अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

उत्क्रान्तिगत्यधिकरणम्

स्वप्र­का­श­त्वा­दा­त्म­स्व­रू­पा­दी­ष­द्ब­हिष्ठं परि­मा­ण­मे­वा­श्रि­ता­श्र­य­त्वे­ना­न्त­र्ब­हि­र्भा­वेन वा सङ्गत्या विचारयति -
उत्क्रा­न्ति­ग­त्या­ग­ती­नाम् ।

विषयसंशयौ दर्शयति -
इदानीमिति ।

नात्मा­श्रु­ते­रि­त्या­दिना गता­र्थ­त्व­म­स्या­श­ङ्क्या­त्मा­णु­त्व­श्रु­तीनां मह­त्त्व­श्रु­तीनां चावि­रो­ध­क­थ­ना­र्थ­म­स्या­धि­क­र­ण­स्या­रम्भ इत्याह -
नन्वित्यादिना ।

न केवलं श्रुतो­त्क्रा­न्त्या­द्य­नु­प­प­त्त्या­त्म­नोऽ­णुत्वं किन्त्वे­षोऽ­णु­रा­त्मेति श्रुत्यापीत्याह -
स्वशब्देनेति ।

पूर्वपक्षे जीव­स्या­णु­त्वा­द्ब्र­ह्मै­क्या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकु­र्व­न्पू­र्व­प­क्ष­माह -
तत्र प्राप्त­मि­त्या­दिना ।
श्रुतेरणुरिति उत्त­र­सू­त्रा­दा­कृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतै­र्बु­द्ध्या­दि­भि­स्त­स्मा­च्च­न्द्र­लो­का­दिमं लोकं प्रति कर्म कर्तु­मा­या­ती­त्यर्थः ॥१९॥

उत्क्रा­न्ति­रा­त्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामि­त्व­नि­वृ­त्ति­रिति केचित् । तद­ङ्गी­कृ­त्या­प्य­णु­त्व­मा­व­श्य­क­मि­त्याह -
स्वात्मनेति ।
उत्क्रा­न्ते­रु­त्त­र­यो­र्ग­त्या­गत्योः स्वात्मना कर्त्रा सम्ब­न्धा­द­णु­त्व­मिति सूत्रयोजना ।

पाकानाश्रयस्य पक्तृ­त्व­व­द्ग­त्य­ना­श्र­य­स्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह -
गमेरिति ।
गमनस्य कर्तरि संयो­ग­वि­भा­ग­रू­पा­ति­श­य­हे­तु­त्वा­त्क­र्त्रा­श्रि­तत्वं लोक­सि­द्ध­मि­त्यर्थः ।

जीवोऽ­णु­र­म­ध्य­म­प­रि­मा­णत्वे सति गति­म­त्त्वा­त्प­र­मा­णु­व­दि­त्याह -
अमध्यमेति ।

अङ्गीकारं त्यजति -
सत्योश्चेति ।
न स्वाम्य­नि­वृ­त्ति­मा­त्र­मु­त्क्रा­न्ति­रि­त्यर्थः ।

देहान्निर्गम एवो­त्क्रा­न्ति­रि­त्यत्र लिङ्गान्तरमाह -
देह­प्र­दे­शा­ना­मिति ।
अपा­दा­न­त्व­म­व­धि­त्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।

किञ्च देहमध्येऽपि जीवस्य गत्या­ग­ति­श्रु­ते­र­णु­त्व­मि­त्याह -
स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रका­श­क­मि­न्द्रि­य­ग्रा­म­मा­दाय पुन­र्जा­ग­रि­त­स्था­न­मा­ग­च्छ­ती­त्यर्थः ॥२०॥

इतराधिकारात् ।
ब्रह्मप्रकरणात् ।

ननु महत्त्वश्रुतेः कथं पर­प्र­क­र­ण­स्थ­त्व­मि­त्यत आह -
परस्येति ।

या वेदान्तश्रुतिः सा पर­प्र­क­र­ण­स्थे­त्यु­त्स­र्गा­त्त­स्या­स्त­त्स्थत्वं ब्रह्मा­र­भ्या­धी­त­त्वा­च्चे­त्याह -
विरज इति ।
निर्दोष इत्यर्थः ।

