भाष्यरत्नप्रभाव्याख्या
ईक्षतिकर्माधिकरणम्
ईक्षतिकर्मव्यपदेशात्सः । प्रश्नोपनिषदमुदाहरति
एतदिति ।
पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्कारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एकमात्रद्विमात्रोङ्कारयोर्ध्यानमुक्त्वा ब्रवीति
यः पुनरिति ।
इत्थम्भावे तृतीया, ब्रह्मोङ्कारयोरभेदोपक्रमात् । यो ह्यकारादिमात्रात्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः । एवं मात्राद्वयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्रः । तमोङ्कारं पुरुषं योऽभिध्यायीत स ओङ्कारविभूतित्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः ।
संशयं तद्बीजं चाह
किमित्यादिना ।
अस्मिन् त्रिमात्रवाक्य इत्यर्थः । पूर्वत्र पूर्वपक्षत्वेनोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्गतिः ।
यद्वा पूर्वत्र वर्णे रूढस्याक्षरशब्दस्य लिङ्गाद्ब्रह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्मलोकप्राप्तिलिङ्गात्परशब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति
तत्रापरमिति ।
कार्यपरब्रह्मणोरूपास्तिरूभयत्र फलम् । स उपासकः । सूर्ये सम्पन्नः प्रविष्टः ।
ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह
नहीति ।
अन्यत्र तथात्वेऽपि अत्र परवित्परमपरविदपरमन्वेतीत्युपक्रमात्परविदोऽपरप्राप्तिरयुक्ता, उपक्रमविरोधात् । न चात्र परप्राप्तिरेवोक्तेति वाच्यम् , परस्य सर्वगतत्वादत्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मादुपक्रमानुगृहीतादपरप्राप्तिरूपाल्लिङ्गात्परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः ।
परश्रुतेर्गतिं पृच्छति
नन्विति ।
पिण्डः स्थूलो विराट्तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः ।
सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे
परमेवेति ।
स उपासक एतस्माद्धिरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः ।
नन्वीक्षणविषयोऽप्यपरोस्तु, तत्राह
तत्राभिध्यायतेरिति ।
नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यातव्यस्त्वसत्योऽपरः किं न स्यादित्यत आह
स एवेति ।
श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः । अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति ।
ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते
नन्विति ।
परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह
अत्रेति ।
ननु 'एतस्माज्जीवघनात्परात्' इत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः परात्मा ध्येयादन्य इत्यत आह
न चात्रेति ।
ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः । एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः ।
''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एतस्माज्जीवघनात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे
कस्तर्हीत्यादिना ।
'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।
एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह
अपर इति ।
जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति
जीवानां हीति ।
व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।
परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह
परमिति ।
यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः ।
किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह
परं चापरं चेति ।
पापनिवृत्तिलिङ्गाच्चेत्याह
यथेति ।
पादोदरः सर्पः ।
ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह
अत्रोच्यत इति ।
एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