भाष्यरत्नप्रभाव्याख्या
प्रकृत्यधिकरणम्
प्रकृतिश्चेति । लक्षणसूत्रेणास्य सङ्गतिं वक्तुं वृत्तं स्मारयति
यथेति ।
तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तम् , तेन बुद्धिस्थे ब्रह्मणि कृत्स्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति । विशेषजिज्ञासायमिदमारभ्यते । तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य सङ्गतिः । यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् । लक्षणसूत्रस्याध्यायादिसङ्गतत्वादस्याप्यध्यायादिसङ्गतिः ।
पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तम् , तदयुक्तम् , कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति
तत्र निमित्तेत्यादिना ।
पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम्
ईक्षापूर्वकेति ।
ईक्षणश्रुत्या कर्तृत्वं निश्चितम् , तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात् , यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः ।
जगत्भिन्नकर्त्रुपादानकम् , कार्यत्वात्घटवदित्याह
अनेकेति ।
ब्रह्म नोपादानम् , ईश्वरत्वात् , राजादिवदित्याह
ईश्वरत्वेति ।
जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह
कार्यं चेति ।
निष्कलं निरवयवम् , निष्क्रियमचलम् , शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् । तत्र हेतुः
निरञ्जनमिति ।
अञ्जनतुल्यतमःशून्यमित्यर्थः ।
तर्हि जगतः सदृशोपादानं किमित्यत आह
पारिशेष्यादिति ।
ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति
प्रकृतिश्चेति ।
चकारान्निमित्तत्वग्रहः ।
एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह
एवमिति ।
कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह
निमित्तकारणाव्यतिरेकस्त्विति ।
मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह
दृष्टान्तोऽपीति ।
वागारभ्यं नाममात्रं विकारो न वस्तुतोऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः ।
गतिसामान्यार्थं मुण्डकेऽपि प्रतिज्ञादृष्टान्तावाह
तथान्यत्रापीति ।
बृहदारण्यकेऽपि तावाह
तथात्मनीति ।
घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरेकेण विकारा न सन्तीति सोऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते । हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् । सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति । अतः शब्दसामान्यग्रहणग्राह्या विशेषाः सामान्ये कल्पिताः, तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः ।
प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह
यत इति ।
'यतो वा' इत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः । जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः । संज्ञायाः फलं 'अपादाने पञ्चमी' इति सूत्रात्प्रकृतौ पञ्चमीलाभः ।
एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति
निमित्तत्वमिति ।
ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयम् , प्रकृतित्वात् , मृदादिवदित्याद्यनुमानानामागमबाधकमाह
प्रागुत्पत्तेरिति ।
जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति
अधिष्ठात्रन्तरेति ॥ २३ ॥
एकस्योभयरूपं कारणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति
कुतश्चेत्यादिना ।
अभिध्या सृष्टिसङ्कल्पः ॥ २४ ॥
अभ्युच्चयो
हेत्वन्तरम् । आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानमग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ॥ २५ ॥
आत्मसम्बन्धिनी कृतिरात्मकृतिः । सम्बन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च । ननु कृतेराश्रयःसिद्धोभवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते
कथं पुनरिति ।
यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह
परिणामादिति ।
आत्मानमिति ।
अविरोध इति शेषः ।
सिद्धस्यापि साध्यत्वे दृष्टान्तमाह
विकारात्मनेति ।
ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्योऽस्त्वित्यत आह
स्वयमिति चेति ।
ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे
पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् , त्यत्परोक्षं भूतद्वयम् , निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः । अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, 'तदनन्यत्वम्' इति विवर्तवादस्य वक्ष्यमाणत्वात् ॥ २६ ॥
योनिशब्दाच्च प्रकृतित्वमित्याह
योनिश्चेति ।
कर्तारं क्रियाशक्तिमन्तम् , ईशं नियन्तारम् , पुरुषं प्रत्यञ्चम् , ब्रह्म पूर्णम् , योनिं प्रकृतिम् , धीरा ध्यानेन पश्यन्तीत्यर्थः ।
नन्वनुपादानेऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह
स्त्रीयोनेरिति ।
शोणितमवयवशब्दार्थः ।
योनिशब्दस्य स्थानमप्यर्थो भवति सोऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह
क्वचिदिति ।
हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः ।
पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह
यत्पुनरित्यादिना ।
नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह
नहीति ।
जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतोऽनुमानासम्भवात् । अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः ।
यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह
पुनश्चेति ।
'न विलक्षणत्वात्' इत्यारभ्येत्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७ ॥