विज्ञा­न­म­य­श्रुत्या प्रकरणं बाध्यमिति शङ्कते -
नन्विति ।

अणोर्जीवस्य ब्रह्मणा भेद­भे­दा­ङ्गी­का­रा­च्छा­स्त्री­या­भे­द­दृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वा­त्म­त्वो­क्ति­रि­त्य­वि­रो­ध­माह -
शास्त्रेति ॥२१॥

एव­मु­त्क्रा­न्त्या­दि­श्रु­त्या­णु­त्व­म­नु­मि­तम् , तत्र श्रुतिमप्याह -
स्वशब्देति ।
बाला­ग्रा­दु­द्धृतः शततमो भाग­स्त­स्मा­द­प्यु­द्धृतः शततमो भागो जीव इति, उद्धृत्य मान­मु­न्मा­न­म­त्य­न्ता­ल्प­त्व­मि­त्यर्थः । बालः केशः, तोत्र­प्रो­ता­यः­श­ला­का­ग्र­मा­रा­ग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥

आत्म­सं­यु­क्ता­या­स्त्वचो देह­व्या­पि­स्प­र्शो­प­ल­ब्धि­क­र­णस्य महि­म्ना­त्म­नो­व्या­पि­का­र्य­का­रि­त्व­म­वि­रु­द्धम् । -
त्वगात्मनोरिति ।
सम्बन्धस्य त्वग­व­य­वि­नि­ष्ठ­त्वा­द­व­य­वि­न­श्चै­क­त्वा­दा­त्म­सं­यो­गस्य कृत्स्न­त्व­ङ्नि­ष्ठ­ते­त्यर्थः ॥२३॥

सिद्धे हीति ।
न तु सिद्ध­मि­त्य­तु­ल्य­ते­त्यर्थः । विशेष एव वैशेष्यम् । चन्द­न­बि­न्दो­र­ल्प­त्वस्य प्रत्य­क्ष­त्वा­त्त्व­ग्व्याप्त्या व्यापि­का­र्य­का­रि­त्व­क­ल्पना युक्ता, जीवस्य त्वणुत्वे सन्दे­हा­द्व्या­पि­का­र्य­दृष्ट्या व्यापि­त्व­क­ल्प­न­मेव युक्तम् । व्यापि­का­र्या­श्रयो व्यापी­त्यु­त्स­र्गा­दिति सूत्र­श­ङ्का­भा­गार्थः ।

आत्माल्पः, व्यापि­का­र्य­का­रि­त्वात् , चन्द­न­बि­न्दु­व­दि­त्य­नु­मा­न­म­यु­क्तम् , त्वगादौ व्यभि­चा­रा­दि­त्याह -
न चात्रानुमानमिति ।

पूर्वो­क्त­श्रु­ति­भि­र्जी­व­स्या­णु­त्व­नि­श्च­या­द्धृ­दि­स्थ­त्व­श्रु­ति­भि­रे­क­दे­श­स्थ­त्व­नि­श्च­याच्च न दृष्टा­न्त­वै­ष­म्य­मिति परि­हा­र­भा­गा­र्थ­माह -
अत्रोच्यत इति ॥२४॥

आत्म­व­त्त­द्ध­र्म­ज्ञा­न­स्या­प्य­णुत्वं स्वतः, कादाचित्कं तु देह­प­रि­मा­ण­त्व­मि­त्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह -
गुणाद्वेति ।

वाशब्देन चन्द­न­दृ­ष्टा­न्ता­प­रि­तोषः सूचितस्तमाह -
स्यादिति ॥२५॥

उत्त­र­सू­त्र­व्या­वर्त्यं शङ्कते -
कथमिति ।

ज्ञानं न गुणि­व्य­ति­रि­क्त­दे­श­व्यापि, गुणत्वात् , रूपवत् , न च प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह -
अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।

