अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अभावाधिकरणम्

एवकारवन्मनसेति विशे­ष­णे­ना­न्य­यो­ग­व्य­व­च्छे­दा­द्दे­हा­द्य­भाव इति पूर्वपक्षयति -
अभावं बादरिराह ह्येवम् ।
अत्रापि वादि­वि­वा­दा­त्सं­शयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः । कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः । फलं तु तत्त­च्छ्रु­ते­र्मु­ख्य­त्व­मिति विवेकः ॥१० ॥ ॥११॥

द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्यु­पा­यि­चो­द­ना­ग­म्य­त्व­श्रु­ते­र्द्वा­द­शा­हस्य सत्रत्वम् , आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः । तथा द्वादशाहेन प्रजाकामं याजयेदिति यज­ति­चो­द­ना­द­र्श­ना­न्नि­य­त­क­र्तृ­क­त्वा­व­ग­मेन द्विरा­त्रा­दि­व­द­ही­नत्वं चेत्यर्थः ॥१२ ॥ ॥१३ ॥ ॥१४॥