अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

विधुराधिकरणम्

अन्तरा चापि तु तद्दृष्टेः ।
अनाश्रमिणां जपा­दि­क­र्म­स­त्त्वा­न्नि­न्दि­त­त्वाच्च संशये सति आश्रमकर्मणामेव विद्या­हे­तु­त्व­श्रु­ते­र­ना­श्र­मस्य निन्दि­त­त्वा­च्चा­न­धि­कार इति पूर्वपक्षः । तत्रा­ना­श्र­म­क­र्मणां विद्या­हे­तु­त्वा­सिद्धिः । सिद्धान्ते तत्सिद्धिरिति फलम् ॥३६ ॥ ॥३७॥

रैक्वादीनां विद्या­व­त्त्व­लि­ङ्गस्य जन्मा­न्त­रा­श्र­म­क­र्म­णा­न्य­था­सि­द्धे­र­ना­श्र­म­क­र्मणो विद्या­र्थ­त्व­प्रा­पकं मानान्तरं वाच्यमिति शङ्कते -
ननु लिङ्गमिति ।

अना­श्र­मि­त्वा­वि­रु­द्धानां वर्ण­मा­त्र­प्रा­प्त­ध­र्माणां विद्यार्थत्वे मानमाह -
तथा चेति ।
मैत्रो दयावानित्यर्थः ।

नन्वनाश्रमिणां कर्म भवतु विद्या­हे­तु­स्त­थापि तेषां न श्रवणादावधिकारः संन्या­सा­भा­वा­दि­त्यत आह -
दृष्टार्था चेति ।
बन्ध­का­ज्ञा­न­ध्व­स्ति­फ­ल­क­वि­द्या­का­मस्य श्रवणेऽधिकारः । संन्यासोऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्य­न­ङ्ग­त्वा­दिति भावः ॥३८॥

तर्ह्या­श्र­मित्वं वृथेत्यत आह -
अतस्त्विति ।
पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नो­ती­त्यर्थः ॥ अत्र पुण्य­कृ­त्त्व­लि­ङ्गा­दा­श्र­मित्वं ज्यायः पुण्योपचये शीघ्रं विद्या­ला­भा­द­ना­श्र­मस्य निन्दि­त­त्वा­च्चेति भावः ॥३९॥