भाष्यरत्नप्रभाव्याख्या
इतरव्यपदेशाधिकरणम्
जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः । स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत्स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे -
इतरव्यपदेशादित्यादिना ।
पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् । हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः ।
आदिपदोक्तं भ्रान्त्यादिकमापादयति -
न च स्वयमित्यादिना ॥२१॥
जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः । न चेष्टापत्तिः । जीवस्य स्वशरीरेऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः । यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते न तु तं ब्रूम इत्यन्वयः ।
किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा । नाद्य इत्याह -
अपि चेति ।
उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति -
अविद्येति ।
कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति -
जन्मेति ।
द्वितीयं प्रत्याह -
अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात्पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः ॥२२॥
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यम् , कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः -
अश्मादिवच्चेति ।
किम्पाको महातालफलम् । तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः ।
सूत्रस्थचकारार्थमाह -
श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत् , जीवाभिन्नत्वात् , जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् । किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः । यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात् , व्यतिरेकेण मृत्तन्त्वादिवदिति । तन्न । एकरूपे स्वप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः । तस्मात्प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२३॥