अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अनारब्धाधिकरणम्

अनारब्धकार्ये एव तु ।

उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्य­वि­शे­ष­श्रु­ते­स्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
पूर्वयोरिति ।
जीव­न्मु­क्त्य­सि­द्धि­स्त­त्सि­द्धि­श्चे­त्यु­भ­यत्र फलम् ।

पूर्व­सि­द्धा­न्त­न्या­येन पूर्व­प­क्ष­प्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रार­ब्धा­न्य­क­र्म­वि­ष­ये­त्य­प­वादं सिद्धान्यति -
एवमिति ।
सामि­श­ब्दोऽ­र्ध­वा­चकः । प्रार­ब्धा­द्या­वन्न विमुच्यते तावानेव विल­म्ब­स्त­न्मोक्षे ब्रह्म सम्पद्यत इति श्रुत्यर्थः ।

देह­पा­ता­व­धि­लि­ङ्गा­त्त­त्त्व­विदां याज्ञ­व­ल्क्या­दीनां देह­धा­र­ण­श्रु­ति­स्मृ­ति­लि­ङ्गाच्च प्रार­ब्ध­क­र्म­ण­स्त­त्त्व­ज्ञानं प्रति हेतु­त्वे­नो­प­जी­व्य­त्वाच्च प्राब­ल्य­सि­द्धे­स्त­त्प्र­ति­बद्धं तत्त्वज्ञानं तत्सि­द्ध्य­र्थ­म­वि­द्यांशं विक्षे­प­श­क्त्याख्यं विहा­या­व­र­का­वि­द्यांशं नाशयतीत्याह -
उच्यते न तावदिति ।
विक्षे­प­का­वि­द्या­लेश एव तत्संस्कारः ।

शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह -
अपि च नैवेति ॥१५॥