भाष्यरत्नप्रभाव्याख्या
सर्वाभेदाधिकरणम्
सर्वाभेदादन्यत्रेमे ।
विषयं वक्तुं संमतमर्थमाह -
वाजिनामिति ।
वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् । चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् । श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः । मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् । ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोऽर्थः ।
विषयमाह -
अन्येषामित्यादिना ।
निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । देवता वागादयोऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः ।
एवंशब्दाच्छ्रैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह -
तत्रेति ।
गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् ।
उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति -
तत्र प्राप्तमिति ।
यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः ।
एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति -
अस्येरन्निति ।
वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह -
तथापीति ।
कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं स्पष्टयति -
न चैवं सतीति ।
अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह -
न हीति ।
फलितमाह -
तस्मादिति ॥१०॥