अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

महद्दीर्घाधिकरणम्

वृत्तानुवादेन 'मह­द्दी­र्घ­वत्' इति स्वम­त­स्था­प­ना­त्म­का­धि­क­र­णस्य सङ्गतिमाह -
प्रधानेति ।
यद्यपि साङ्ख्य­म­त­नि­रा­सा­न­न्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे सङ्ग­त­त्वा­त्त­थापि पूर्वत्र प्रधानगुणानां सुखादीनां जग­त्य­न­न्व­या­त्प्र­धा­न­स्या­नु­पा­दा­न­त्व­मु­क्तम् , तथा ब्रह्म­गु­ण­चै­त­न्या­न­न्व­या­द्ब्र­ह्म­णोऽपि नोपादानत्वमिति दोषो दृष्टा­न्त­स­ङ्ग­ति­ला­भा­दत्र समाधीयत इत्यर्थः ।

चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः । स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वस­मा­न­जा­ती­य­गु­णा­र­म्भ­क­स्त­न्तु­शौ­क्ल्य­व­दिति न्यायेन विरुध्यते न वेति सन्देहे न्याय­स्या­व्य­भि­चा­रा­द्वि­रु­ध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे -
एषेत्यादिना ।

यद्यपि 'न विल­क्ष­ण­त्वात्' इत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभि­चा­रो­क्त्य­र्थ­त्वा­दस्य सूत्रस्य न गतार्थता । प्रलयकाले परमाणवो निश्चला असं­यु­क्ता­स्ति­ष्ठन्ति सर्गकाले चादृ­ष्ट­व­दा­त्म­सं­यो­गा­त्तेषु कर्म भवति, तेन संयो­गा­द्द्र­व्या­न्त­र­सृ­ष्टि­र्भ­वति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रि­या­मुक्त्वा विशेषतस्तामाह -
यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारि­मा­ण्ड­ल्य­मि­त्यु­च्यते, तच्च स्वस­मा­न­जा­ती­य­गु­णा­र­म्भकं न भव­ती­त्यु­क्त­न्या­यस्य व्यभिचार इति भावः ।

व्यभि­चा­र­स्थ­ला­न्त­र­माह -
यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम् , एवं सति चतु­र्भि­र्द्व्य­णु­कै­श्च­तु­र­णु­का­रम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां मह­त­श्च­तु­र­णु­क­स्या­रम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् । प्रक­टा­र्थ­का­रास्तु यद्द्वाभ्यां द्व्यणु­का­भ्या­मा­रब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशि­थि­ला­व­य­व­सं­योग इति रावणप्रणीते भाष्ये दृश्यत इति चिर­न्त­न­वै­शे­षि­क­दृ­ष्ट्येदं भाष्यमित्याहुः । सर्वथापि द्व्यणु­क­ग­त­ह्र­स्व­त्वा­णु­त्व­प­रि­मा­ण­यो­र­ना­र­म्भ­क­त्वा­द्व्य­भि­चरः ।

यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभि­र्द्व्य­णु­कै­स्त्र्य­णु­क­मिति कल्पयन्ति तथापि तर्क­स्या­प्र­ति­ष्ठा­नान्न नियम इति मत्वा ब्रूते -
यदापि बहव इति ।
कारकगुणाः शुक्लादयः समा­न­जा­ती­य­गु­णा­र­म्भकाः, कार्य­द्र­व्य­प­रि­माणं तु न कार­ण­प­रि­मा­णा­रभ्यं किन्तु कार­ण­ग­त­स­ङ्ख्या­र­भ्य­मिति प्रक्रिया तुल्येत्यर्थः ।

एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह -
तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्य­नि­य­त­प्र­क्रि­या­मा­श्रि­त्यो­क्तम् ।

निय­त­प्र­क्रि­या­मा­श्रित्य व्यभिचारमाह -
यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणु­के­भ्योऽ­णु­द्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः । सूत्रे वाश­ब्द­श्चा­र्थोऽ­नु­क्ता­णु­स­मु­च्च­यार्थः । तथा च ह्रस्व­प­रि­म­ण्ड­लाभ्यां द्व्यणु­क­प­र­मा­णुभ्यां मह­द्दी­र्घा­णु­व­च्चे­त­ना­द­चे­तनं जायत इति सूत्रयोजना । तत्र ह्रस्वा­न्म­ह­द्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।

दृष्चा­न्त­वै­षम्यं शङ्कते -
अथ मन्यस इति ।

अचेतनैव विरोधिगुण इत्यत आह -
न ह्यचेतनेति ।

कार्यद्रव्यस्य परि­मा­णा­न्त­रा­क्रा­न्त­त्व­म­ङ्गी­कृत्य विव­क्षि­तां­श­सा­म्य­माह -
मैवमिति ।

अङ्गीकारं त्यजति -
न चेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्वि­रो­ध्य­भा­वात् द्व्यणुके पारि­मा­ण्ड­ल्या­रम्भः किं न स्यादित्यर्थः ।

ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह -
आरब्धमपीति ।
सहो­त्प­त्ता­व­प­सि­द्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः ।

