भाष्यरत्नप्रभाव्याख्या
सम्भृत्यधिकरणम्
संभृतिद्युव्याप्त्यपि चातः ।
ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्छान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् । तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः । सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः । खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः ।
ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह -
तास्विति ।
अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः ।
सिद्धान्तमाह -
संभृतीति ।
संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना ।
आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते -
नन्वेतास्विति ।
आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः ।
उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात्कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति -
सत्यमित्यादिना ।
स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्यादिगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह -
परोवरीयस्त्वादिवदिति ।
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम् ॥२३॥