भाष्यरत्नप्रभाव्याख्या
कामाद्यधिकरणम्
कामादीतरत्र ।
सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्येऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति -
तत्रेदमित्यादिना ।
एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह -
गुणवतस्त्विति ।
भिन्नविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् । यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कानिरासेनान्तर्भावदार्ढ्यार्थत्वादित्यनवद्यम् ॥३९॥