अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

इतरव्यपदेशाधिकरणम्

जीवाभिन्नं ब्रह्म जग­त्का­र­ण­मि­ति­व­द­न्वे­दा­न्त­स­म­न्वयो विषयः । स यदि तादृ­ग्ब्र­ह्म­ज­ग­ज्ज­न­ये­त्तर्हि स्वानिष्टं नरकादिकं न जन­ये­त्स्व­त­न्त्र­चे­त­न­त्वा­दिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वो­क्त­जी­वा­न­न्य­त्व­मु­प­जीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे -
इत­र­व्य­प­दे­शा­दि­त्या­दिना ।
पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् । हिताकरणेत्यत्र नञ्व्य­त्या­से­ना­हि­त­क­रणं दोषो व्याख्यातः ।

आदिपदोक्तं भ्रान्त्या­दि­क­मा­पा­द­यति -
न च स्वयमित्यादिना ॥२१॥

जीवे­श­यो­र­भे­दा­ज्जी­व­ज­ग­ते­र्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टि­सं­हा­र­श­क्ति­स­र्व­स्म­र्तृ­त्वा­दयो गुणा जीवे स्युः । न चेष्टापत्तिः । जीवस्य स्वशरीरेऽपि संहा­र­सा­म­र्थ्या­द­र्श­ना­दिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
जीवे­श्व­र­यो­र्लोके बिम्ब­प्र­ति­बि­म्ब­यो­रिव कल्पि­त­भे­दा­ङ्गी­का­रा­द्ध­र्म­व्य­व­स्थेति सिद्धा­न्त­ग्र­न्थार्थः । यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते न तु तं ब्रूम इत्यन्वयः ।

किञ्चा­भे­दा­ज्ञा­ना­दूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा । नाद्य इत्याह -
अपि चेति ।

उक्तं मिथ्या­ज्ञा­न­वि­जृ­म्भि­तत्वं स्फुटयति -
अविद्येति ।

कर्तृ­त्वा­दि­बु­द्धि­ध­र्मा­ध्यासे देहधर्माध्यासं दृष्टान्तयति -
जन्मेति ।

द्वितीयं प्रत्याह -
अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृ­त्वा­दि­ध­र्माणां बाधात्पूर्वं च कल्पितभेदेन व्यव­स्थो­प­प­त्तेर्न किञ्चि­द­व­द्य­मि­त्यर्थः ॥२२॥

नन्वखण्डैकरूपे ब्रह्मणि कथं जीवे­श्व­र­वै­चि­त्र्यम् , कथं च तत्का­र्य­वै­चि­त्र्य­मि­त्य­नु­प­पत्तिं दृष्टान्तैः परिहरति सूत्रकारः -
अश्मादिवच्चेति ।
किम्पाको महातालफलम् । तत्त­त्का­र्य­सं­स्का­र­रू­पा­ना­दि­श­क्ति­भे­दा­द्वै­चि­त्र्य­मिति भावः ।

सूत्र­स्थ­च­का­रा­र्थ­माह -
श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत् , जीवाभिन्नत्वात् , जीव­व­दि­त्या­द्य­नु­मानं स्वतः­प्र­मा­ण­नि­र­व­द्य­त्वा­दि­श्रु­ति­बा­धि­तम् । किञ्च कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­का­रस्य मिथ्या­त्वा­ज्जी­व­स्यैव तावद्दोषो नास्ति कुतो बिम्ब­स्था­नी­य­स्या­शे­ष­वि­शे­ष­द­र्शिनः परमेश्वरस्य दोषप्रसक्तिः । यत्तु ब्रह्म न विचि­त्र­का­र्य­प्र­कृति, एकरूपात्वात् , व्यतिरेकेण मृत्त­न्त्वा­दि­व­दिति । तन्न । एकरूपे स्वप्नदृशीव विचि­त्र­दृ­श्य­व­स्तु­वै­चि­त्र्य­द­र्श­नेन व्यभि­चा­रा­दि­त्यर्थः । तस्मा­त्प्र­त्य­ग­भिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२३॥