भाष्यरत्नप्रभाव्याख्या
संख्योपसङ्ग्रहाधिकरणम्
न सङ्ख्योपसङ्ग्रहात् । पञ्चजनशब्दः साङ्ख्यतत्त्वपरोऽन्यपरो वेति योगरूढ्योरनिश्चयात्संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसङ्गतिं सूचयन्मन्त्रमुदाहृत्य पूर्वपक्षयति
एवमित्यादिना ।
फलं पूर्ववत् । प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च । तत्र चत्वारः सूत्रमन्नं विराट्तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये । तस्मान्मननात् विद्वानहममृतोऽस्मीति मन्त्रदृशो वचनम् ।
नन्वस्तु पञ्चत्वविशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात्पञ्चविंशतिसङ्ख्याप्रतीतिः, तावता कथं साङ्ख्यतत्त्वग्रह इत्याशङ्क्य सङ्ख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह
तथेति ।
जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः । कस्यचित्कार्यं न भवतीत्यर्थः । महदहङ्कारपञ्चतन्मात्राणीति सप्त प्रकृतयो विकृतयश्च । तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः । अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् । पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसङ्ख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् । पुरुषस्तूदासीन इति साङ्ख्यकारिकार्थः ।
सङ्ख्यया तत्त्वानामुपसंग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति
नेति ।
नानात्वमिष्टमित्यत आह
नैषामिति ।
पञ्चसु पञ्चसु साधारणस्येतरपञ्चकाद्व्यावृत्तस्य धर्मस्याभावोऽत्र नानात्वं विवक्षितमित्यर्थः । यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वयेऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः ।
मास्त्वित्यत आह
येनेति ।
धर्मेणेत्यर्थः ।
तदेव स्फुटयति
नहीति ।
महासङ्ख्यायामवान्तरसङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः ।
पञ्चशब्दद्वयेन स्ववाच्यन्यूनसङ्ख्याद्वारेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते
अथेति ।
मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति
तदपि नेति ।
पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसङ्ख्याप्रतीर्निरस्ता । सम्प्रति समासनिश्चयान्न तत्प्रतीतिरित्याह
परश्चेति ।
समासे हेतुमाह
पारिभाषिकेणेति ।
अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते 'समासस्य' इति सूत्रेण समासस्यान्तोदात्तविधानात् । 'अनुदात्तं पदमेकवर्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्राह्मणस्वरविधायकग्रन्थे 'स्वरितोऽनुदात्तो वा' इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तम् , 'उदात्तमनुदात्तमनन्त्यम्' इति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितम् , तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानोऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति । प्रकटार्थकारैस्तु पाठकप्रसिद्धोऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्पतरुकारैर्दूषितम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नणस्वर इति विभागः । उभयथाप्यैकपद्यात्समाससिद्धिरिति ।
तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह
प्रयोगान्तरे चेति ।
आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहामित्रभोगाधारम् , तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः ।
अस्तु समासस्ततः किमित्यत आह
समस्तत्वाच्चेति ।
आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसङ्ख्याप्रतीतिरसिद्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।
किञ्चासमासपक्षेऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः । नाद्य इत्याह
नच पञ्चसङ्ख्याया इति ।
विशेषणमन्वयः ।
अनन्वये हेतुमाह
उपसर्जनस्येति ।
अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः । गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसङ्ख्याप्रतीतिः स्यान्न पञ्चविंशतिसङ्ख्याप्रतीतिः ।
तृतीयमुत्थापयति
नन्विति ।
पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वेऽपि पञ्चत्वान्वयात्पञ्चविंशतित्वप्रतीतिरित्यर्थः ।
दृष्टान्तवैषम्येण परिहरति
नेति ब्रूम इति ।
पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधानात्समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्सङ्ख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति । आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः । भेदो विशेषणम् ।
ननु जनानां निराकाङ्क्षत्वेऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते
भवदपीति ।
नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जनन्यायविरोध उक्त इति परिहरति
तत्र चेति ।
एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे
अतिरेकाच्चेत्यादिना ।
अतिरेक आधिक्यम् ।
जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह
अर्थान्तरेति ।
तथाकाशं विकल्प्य दूषयति
तथेति ।
उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथगुक्तिवैयर्थ्यात् , यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात् , 'नेह नानास्ति' इति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् ।
किं च पञ्चविंशतिसङ्ख्याप्रतीतावपि न साङ्ख्यतत्त्वानां ग्रहणमित्याह
कथं चेति ।
किं जनशब्दात्तत्त्वग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह
जनेति ।
न द्वितीय इत्याह
अर्थान्तरेति ।
किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति
कथमिति ।
पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह
उच्यत इति ।
विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेनोत्तरपदेन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समासस्तत्पुरुषभेदः ॥ ११ ॥
पञ्चजनशब्दस्य संज्ञात्वमुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति
के पुनस्त इति ।
श्रुतौ उतशब्दोऽप्यर्थः । ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः ।
पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते
कथं पुनरिति ।
यथा तव तत्त्वेषु जनशब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह
तत्त्वेष्विति ।
तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह
समाने त्विति ।
संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः । न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः ।
लक्षणाबीजं सम्बन्धमाह
जनेति ।
जनः पञ्चजन इति पर्यायः ।
पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह
जनवचनश्चेति ।
ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह
समासेति ।
यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः ।
पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति
कथमिति ।
'स्युः पुमांसः पञ्चजनाः' इत्यमरकोशादौ प्रयोगोऽस्त्येव, तदभावमङ्गीकृत्याप्याह
शक्येति ।
जनसम्बन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता । इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् ।
सङ्गृहीतं विवृणोति
प्रसिद्धेत्यादिना ।
'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तःयजेत यागेनेष्टं भावयेदित्यर्थः । ततश्चोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादप्रकृतज्योतिष्टोमे गुणविध्ययोगात् , तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसम्बन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् । तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते । तथा प्रसिद्धार्थकप्राणादिशब्दसमभिव्याहारात्पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः ।
एकदेशिनां मतद्वयमाह
कैश्चिदित्यादिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।
श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह
क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तम् , घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहेऽपि न विरोध इत्यर्थः ।
सूत्रविरोधमाशङ्क्याह
आचार्यस्त्विति ।
अतः साङ्ख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः ॥ १२ ॥
शङ्कोत्तरत्वेन सूत्रं गृह्णाति
भवेयुरिति ।
ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः ।
नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वयेऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते
कथं पुनरिति ।
आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह
सिद्धान्तीअपेक्षेति ।
यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः । ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् । सत्यम् । अत्रापि शाखाभेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् ।
उक्तं प्रधानस्याशब्दत्वमुपसंहरति
तदेवमिति ।
तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह
स्मृतीति ॥ १३ ॥