अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वापेक्षाधिकरणम्

अधिकमाह -
सर्वापेक्षा ।
यथा प्रमा­फ­ल­त्वा­द­वि­द्या­नि­वृत्तौ कर्मानपेक्षा तथा प्रमा­त्वा­द्वि­द्या­या­मपि प्रमा­क­र­ण­मा­त्र­सा­ध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः । तत्र विद्यार्थं कर्मा­नु­ष्ठा­ना­सिद्धिः । फलं सिद्धान्ते तत्सिद्धिरिति भेदः । अत्र विवि­दि­षा­या­मि­ष्य­मा­ण­ज्ञाने वा यज्ञादीनां कर्मणां हेतु­त्व­म­पू­र्व­त्वा­द्वि­धी­यते । प्रमाया अप्यु­त्प­त्ति­प्र­ति­ब­न्ध­क­दु­रि­त­क्ष­या­ख्य­शु­द्धि­द्वारा कर्म­सा­ध्य­त्व­सं­भ­वात् । नच पारंपर्ये तृती­या­श्रु­ति­वि­रोधः । ज्वालाद्वारा पारंपर्येऽपि काष्ठैः पचतीति प्रयोगात्, द्वार­स्या­व्य­व­धा­य­क­त्वात् । न च शुद्धे­र्द्वा­रत्वे मानाभावः । 'ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति स्मृतेः ।

'अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते' इत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्य­भि­धा­ना­च्चेति सिद्धान्तयति -
इदमिति ।

नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति । तां विष­य­सौ­न्द­र्य­ल­भ्य­त­यो­ल्लङ्घ्य वेदनं चेद्भा­व्य­मु­च्यते तर्हि वेद­न­म­प्यु­ल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह -
विवि­दि­षा­सं­यो­गा­च्चेति ।
इष्यमाणतया विद्यायाः शब्दतः फल­त्व­भा­ना­द­श्रु­त­मोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाक­फ­ल­तृ­प्ति­हे­तु­त्व­प्र­स­ङ्गा­दिति भावः ।

कर्मणां ज्ञानार्थत्वे लिङ्ग­वा­क्या­न्याह -
अथेत्यादिना ।
कश्चिद्वेदभागः साक्षा­द्ब्र­ह्माख्यं पदं ब्रूते । कश्चित्तु ज्ञाना­र्थ­क­र्म­द्वा­रेति मत्वा सर्वे वेदान्ता इत्युक्तम् । स्पष्टमन्यत् ॥२६॥

एवं विद्योत्पत्तौ बहिरङ्गानि कर्मा­ण्यु­क्त्वा­न्त­र­ङ्गा­ण्याह -
शमेति ।

विद्या­स्तु­त्य­र्थ­त्वे­नै­क­वा­क्य­त्व­सं­भवे वर्त­मा­नो­क्ति­भ­ङ्गेन विधि­क­ल्प­न­म­युक्तं विद्या­वा­क्या­द्भे­द­प्र­स­ङ्गात् । अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति परा­भि­प्रा­य­म­नू­द्या­ङ्गी­क­रोति -
तथापि त्विति ।
शमा­दे­रा­व­श्य­क­त्वान्न शब्दमात्रलभ्या विद्येत्यर्थः ।

यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह -
नेति ब्रूम इति ।
अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमा­दि­वि­शि­ष्ट­श्र­व­ण­मत्र विधीयते । यदि तुऽलोकमिच्छन्तः प्रव्र­ज­न्तिऽ,ऽ­ज्ञानं पुरस्कृत्य संन्य­से­त्ऽ­इ­त्यादि श्रुतिस्मृतिषु फल­व­त्त्वे­नो­त्प­न्न­सं­न्या­स­स्या­ङ्ग­त्वा­यो­गात्, श्रोतव्य इति विहि­त­श्र­व­णा­नु­वा­दे­ना­ने­क­श­मा­दि­वि­धाने वाक्य­भे­दा­पा­तात्, पश्येदिति च प्रकृत्या श्रव­ण­ल­क्ष­णा­दो­षाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्राग­नु­ष्ठो­य­त्वेऽपि श्रव­ण­व­ज्ज्ञा­नार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमा­दि­स­मु­च्च­य­वि­धि­रि­त्य­न­व­द्यम् ।

यः पूर्वं यज्ञादिश्रुतेः स्तुत्य­र्थ­त्वा­ङ्गी­कारः आपाततो गुड­जि­ह्वि­का­न्या­येन शमा­दि­स्वी­का­रार्थं कृतस्तमिदानीं त्यजति -
यज्ञादीन्यपीति ।
यज्ञादीनां विद्या­सा­ध­न­त्व­रू­प­सं­यो­ग­स्या­पू­र्व­त्वा­द­वा­न्त­र­वा­क्य­भे­देन विधिः स्वीक्रियत । ब्रह्म­वि­द्या­वा­क्येन महा­वा­क्यै­क­वा­क्यता चेत्यर्थः ।

पर­म­प्र­क­र­णेऽ­प्य­वा­न्त­र­वि­धि­रि­त्यत्र पूर्व­त­न्त्र­सं­म­ति­माह -
तस्मात्पूषेति ।
दर्श­पू­र्ण­मा­स­प्र­क­रणे श्रुतं पूषा प्रपिष्टभाग इति । तत्र पूषा देवता पिष्टभागो वा दर्श­पू­र्म­मा­स­यो­र्नास्ति । अतः समा­सा­त्प्र­ती­तस्य काल­त्र­या­न­व­मृ­ष्टस्य द्रव्य­दे­व­ता­सं­ब­न्ध­स्या­वि­ना­भा­वेन याग­वि­ध्यु­प­स्था­प­क­त्वा­त्प्र­यो­ग­ज्ञा­नाय विधि­प­द­म­ध्या­हृत्य प्रक­र­णा­दु­त्क­र्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः । पौष्णं पेषणमिति सूत्रे विचा­रि­त­मि­त्यर्थः ।

'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्याद्याः स्मृत्यः । कर्मणां ज्ञानहेतुत्वे शमा­दि­व­द्या­व­ज्ज्ञा­नो­द­य­म­नु­वृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह -
तत्रापीति ।
दृष्ट­वि­क्षे­प­नि­वृ­त्ति­द्वारा शमादीनां शाना­र्थ­त्वा­द­नु­वृ­त्तिर्न कर्म­णा­म­दृ­ष्ट­द्वारा ज्ञाना­र्थ­त्वा­दिति भावः ॥२७॥