परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह
परमिति ।
यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रा­त्मे­त्यर्थः ।

किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह
परं चापरं चेति ।

पाप­नि­वृ­त्ति­लि­ङ्गा­च्चे­त्याह
यथेति ।
पादोदरः सर्पः ।

ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा पर­ब्र­ह्मे­क्षित्वा तदेव शान्तमभयं परं प्राप्नो­ती­त्य­वि­रो­ध­माह
अत्रोच्यत इति ।
एव­मे­क­वा­क्य­ता­स­म­र्थ­न­प्र­क­र­णा­नु­गृ­ही­त­प­र­पु­रु­ष­श्रु­तिभ्यां पर­ब्र­ह्म­प्र­त्य­भि­ज्ञया ब्रह्म­लो­क­प्रा­प्ति­लिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