अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

कामाद्यधिकरणम्

कामादीतरत्र ।

सगु­ण­नि­र्गु­ण­वि­द्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एक­त्वा­द्गु­ण­सां­क­र्येऽ­प्यत्र विद्ययोः सगु­ण­नि­र्गु­ण­रू­प­भे­देन भेदा­न्नि­र्गु­ण­वि­द्यायां गुणोपसंहारस्य फला­भा­वा­च्चा­नु­प­सं­हार इति बहिरेव प्राप्ते सिद्धान्तयति -
तत्रे­द­मि­त्या­दिना ।

एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह -
गुणवतस्त्विति ।
भिन्न­वि­द्या­स्था­ना­मपि गुणा­ना­मा­य­त­ना­दि­सा­म्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्य­र्थ­मु­प­सं­हारो युक्तः, ज्ञान­स्तु­ति­प्र­क­र्ष­स्या­का­ङ्क्षि­त­त्वात्, यत्र क्वचि­द्दृ­ष्ट­गुणैः स्तुतेः कर्तुं योग्यत्वात् । यद्यपि सगु­ण­स्थ­स­त्य­का­मा­दिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोप­सं­हा­रो­क्ते­र्वै­यर्थ्यं निर्गु­ण­स्ता­व­क­त्वेन श्रुत­गु­णा­ना­म­न्य­त्रा­प्य­ध्ये­य­त्व­मिति शङ्का­नि­रा­से­ना­न्त­र्भा­व­दा­र्ढ्या­र्थ­त्वा­दि­त्य­न­व­द्यम् ॥३९॥