अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वागादिलयाधिकरणम्

तानि परे तथाह्याह ।
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणा­दी­ना­म­त्रैव लय उक्तः । तमुपजीव्य स किं तत्त­त्क­ला­प्र­कृ­तिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुति­द्व­य­द­र्श­ना­त्सं­शयः कार्यः ।

तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया 'गताः कलाः' इति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह -
तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्म­द्र­ष्टु­रिमाः प्राण­श्र­द्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः । मनः­प्रा­ण­यो­रे­की­क­र­णेन कलानां पञ्चदशत्वम् । प्रतिष्ठा इति द्विती­या­ब­हु­व­च­नम् । स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः । वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालयेऽपि लोकदृष्ट्या प्रतिष्ठासु लयो­क्ति­र­वि­रुद्धा । तथा च कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुति­द्व­य­ता­त्प­र्यम् ॥१५॥