ननु विश्लि­ष्टा­व­य­वा­ना­म­ल्प­त्वा­द्र­व्य­क्षयो न भातीत्यत आह -
अक्षीयमाणमपीति ।
अपिरवधारणे पूर्वा­व­स्था­लि­ङ्गे­ना­क्षी­य­मा­ण­मेव तद्द्र­व्य­म­नु­मी­यत इत्यर्थः । विम­त­म­वि­श्लि­ष्टा­व­य­वम् , पूर्वावस्थातो गुरु­त्वा­द्य­प­च­य­ही­न­त्वात् , सम्मतवदिति भावः ।

शङ्कते -
स्यादेतदिति ।
विश्लि­ष्टा­ना­म­ल्प­त्वा­दि­त्यु­प­ल­क्ष­णम् , अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् । विशेषोऽवयवानां विश्ले­ष­प्र­वे­श­रूपः सन्नपि न ज्ञायते, तथा च गुरुत्वापचयो न भवतीति हेतो­र­न्य­था­सि­द्धि­रिति शङ्कार्थः ।

आगच्छन्तोऽवयवाः पर­मा­ण­व­स्त्र­स­रे­णवो वा, नाद्यः, तद्ग­त­रू­प­व­द्ग­न्ध­स्या­प्य­नु­प­ल­ब्धि­प्र­स­ङ्गा­दिति परिहरति -
नेति ।

द्वितीयं प्रत्याह -
स्फुटेति ।
त्रस­रे­णु­ग­न्ध­श्चे­त्स्फुटो न स्यादित्यर्थः । अतो गन्धस्य पुष्पा­दि­स्थ­स्यैव गुणव्यतिरेको वाच्य इति भावः ।

गन्धो न गुणिविश्लिष्टः गुणत्वात् , रूपवदिति शङ्कते -
रूपेति ।

विश्लेषस्य प्रत्य­क्ष­त्वा­द्बाध इत्याह -
नेति ॥२६॥

आत्म­न­श्चै­त­न्य­गु­णे­नैव देह­व्या­प्ति­रि­त्यत्र श्रुतिमाह सूत्रकारः -
तथा च दर्शयतीति ।

तद्व्याचष्टे -
हृदयेति ॥२७॥

तत्रैव श्रुत्य­न्त­रार्थं सूत्रम् -
पृथगिति ।
विज्ञा­न­मि­न्द्रि­याणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एतं चैत­न्य­गु­ण­व्या­प्ति­गो­च­र­म­भि­प्रा­यम् ॥२८॥

तत्रा­त्मा­णु­त्व­वि­भु­त्व­श्रु­तीनां विरो­धा­द­प्रा­मा­ण्य­प्रा­प्ता­व­णुत्वं जीवस्य विभु­त्व­मी­श्व­र­स्ये­त्य­वि­रोध इत्येकदेशिपक्षो दर्शितः । तं दूष­य­न्सि­द्धा­न्त­सूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।

तस्मा­द्ब्र­ह्मा­भि­न्न­त्वा­द्वि­भु­र्जीवः ब्रह्म­व­दि­त्य­नु­मा­ना­नु­गृ­हीते श्रुतिस्मृती आह -
तथा च स वा एष इति ।
नित्यः सर्वगतः स्थाणु­रि­त्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्मा­भे­द­ज्ञा­नेऽ­णु­त्वा­भा­व­धी­स्तस्यां तदि­त्य­न्यो­न्या­श्रय इति निरस्तम् । प्रधा­न­म­हा­वा­क्या­नु­गु­ण­श्रु­ति­स्मृ­ति­भि­र­णु­त्वा­भा­व­नि­श्च­या­न­न्त­र­म­भे­द­ज्ञा­ना­त्प्र­धा­न­वा­क्य­वि­रोधे गुण­भू­ता­णु­त्व­श्रु­ती­ना­मौ­पा­धि­का­णु­त्व­वि­ष­य­त्व­क­ल्प­नात् । 'गुणे त्वन्या­य्य­क­ल्पना' इति न्यायादिति भावः । किञ्च सर्व­दे­ह­व्या­पि­शै­त्या­नु­भ­वा­न्य­था­नु­प­प­त्त्या­णु­त्व­श्रु­त­योऽ­ध्य­स्ता­णु­त्व­वि­ष­य­त्वेन कथञ्चिदर्थवादा नेयाः ।

लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -
न चाणोरिति ।

शङ्कते -
त्वगिति ।

यद्य­ण्वा­त्म­स­म्ब­न्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्त­र्ह्य­ति­प्र­सङ्ग इति दूषयति -
नेति ।

प्रस­ङ्ग­स्ये­ष्टत्वं निरस्यति -
पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देह­व्या­प्त्य­द­र्श­नात् , तथा चाण्वा­त्म­सं­यो­ग­स्त्व­गे­क­दे­शस्थ एवेति देह­व्या­पि­वे­द­ना­नु­प­पत्तिः । न च सिद्धान्ते त्वगा­त्म­स­म्ब­न्धस्य व्यापि­त्वा­त्क­ण्ट­क­स­म्बन्धे देह­व्या­पि­वे­द­ना­प्र­सङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्ता­व­द्व्या­प्या­त्म­स­म्ब­न्ध­स्ता­व­द्व्या­पि­वे­द­ना­हे­तु­रिति नियमात् । न चैवं विष­य­त्व­क्स­म्बन्ध एव तद्धेतुरस्तु किमा­त्म­व्या­प्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्या­णा­म­ल्प­मु­पा­दानं सम्भवति कार्य­स्यो­पा­दा­ना­द्वि­श्ले­षा­नु­प­पत्तेः । न चैषां व्याप­क­त्व­म­सि­द्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वा­ङ्ग­व्या­पि­दुः­ख­सु­खा­नु­भ­वस्य दुरपह्नवत्वात् ।

यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -
न चाणोरिति ।

गन्धो नाश्र­या­द्वि­श्लिष्टः, गुणत्वात् , रूप­व­दि­त्य­त्रा­ग­म­माह -
तथा चोक्तमिति ।
न च प्रत्यक्षबाधः, गन्धस्य प्रत्य­क्ष­त्वेऽपि निरा­श्र­य­त्व­स्या­प्र­त्य­क्ष­त्वा­न्म­हतां त्रस­रे­णू­ना­म­नु­द्भू­त­स्प­र्शा­ना­मु­द्भू­त­ग­न्धा­ना­मा­ग­म­ना­त्स्फु­ट­ग­न्धो­प­ल­म्भ­स­म्भवः, अव­य­वा­न्त­र­प्र­वे­शान्न सहसा मूलद्रव्यक्षय इति भावः ।

पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्या­त्मा­णुत्वं निरस्तम् , सम्प्रति तस्य गुण­त्व­म­सि­द्ध­मि­त्याह -
यदि च चैतन्यमिति ।

उत्सूत्रं विभुत्वं प्रसा­ध्या­णु­त्वा­द्यु­क्ते­र्ग­ति­प्र­द­र्श­नार्थं सूत्रं व्याचष्टे -
कथमित्यादिना ।
'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धि­र्यो­ग्य­त्वा­त्त­च्छ­ब्देन परामृश्यते ।

बुद्धि­गु­णा­ना­मा­त्म­न्य­ध्या­सा­द­णु­त्वा­द्यु­क्तिर्न स्वतः, आन­न्त्य­श्रु­ति­वि­रो­धा­दि­त्याह -
तथा चेति ।
अका­र्य­का­र­ण­द्र­व्य­स­मा­ना­धि­क­र­ण­तया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्य­व­द­ख­ण्डा­भे­दा­र्थ­त्वा­दा­नन्त्यं सत्य­म­णु­त्व­म­ध्य­स्त­मि­त्यर्थः । उक्तं चैत­द­ङ्गु­ष्ठा­धि­क­रणे 'प्रति­पा­द्य­वि­रु­द्ध­मु­द्दे­श्य­ग­त­वि­शे­ष­ण­म­वि­व­क्षि­तम्' इति ।

