अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

नातिचिराधिकरणम्

नातिचिरेण ।

उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिरा­चि­र­ग­ति­द­र्श­ना­त्सं­शयं वदन् पूर्वपक्षयति -
तत्रेत्यादिना ।
अनि­य­मा­त्क­दा­चि­द्वि­ल­म्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहि­य­वा­दि­भा­वा­द­नु­श­यिनां विलम्बेन निर्गमनमिति विशे­षा­दा­का­शा­दि­भा­वा­च्छीघ्रं निर्गम इत्यविलम्बेन योन्या­प­त्ति­रि­त्य­नु­सं­धा­ना­द्वै­रा­ग्य­दा­र्ढ्य­मिति विवेकः ।

नन्वा­का­शा­दि­ष्व­नु­श­यिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिरा­चि­र­नि­र्ग­म­न­मि­त्यत आह -
सुख­दुः­ख­ता­वि­शे­ष­श्चा­य­मिति ।
अवधिः कालः ॥२३॥