अणु­त्वा­द्या­रम्भे व्यग्र­त्वा­त्पा­रि­मा­ण्ड­ल्यादेः स्वस­मा­न­गु­णा­ना­र­म्भ­क­त्व­मि­त्या­शङ्क्य निषेधति -
न चेति ।
व्यग्र­त्व­म­न्य­था­सि­द्धम् ।

तत्र हेतुः -
परि­मा­ण­न्त­र­स्येति ।

अन्यहेतुकत्वे सूत्रा­ण्यु­दा­ह­रति -
कारणेति ।
कारणानां द्व्यणुकानां बहु­त्वा­त्त्र्य­णुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितू­ल­पि­ण्डा­र­ब्धेऽ­ति­स्थू­ल­तू­ल­पिण्डे प्रच­या­द­व­य­व­सं­यो­ग­वि­शे­षा­न्म­ह­त्व­मि­त्यर्थः ।

मह­त्व­वि­रु­द्ध­म­णुत्वं पर­मा­णु­ग­त­द्वि­त्व­स­ङ्ख्यया द्व्यणुके भवतीत्याह -
तदिति ।

यन्म­ह­त्व­स्या­स­म­वा­यि­का­रणं तदेव मह­त्व­स­मा­ना­धि­क­र­णस्य दीर्घत्वस्य, यच्चा­णु­त्व­स्या­स­म­वा­यि­का­रणं तदे­वा­णु­त्वा­वि­ना­भू­त­हृ­स्व­त्व­स्या­स­म­वा­यि­का­र­ण­मि­त्य­ति­दि­शति -
एतेनेति ।
अतो मह­त्वा­दा­व­हे­तु­त्वा­त्पा­रि­मा­ण्ड­ल्या­दीनां व्यग्र­त्व­म­सि­द्ध­मिति भावः ।

तेषां सन्नि­धि­वि­शे­षा­भा­वान्न समा­न­गु­णा­र­म्भ­क­त्व­मि­त्यपि न वाच्यमित्याह -
न चेति ।
पारि­मा­ण्ड­ल्या­दी­ना­मपि बहु­त्वा­दि­व­त्स­म­वा­यि­का­र­ण­ग­त­त्वा­वि­शे­षा­दि­त्यर्थः ।

तेषा­म­ना­र­म्भ­कत्वे कार्यद्रव्यस्य विरो­धि­गु­णा­क्रा­न्तत्वं व्यग्र­त्व­म­स­न्नि­धिर्वा न हेतु­रि­त्यु­क्ति­फ­ल­माह -
तस्मादिति ।
यत्तु कारणगुणः स्वस­मा­न­गु­णा­र­म्भक इति व्याप्तेः सामान्यगुणेषु पारि­मा­ण्ड­ल्या­दिषु व्यभिचारेऽपि यो द्रव्य­स­म­वा­यि­का­र­ण­गतो विशेषगुणः स स्वस­मा­न­जा­ती­य­गु­णा­र­म्भक इति व्याप्ते­श्चै­त­न्यस्य विशे­ष­गु­ण­त्वा­दा­र­म्भ­कत्वं दुर्वारमिति, तन्मन्दम् , चित्र­प­ट­हे­तु­त­न्तु­ग­तेषु नीलादिरूपेषु विजा­ती­य­चि­त्र­रू­प­हे­तुषु व्यभि­चा­रा­च्चै­त­न्य­स्या­त्म­त्वेन गुण­त्वा­भा­वा­च्चेति मन्तव्यम् ।

तस्मा­च्चे­त­ना­द्वि­जा­ती­या­रम्भो युक्त इति स्थितम् । तत्रो­दा­ह­णा­न्त­र­माह -
संयोगाच्चेति ।

ननु चेतनं ब्रह्म कार्यो­पा­दा­न­त्वा­द्द्र­व्यम् , तन्न विल­क्ष­ण­स्यो­पा­दा­न­मिति प्रकृते किञ्चि­द्द्र­व्य­मेव विल­क्ष­ण­का­र्य­क­र­मु­दा­ह­र्त­व्यम् , न संयोगस्य गुण­स्यो­दा­ह­र­ण­मिति शङ्कते -
द्रव्य इति ।

गुणात् द्रव्य­व­च्चे­त­ना­द­चे­त­ना­रम्भ इति विल­क्ष­णा­र­म्भ­क­त्वां­शेऽयं दृष्टान्त इति परिहरति -
नेति ।

अनियमः कणादसम्मत इत्याह -
सूत्रकारोऽपीति ।

एतावता कथमनियमः, तत्राह -
एतदुक्तमिति ।

न विल­क्ष­ण­त्व­न्या­येन पुन­रु­क्त्य­भा­वेऽ­ति­दे­शा­धि­क­र­णेन पुनरुक्तिरिति शङ्कते -
नन्वतिदेश इति ।

समा­न­गु­णा­र­म्भ­नि­य­मस्य पारि­मा­ण्ड­ल्या­दि­दृ­ष्टा­न्तेन भङ्गा­र्थ­म­स्या­रम्भ इत्याह -
सत्यमिति ।
तस्यै­वा­ति­दे­श­स्ये­त्यर्थः ॥११॥