बाला­ग्र­वा­क्य­मा­रा­ग्र­वाक्यं चेत्यु­न्मा­न­द्व­य­मु­क्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -
तथे­त­र­स्मि­न्न­पीति ।
बुद्धेर्गुणेन निमि­त्ते­ना­त्म­न्य­ध्यस्तो गुणो भवति तेना­त्म­गु­णे­ना­ध्य­स्ते­नै­वा­रा­ग्र­प­रि­मा­णोऽ­प­कृ­ष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।

'न चक्षुषा गृह्यते नापि वाचा नान्यै­र्दे­वै­स्त­पसा कर्मणा वा । ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽ­णु­रात्मा' इत्युक्तः पर एव, यदि जीव­स्त­था­प्य­ध्य­स्ता­णु­त्व­म­णु­श­ब्दार्थ इत्याह -
जीवस्यापीति ।

यदुक्तं पृथ­गु­प­दे­शा­च्चै­त­न्य­गु­णे­नै­वा­त्मनो देह­व्या­प्ति­रिति, तत्राह -
तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।

यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -
व्यपदेशमात्रं वेति ।

ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -
न ह्यत्रेति ।
निर्गु­ण­त्व­श्रु­ते­रि­त्यर्थः ।

अन्यदपि पूर्वोक्तं बुद्ध्या­द्यु­पा­धि­क­मि­त्याह -
हृदयेत्यादिना ।

सौत्रं दृष्टान्तं विवृणोति -
यथेति ।
अस­त्त्व­मि­त्या­पा­ततः । असं­सा­रि­त्व­मा­पा­द्यम् । शेषं सुबोधम् ॥२९॥

ननु स्वतः संसारित्वमस्तु किं बुद्ध्यु­पा­धि­ने­त्यत आह -
यावदेव चायमिति ।
समानो बुद्धि­ता­दा­त्म्या­पन्नः सन् विज्ञानं ब्रह्म तन्मयो विका­रोऽ­णु­रि­त्यर्थः ।

किं न स्यादित्यत आह -
प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्या­का­ङ्क्षा­या­मिति शेषः ।

श्रुति­ब­ला­द्बु­द्धे­र्या­व­त्सं­सा­र्या­त्म­भा­वि­त्व­मु­क्तम् , सति मूले कार्यस्य वियो­गा­स­म्भ­वा­च्चेति युक्त्याप्याह -
अपि च मिथ्येति ।

सम्यग्ज्ञानादेव बुद्ध्या­दि­ब­न्ध­ध्वंस इत्यत्र श्रुतिमाह -
दर्शयतीति ।
मृत्यु­म­त्ये­ती­त्य­न्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः पर­स्ता­द­ज्ञा­ना­स्पृ­ष्ट­मि­त्यर्थः ॥३०॥

याव­दा­त्म­भा­वि­त्व­स्या­सिद्धिं शङ्कते -
नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्म­स­म्प­त्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रल­य­व्या­ह­ति­रि­त्यर्थः ।

स्थूल­सू­क्ष्मा­त्मना बुद्धे­र्या­व­दा­त्म­भा­वि­त्व­म­स्ती­त्याह -
पुंस्त्वेति ।
पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धि­स­म्ब­न्ध­स्ये­त्यर्थः ।

स्वापे बीजात्मना सतो बुद्धयादेः प्रबो­धेऽ­भि­व्य­क्ति­रि­त्यत्र श्रुतिमाह -
दर्शयतीति ।
न विदु­रि­त्य­वि­द्या­त्म­क­बी­ज­स­द्भा­वोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्य­भि­व्य­क्ति­नि­र्देशः ॥३१॥

