अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रमिताधिकरणम्

शब्दादेव प्रमितः । काठकवाक्यं पठति
अङ्गुष्ठेति ।

पुरुषः पूर्णोऽ­प्या­त्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठ­ती­त्य­ङ्गु­ष्ठ­मात्र इत्युच्यते, तस्यैव पर­मा­त्म­त्व­वा­दि­वा­क्या­न्त­र­माह
तथेति ।
अधूमकमिति पठनीयम् ।

योऽङ्गु­ष्ठ­मात्रो जीवः स वस्तुतो निर्धू­म­ज्यो­ति­र्व­न्नि­र्म­ल­प्र­का­श­रूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह
ईशान इति ।

तस्या­द्वि­ती­य­त्व­माह
स एवेति ।
कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।

परि­मा­णे­शा­न­श­ब्दाभ्यां संशयमाह
तत्रेति ।

यथा­नु­भा­ना­दि­लि­ङ्गा­त्णि­ज­ध्या­ह­रेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथ­म­श्रु­त­प­रि­मा­ण­लि­ङ्गा­ज्जी­व­प्र­ती­ता­वी­शा­नोऽ­स्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति
तत्र परिमाणेति ।
पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्य­ग्ब्र­ह्मै­क्य­ज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः ।

कयाचिदिति ।
अङ्गु­ष्ठ­मा­त्र­हृ­द­यस्य विज्ञा­न­श­ब्दि­त­बु­द्ध्य­भे­दा­ध्या­स­क­ल्प­न­ये­त्यर्थः ।

स्मृति­सं­वा­दा­द­प्य­ङ्गु­ष्ठ­मात्रो जीवैत्याह
स्मृतेश्चेति ।
अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्त­मि­त्यर्थः ।

तत्रापीश्वरः किं न स्यादित्यत आह
नहीति ।
'प्रभवति संयमने ममापि विष्णुः’ इति यम­स्ये­श्व­र­नि­य­म्य­त्व­स्म­र­णा­दिति भावः ।

भूत­भ­व्य­स्वे­त्यु­प­प­दा­द्बा­ध­का­भा­वाच्च ईशान इती­श­त्व­श­ब्दा­न्नि­र­ङ्कु­श­मी­शिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्धान्तयति
परमात्मैवेति ।

प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह
एतदिति ।
शब्दो वाक्यं लिङ्गा­द्दु­र्ब­ल­मि­त्या­श­ङ्क्या­ह­श­ब्दा­दिति ॥ २४ ॥

करः सकनिष्ठोऽरत्निः । मुख्या­ङ्गु­ष्ठ­मात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह
न चान्य इति ।
सति सम्भवे मुख्यग्रहो न्याय्यः । अत्र तु श्रुति­वि­रो­धा­द­स­म्भव इति गौणग्रह इत्यर्थः ।

मनुष्यानेवेति ।
त्रैव­र्णि­का­ने­वे­त्यर्थः । शक्त­त्वा­दि­त्य­नेन पश्वादीनां देवानामृषीणां चाधिकारो वारितः । तत्र पश्वादीनां शास्त्रा­र्थ­ज्ञा­ना­दि­सा­म­ग्र्य­भा­वा­त्क­र्म­ण्य­शक्तिः । इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्य­त्या­गा­यो­गा­द­शक्तिः । ऋषी­णा­मा­र्षे­य­व­रणे ऋष्य­न्त­रा­भा­वा­द­शक्तिः । अर्थि­त्वा­दि­त्य­नेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः । तत्र मुमुक्षूणां शुद्ध्यर्थित्वे नित्या­दि­ष्व­धि­कारो न काम्येषु । शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्ज­के­ष्व­धि­कारो न कर्मस्विति मन्तव्यम् ।

शूद्रस्याधिकारं निरस्यति
अप­र्यु­द­स्त­त्वा­दिति ।
शूद्रो 'यज्ञेऽ­व­न­कॢप्तः' इति पर्युदासात् , 'उपनयीत तम­ध्या­प­यीत' इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः । तस्यै­क­जा­ति­त्व­स्मृ­ते­रू­प­न­य­न­प्र­यु­क्त­द्वि­जा­ति­त्वा­भा­वेन वेदा­ध्य­य­ना­भा­वात् ।

अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह
वर्णितमिति ।
'स्वर्ग­कामो यजेत’ इत्या­दि­शा­स्त्र­स्या­वि­शे­षेण सर्वा­न्फ­ला­र्थिनः प्रति प्रवृत्तत्वात् , प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वा­दी­ना­म­प्य­धि­कार इत्या­श­ङ्क्यो­क्त­री­त्या­तेषां शक्त­त्वा­द्य­भा­वा­त्स्व­र्ग­का­म­पदं मनुष्यपरतया सङ्कोच्य मनु­ष्या­धि­का­रत्वे स्थापिते चातु­र्व­र्ण्या­धि­का­रि­त्व­मा­शङ्क्य 'वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धीत ग्रीष्मे राजन्यः शरदि वैश्यः' इति त्रया­णा­मे­वा­ग्नि­स­म्ब­न्ध­श्र­व­णा­त्ते­षा­मे­वा­धि­कार इति वर्णितमित्यर्थः ।

अस्तु, प्रस्तुते किमायातम् , तत्राह
मनुष्याणां चेति ।
प्रायेण सप्त­वि­त­स्ति­प­रि­मितो मनुष्यदेह इत्यर्थः ।

एवमङ्गुष्ठशब्दो हृत्प­रि­मा­ण­वा­च­क­स्त­त्रस्थं ब्रह्म लक्ष­य­ती­त्यु­क्तम् । सम्प्रति तच्छ­ब्दे­ना­ङ्गु­ष्ठ­मात्रं जीव­म­नू­द्या­य­मी­शान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति
यदपीति ।

प्रति­पा­द्या­भे­द­वि­रो­धा­द­नु­वा­द्या­ङ्गु­ष्ठ­मा­त्रत्वं बाध्यम् , तात्पर्यार्थस्य बल­व­त्त्वा­दि­त्याह
तदिति ।
क्वचित् 'अस्थू­लम्' इत्यादौ । क्वचित् 'तत्त्व­मसि' इत्यादौ । [ननु पर­मा­त्म­नोऽ­ङ्गु­ष्ठ­प­रि­मा­णत्वं न सम्भवतीति सूत्रकारेण हृद­या­पे­क्ष­म­ङ्गु­ष्ठ­मा­त्र­त्व­मु­क्तम् , द्विवि­धे­त्या­दि­भा­ष्यात्तु जीवमुद्दिश्य ब्रह्म­त्व­बो­ध­न­मिति प्रतीयत इति सूत्रा­र्था­स्प­र्शि­त्वा­द्भा­ष्य­म­नु­प­प­न्न­मिति चेत् , न, भाष्य­ता­त्प­र्या­न­भि­ज्ञा­नात् । कठ­व­ल्ली­वा­क्य­स्या­वा­न्त­र­ता­त्प­र्य­मेकं महातात्पर्यं चैकम् । तत्रा­वा­न्त­र­ता­त्प­र्य­मु­पास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि । अत एव भाष्य­का­रै­र्वा­क्य­द्व­यो­प­न्या­सः­कृतः । अत एवोपासनाफलं कठवल्ल्यामेव 'शतं चैका च हृदयस्य नाड्यः' इत्यादिना बोधितम् । अत एव चतुर्थाध्याये द्वितीयचरणे 'तदोकः' इति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् । इत्थं चात्रत्यभाष्यं महा­ता­त्प­र्या­भि­प्रा­य­क­मिति द्रष्टव्यम् । रामा­नु­ज­भा­ष्य­कृता तु पूर्व­प­क्षोऽ­स्म­द्भा­ष्य­ता­त्प­र्या­ज्ञा­ने­नैव कृत इत्यवधेयम् । ]

एकत्वार्थे वाक्य­शे­ष­म­नु­कू­ल­यति
एतमिति ।
श्रुतिर्यमो वा द्रष्टव्यः । तं जीवं प्रवृ­हे­त्पृ­थ­क्कु­र्यात् , धैर्येण बल­व­दि­न्द्रि­य­नि­ग्र­हा­दिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात्कठवाक्यं प्रत्य­ग्ब्र­ह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥ २५ ॥