अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्राणाणुत्वाधिकरणम्

अणवश्च ।

'प्राणाः सर्वेऽ­नन्ताः' इति श्रुते­रि­न्द्रि­याणां विभु­त्वा­त्ते­षा­मु­त्क्रा­न्ति­र­सिद्धा किन्तु तत्तद्देहे तेषा­म­भि­व्य­क्ति­रूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासा­मु­त्क्रा­न्त्या­दि­रिति साङ्ख्या­ना­मा­क्षेपः, तत्सङ्गत्या प्राणाः किम्परिमाणा इति सन्देहे सिद्धान्तयति -
अधुनेत्यादिना ।
उत्प­त्ति­स­ङ्ख्या­नि­र्ण­या­न­न्तरं परिमाणं निरूप्यत इत्यर्थः । अनु­द्भू­त­रू­प­स्प­र्शत्वं सूक्ष्मत्वम् । परि­च्छे­दोऽ­ल्प­त्वम् ।

बुद्ध्यादीनां विभुत्वे तदु­पा­धि­क­मा­त्म­नोऽ­णु­त्वा­दिकं न सिद्ध्ये­दि­त्यु­क्त­न्या­य­वि­रो­ध­माह -
तद्गु­ण­सा­र­त्व­मिति ।

उक्ता­क्षे­प­म­नूद्य निरस्यति -
सर्वगतानामिति ।
आन­न्त्य­श्रु­ते­रु­पा­स­ना­र्थ­त्वा­न्नो­त्क्रा­न्त्या­दि­श्रु­तीनां तया विरोध इति सिद्धम् ॥७॥