बुद्धिसद्भावे मानमाह सूत्रकारः -
नित्येति ।
'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचे­ष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदि­तव्यः', 'चित्तं च चेत­यि­त­व्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं ताव­द्बु­द्धि­द्रव्यं प्रसि­द्ध­मि­त्यर्थः ।

कथ­मे­क­स्या­ने­क­धोक्तिः, तत्राह -
क्वचिच्चेति ।
गर्व­वृ­त्ति­कोऽ­ह­ङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।

यद्यपि साक्षि­प्र­त्य­क्ष­सि­द्ध­म­न्तः­क­रणं श्रुत्यनूदितं च तथापि प्रत्य­क्ष­श्रु­त्यो­र्वि­व­द­मानं प्रति व्यास­ङ्गा­नु­प­पत्त्या तत्साधयति -
तच्चेत्यादिना ।

सूत्रं योजयति -
अन्यथेति ।
पञ्चे­न्द्रि­याणां पञ्च­वि­ष­य­स­म्बन्धे सति नित्यं युग­प­त्प­ञ्चो­प­ल­ब्धयः स्युः, मनोऽ­ति­रि­क्त­सा­मग्र्याः सत्त्वात् । यदि सत्यामपि साम­ग्र्या­मु­प­ल­ब्ध्य­भा­व­स्तर्हि सदै­वा­नु­प­ल­ब्धि­प्र­सङ्ग इत्यर्थः । अतः कादा­चि­त्को­प­ल­ब्धि­नि­या­मकं मन एष्टव्यमिति भावः ।

ननु सत्यपि कराग्रिसंयोगे दाह­का­दा­चि­त्क­त्व­व­दु­प­ल­ब्धि­का­दा­चि­त्क­त्व­मस्तु किं मन­से­त्या­श­ङ्क्या­न्य­त­र­नि­यमो वेत्ये­त­द्व्या­चष्टे -
अथवेति ।
सत्यां सामग्र्यां नित्यो­प­ल­ब्धि­र्वा­ङ्गी­कार्या अन्यतरस्य कारणस्य केन­चि­च्छ­क्ति­प्र­ति­ब­न्ध­नि­यमो वाङ्गीकार्यः, यथा मणि­ना­ग्नि­श­क्ति­प्र­ति­बन्ध इति वाकारार्थः ।

अस्तु प्रतिबन्ध इत्यत आह -
न चेति ।
न चेन्द्रि­य­स्यै­वास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रति­ब­न्ध­का­भा­वात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्त­म­ति­प्र­स­ङ्गात् । न च व्यासङ्गः, प्रति­ब­न्ध­क­म­नोऽ­सत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहो­प­ल­ब्धि­प्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपा­द्यु­प­ल­ब्धि­प्र­ति­ब­न्धको वाच्यः, स च गुण­त्वा­द्रू­प­व­द्गु­ण्या­श्रयः, तत्रा­त्म­नोऽ­स­ङ्ग­नि­र्गु­ण­कू­ट­स्थस्य गुणि­त्वा­यो­गा­न्मन एव गुणि­त्वे­नै­ष्ट­व्य­मिति व्यास­ङ्गा­नु­प­पत्त्या मनःसिद्धिः ।

एत­द­भि­प्रे­त्यो­प­सं­ह­रति -
तस्मादिति ।
अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्ग­न्धा­द्यु­प­ल­म्भान्न बुभु­त्सो­प­ल­ब्धि­र्नि­या­मि­केति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या निया­म­क­त्वा­ङ्गी­का­रात् । तेषां मते पुन­रि­च्छा­दी­ना­मा­त्म­ध­र्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छा­दि­ध­र्मि­णै­वा­त्मना व्यास­ङ्गो­प­पत्तेः ।

सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -
तथा चेति ।

न केवलं व्यास­ङ्गा­न्म­नः­सिद्धिः, किन्तु कामा­द्या­श्र­य­त्वे­ना­पी­त्याह -
कामादयश्चेति ।

बुद्धेः प्रामा­णि­क­त्वो­क्ति­फ­ल­माह -
तस्मादिति ॥३२॥