भाष्यरत्नप्रभाव्याख्या
उत्क्रान्तिगत्यधिकरणम्
स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा सङ्गत्या विचारयति -
उत्क्रान्तिगत्यागतीनाम् ।
विषयसंशयौ दर्शयति -
इदानीमिति ।
नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह -
नन्वित्यादिना ।
न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनोऽणुत्वं किन्त्वेषोऽणुरात्मेति श्रुत्यापीत्याह -
स्वशब्देनेति ।
पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह -
तत्र प्राप्तमित्यादिना ।
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः ॥१९॥
उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह -
स्वात्मनेति ।
उत्क्रान्तेरुत्तरयोर्गत्यागत्योः स्वात्मना कर्त्रा सम्बन्धादणुत्वमिति सूत्रयोजना ।
पाकानाश्रयस्य पक्तृत्ववद्गत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह -
गमेरिति ।
गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्कर्त्राश्रितत्वं लोकसिद्धमित्यर्थः ।
जीवोऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह -
अमध्यमेति ।
अङ्गीकारं त्यजति -
सत्योश्चेति ।
न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः ।
देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह -
देहप्रदेशानामिति ।
अपादानत्वमवधित्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।
किञ्च देहमध्येऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह -
स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः ॥२०॥
इतराधिकारात् ।
ब्रह्मप्रकरणात् ।
ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह -
परस्येति ।
या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह -
विरज इति ।
निर्दोष इत्यर्थः ।
विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते -
नन्विति ।
अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह -
शास्त्रेति ॥२१॥
एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितम् , तत्र श्रुतिमप्याह -
स्वशब्देति ।
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः । बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥
आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् । -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः ॥२३॥
सिद्धे हीति ।
न तु सिद्धमित्यतुल्यतेत्यर्थः । विशेष एव वैशेष्यम् । चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे सन्देहाद्व्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् । व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः ।
आत्माल्पः, व्यापिकार्यकारित्वात् , चन्दनबिन्दुवदित्यनुमानमयुक्तम् , त्वगादौ व्यभिचारादित्याह -
न चात्रानुमानमिति ।
पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह -
अत्रोच्यत इति ॥२४॥
आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह -
गुणाद्वेति ।
वाशब्देन चन्दनदृष्टान्तापरितोषः सूचितस्तमाह -
स्यादिति ॥२५॥
उत्तरसूत्रव्यावर्त्यं शङ्कते -
कथमिति ।
ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात् , रूपवत् , न च प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह -
अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।
ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह -
अक्षीयमाणमपीति ।
अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्द्रव्यमनुमीयत इत्यर्थः । विमतमविश्लिष्टावयवम् , पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात् , सम्मतवदिति भावः ।
शङ्कते -
स्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणम् , अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् । विशेषोऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथा च गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः ।
आगच्छन्तोऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति -
नेति ।
द्वितीयं प्रत्याह -
स्फुटेति ।
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः । अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः ।
गन्धो न गुणिविश्लिष्टः गुणत्वात् , रूपवदिति शङ्कते -
रूपेति ।
विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह -
नेति ॥२६॥
आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः -
तथा च दर्शयतीति ।
तद्व्याचष्टे -
हृदयेति ॥२७॥
तत्रैव श्रुत्यन्तरार्थं सूत्रम् -
पृथगिति ।
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम् ॥२८॥
तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः । तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहीते श्रुतिस्मृती आह -
तथा च स वा एष इति ।
नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्माभेदज्ञानेऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् । प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् । 'गुणे त्वन्याय्यकल्पना' इति न्यायादिति भावः । किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयोऽध्यस्ताणुत्वविषयत्वेन कथञ्चिदर्थवादा नेयाः ।
लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -
न चाणोरिति ।
शङ्कते -
त्वगिति ।
यद्यण्वात्मसम्बन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति -
नेति ।
प्रसङ्गस्येष्टत्वं निरस्यति -
पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात् , तथा चाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः । न च सिद्धान्ते त्वगात्मसम्बन्धस्य व्यापित्वात्कण्टकसम्बन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्तावद्व्याप्यात्मसम्बन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् । न चैवं विषयत्वक्सम्बन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं सम्भवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः । न चैषां व्यापकत्वमसिद्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।
यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -
न चाणोरिति ।
गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात् , रूपवदित्यत्रागममाह -
तथा चोक्तमिति ।
न च प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वेऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसम्भवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।
पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तम् , सम्प्रति तस्य गुणत्वमसिद्धमित्याह -
यदि च चैतन्यमिति ।
उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे -
कथमित्यादिना ।
'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।
बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह -
तथा चेति ।
अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः । उक्तं चैतदङ्गुष्ठाधिकरणे 'प्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्' इति ।
बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -
तथेतरस्मिन्नपीति ।
बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।
'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽणुरात्मा' इत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह -
जीवस्यापीति ।
यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह -
तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।
यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -
व्यपदेशमात्रं वेति ।
ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -
न ह्यत्रेति ।
निर्गुणत्वश्रुतेरित्यर्थः ।
अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह -
हृदयेत्यादिना ।
सौत्रं दृष्टान्तं विवृणोति -
यथेति ।
असत्त्वमित्यापाततः । असंसारित्वमापाद्यम् । शेषं सुबोधम् ॥२९॥
ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह -
यावदेव चायमिति ।
समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारोऽणुरित्यर्थः ।
किं न स्यादित्यत आह -
प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्याकाङ्क्षायामिति शेषः ।
श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तम् , सति मूले कार्यस्य वियोगासम्भवाच्चेति युक्त्याप्याह -
अपि च मिथ्येति ।
सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह -
दर्शयतीति ।
मृत्युमत्येतीत्यन्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तादज्ञानास्पृष्टमित्यर्थः ॥३०॥
यावदात्मभावित्वस्यासिद्धिं शङ्कते -
नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसम्पत्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः ।
स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह -
पुंस्त्वेति ।
पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धिसम्बन्धस्येत्यर्थः ।
स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधेऽभिव्यक्तिरित्यत्र श्रुतिमाह -
दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसद्भावोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥३१॥
बुद्धिसद्भावे मानमाह सूत्रकारः -
नित्येति ।
'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।
कथमेकस्यानेकधोक्तिः, तत्राह -
क्वचिच्चेति ।
गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।
यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति -
तच्चेत्यादिना ।
सूत्रं योजयति -
अन्यथेति ।
पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।
ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे -
अथवेति ।
सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।
अस्तु प्रतिबन्ध इत्यत आह -
न चेति ।
न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।
एतदभिप्रेत्योपसंहरति -
तस्मादिति ।
अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः ।
सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -
तथा चेति ।
न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह -
कामादयश्चेति ।
बुद्धेः प्रामाणिकत्वोक्तिफलमाह -
तस्मादिति ॥३२॥