भाष्यरत्नप्रभाव्याख्या
महद्दीर्घाधिकरणम्
वृत्तानुवादेन 'महद्दीर्घवत्' इति स्वमतस्थापनात्मकाधिकरणस्य सङ्गतिमाह -
प्रधानेति ।
यद्यपि साङ्ख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे सङ्गतत्वात्तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तम् , तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणोऽपि नोपादानत्वमिति दोषो दृष्टान्तसङ्गतिलाभादत्र समाधीयत इत्यर्थः ।
चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः । स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति सन्देहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे -
एषेत्यादिना ।
यद्यपि 'न विलक्षणत्वात्' इत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता । प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह -
यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः ।
व्यभिचारस्थलान्तरमाह -
यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम् , एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् । प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः । सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः ।
यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते -
यदापि बहव इति ।
कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसङ्ख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः ।
एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह -
तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् ।
नियतप्रक्रियामाश्रित्य व्यभिचारमाह -
यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणुकेभ्योऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः । सूत्रे वाशब्दश्चार्थोऽनुक्ताणुसमुच्चयार्थः । तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना । तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।
दृष्चान्तवैषम्यं शङ्कते -
अथ मन्यस इति ।
अचेतनैव विरोधिगुण इत्यत आह -
न ह्यचेतनेति ।
कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह -
मैवमिति ।
अङ्गीकारं त्यजति -
न चेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः ।
ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह -
आरब्धमपीति ।
सहोत्पत्तावपसिद्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः ।
अणुत्वाद्यारम्भे व्यग्रत्वात्पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति -
न चेति ।
व्यग्रत्वमन्यथासिद्धम् ।
तत्र हेतुः -
परिमाणन्तरस्येति ।
अन्यहेतुकत्वे सूत्राण्युदाहरति -
कारणेति ।
कारणानां द्व्यणुकानां बहुत्वात्त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितूलपिण्डारब्धेऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः ।
महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसङ्ख्यया द्व्यणुके भवतीत्याह -
तदिति ।
यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायिकारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति -
एतेनेति ।
अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वमसिद्धमिति भावः ।
तेषां सन्निधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह -
न चेति ।
पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः ।
तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसन्निधिर्वा न हेतुरित्युक्तिफलमाह -
तस्मादिति ।
यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारेऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दम् , चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषु विजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् ।
तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् । तत्रोदाहणान्तरमाह -
संयोगाच्चेति ।
ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यम् , तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम् , न संयोगस्य गुणस्योदाहरणमिति शङ्कते -
द्रव्य इति ।
गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशेऽयं दृष्टान्त इति परिहरति -
नेति ।
अनियमः कणादसम्मत इत्याह -
सूत्रकारोऽपीति ।
एतावता कथमनियमः, तत्राह -
एतदुक्तमिति ।
न विलक्षणत्वन्यायेन पुनरुक्त्यभावेऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते -
नन्वतिदेश इति ।
समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह -
सत्यमिति ।
तस्यैवातिदेशस्येत्यर्थः ॥११॥