अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सत्याद्यधिकरणम्

सैव हि सत्यादयः ।
स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः । सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्य­स्थ­म­क्ष­र­म­नृ­त­मु­भ­यतः सत्येन संपु­टि­त­त्वा­त्स­त्त्य­प्रा­य­मेव भवतीति नामाक्षरोपासना सत्य­वि­द्या­ङ्ग­त्वे­नोक्ता । यत्त­त्पू­र्व­प्र­कृतं हृदयाख्यं तत्सं­प्र­त्यु­क्त­य­क्ष­त्वा­दि­गु­णकं, सोऽसा­वा­दि­त्य­म­ण्ड­लेऽ­क्षिणि च पुरु­ष­स्त­स्या­ह­रि­त्य­ह­मिति च नाम­द्व­य­ज्ञा­ना­त्पा­प­क्षयः फलमित्यर्थः ।

अत्र पूर्वो­त्त­र­वा­क्ययोः फलभेदश्रुतेः प्रकृ­ता­क­र्ष­णाच्च संशयमाह -
तत्रेति ।
पूर्वपक्षे गुणानां व्यव­स्थ­या­नु­ष्ठानं, सिद्धान्ते त्वनु­ष्ठा­नै­क्य­मिति फलम् ।

यथा जीवे­श­यो­र­न्यो­न्या­त्म­त्व­श्रु­ति­भे­दा­न्म­ति­द्वै­रू­प्य­मुक्तं, तथात्र फल­श्रु­ति­भे­दा­द्वि­द्या­भेद इति दृष्टान्तेन पूर्वपक्षयति -
द्वे इति ।

विशे­ष्य­ब्र­ह्म­मा­त्रा­क­र्ष­ण­म­युक्तं, तद्यत्तदिति सर्वनामभिः पूर्वो­क्त­गु­ण­वि­शिष्टं ब्रह्म आकृ­ष्या­दि­त्या­क्षि­स्था­ना­दि­गु­ण­वि­धा­नात्, तथाच वाक्यादेव विद्यै­क्य­सि­द्धि­रिति सिद्धान्तयति -
एकैवेति ।

यथा दह­र­शा­ण्डि­ल्य­वि­द्य­यो­र्ब्र­ह्मै­क्य­प्र­त्य­भि­ज्ञा­न­मात्रं तथात्र नेत्याह -
नैतदिति ।
कारणान्तरं प्रकरणभेदादिकम् । एवं विद्या­भे­देऽ­प्ये­त­दु­पा­स्यै­क्य­ज्ञानं स्यादत्र तूभयथासंभवे विद्यै­क्य­ना­ना­त्व­सं­शये सत्य­मि­त्यु­पा­स्य­रू­पै­क्य­ज्ञा­ना­द्वि­द्यै­क्य­नि­श्चय इत्यक्षरार्थः ।

असत्यपवादकारणे रूपै­क्या­द्वि­द्यै­क्यो­त्स­र्ग­सि­द्धिर्न च फलभेदादपवादः । अङ्गे फलश्रुतेः श्रुतिमात्रतया फल­भे­दा­सि­द्धि­रि­त्याह -
यत्पु­न­रि­त्या­दिना ।

किञ्च यत्र प्रधा­न­वि­धा­वे­व­ङ्काम इति फलं श्रुतं, तत्र प्रधा­न­फ­ले­नै­वा­ङ्गानां फला­का­ङ्क्षा­नि­वृ­त्ते­रङ्गे फलश्रुतेः स्तुति­मा­त्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधा­न­वि­द्या­वि­धि­स्थत्वं लोक­ज­य­फ­ल­स्या­भ्यु­पे­त्या­स्मा­भि­र्ना­म­रू­पा­ङ्गस्य फलश्रुतेः स्तुति­त्व­मु­क्तम् । वस्तुतस्तु प्रधा­न­वि­धा­व­प्ये­व­ङ्का­म­प­दा­भा­वा­द्रा­त्रि­स­त्र­न्या­येन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुत­त्वा­वि­शे­षा­ज्जा­ते­ष्टि­फ­ल­न्या­येन समु­च्चि­त्यै­क­प्र­धा­न­फ­ल­त्व­क­ल्प­नात् फलभेदोऽसिद्ध इत्याह -
अपि चेति ।

सूत्रं योजयति -
तस्मादिति ।

एक­दे­शि­व्या­ख्या­मु­द्भाव्य दूषयति -
केचिदित्यादिना ।

छान्दोग्ये कर्माङ्गोद्गीथे हिर­ण्म­य­पु­रु­ष­दृ­ष्टि­रि­त्यत्र लिङ्गमाह -
तत्रेति ।
पृथि­व्य­ग्न्या­त्मना दृष्टे ऋक्सामे गेष्णौ, तस्मा­दृ­क्सा­म­गे­ष्ण­त्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्म­फ­ल­स­मृ­द्धि­स­मर्थ इति श्रुत्यर्थः ।

सत्यविद्या तु न कर्मा­ङ्गा­श्रि­ते­त्याह -
नैवमिति ।
अङ्गविद्यातः स्वत­न्त्र­हि­र­ण्य­ग­र्भ­वि­द्याया भेदान्न गुणोपसंहार इत्यर्थः ॥३८॥