अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

परामर्शाधिकरणम्

संन्यासो नास्ती­त्या­क्षि­पति -
परामर्शं जैमिनिरिति ।

ऊर्ध्वरेतः शब्दितं पारि­व्रा­ज्य­म­नु­ष्ठेयं न वेति मान­भ्रा­न्ति­मू­ल­त्वाभ्यां संदेहे भ्रान्ति­मू­ल­त्वा­न्ना­नु­ष्ठे­य­मि­त्याह -
त्रय इति ।
आश्र­मा­णा­म­वा­न्त­र­भे­दा­पे­क्षया बहुवचनम् । तथाच काण्वा­य­न­स्मृ­ति­र­र्थ­तोऽ­नु­क्र­म्यते । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्म­चा­री­च­तु­र्विधः । तत्रो­प­न­य­ना­दूर्ध्वं यस्त्रि­रा­त्र­म­क्षा­रा­ल­व­णाशी गायत्रीमधीते स गायत्रः । यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः । ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेद­व्र­त­कृ­द्व­टुर्वा प्राजापत्यः । आमरणं गुरुकुलवासी नैष्ठिको बृह­न्नि­त्यु­च्यते । गृहस्थोऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोर­सं­न्य­सि­क­श्चेति । तत्र कृषि­गो­र­क्षा­दि­कया वैश्या­दि­वृत्त्या जीव­न्नि­त्या­दि­क्रि­या­परो वार्ताकवृत्तिः । याया­व­र­स्त्व­या­चि­त­वृ­त्ति­र्या­ज­ना­ध्या­प­न­प्र­ति­ग्र­ह­वि­मुखः । शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी । उद्धृ­त­प­रि­पू­ता­भि­रद्भिः कार्यं कुर्वन्प्रत्यहं कृतो­ञ्छ­वृ­त्ति­र्ग्रा­म­वासी घोरसंन्यसिक इत्युच्यते, हिंसा­वि­मु­ख­त्वात् । वानप्रस्थोऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति । तत्रा­कृ­ष्ट­प­च्यौ­ष­धी­भि­र्ग्रा­म­ब­हि­ष्कृ­ता­भि­र­ग्नि­हो­त्रा­दि­कु­र्व­न्वै­खा­नस उच्यते । यस्तु प्रातरुथाय यां दिशं पश्यति तत्र­त्यौ­दु­म्ब­र­ब­द­री­नी­वा­र­श्या­माकैः कर्मपरः स औदुम्बरः । यस्तु जटावल्कलधारी अष्टौ प्रात­सा­न्वृ­त्त्यु­पा­र्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृ­ही­त­पु­ष्प­फ­ल­त्यागी स वालखिल्यः । फेनपास्तु शीर्ण­प­र्ण­फ­ल­वृ­त्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति । तथा परि­व्रा­जा­का­श्च­तु­र्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति । तत्र स्वपुत्रगृहे भिक्षां चर­न्त­स्त्रि­द­ण्डिनः कुटीचकाः । बहूदकास्तु त्रिदण्डिनः शिक्य­ज­ल­प­वि­त्र­पा­दु­का­स­न­शि­खा­य­ज्ञो­प­वी­त­कौ­पी­न­का­षा­य­वे­ष­धा­रा­स्ती­र्था­न्य­टन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते । हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्य­क­म­ण्ड­लु­पा­णयः ग्रामै­क­रा­त्र­वा­सिनः कृच्छ्र­चा­न्द्रा­य­ण­पराः । पर­म­हं­सा­स्त्वे­क­द­ण्ड­धरा मुण्डा अयज्ञोपवीतिनः त्यक्त­स­र्व­क­र्माण आत्मनिष्ठा इति । अत्र पूर्वपक्षे संन्या­सा­भा­वा­ञ्ज्ञा­नस्य स्वत­न्त्र­फ­ल­त्वा­सिद्धिः सिद्धान्ते तद्भा­वा­त्त­त्सि­द्धि­रिति फलभेदः । स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः ।

स्कन्ध­श्रु­ता­वा­श्रमा न विधीयन्ते किन्तु ब्रह्म­सं­स्थ­ता­स्तु­र्थ­म­नू­द्यन्त इत्युक्ते शङ्कते -
ननु परामर्शेऽपीति ।

अनु­वा­दा­पे­क्षि­त­पु­रो­वा­दा­त्प्र­ती­ति­म­ङ्गी­क­रोति -
सत्यमिति ।

प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादोऽस्तु नानुवाद इत्यत आह -
स्मृतीति ।

तयोरपि इयमेव श्रुति­र्मू­ल­मस्तु । कॢप्तश्रुतौ विधि­मा­त्र­क­ल्प­ना­ला­घ­वात् । अस्या अनुवादत्वे तु मूलत्वेन साग्नि­का­न­ग्नि­का­श्र­म­श्रु­ति­स्तत्र विधिश्चेति द्वय­क­ल्प­ना­गौ­र­वा­दि­त्यत आह -
अतश्चेति ।
स्मार्त­त्वा­दा­श्रमाः प्रत्य­क्ष­या­व­ज्जी­व­क­र्म­वि­धि­श्रु­त्य­वि­रुद्धा ग्राह्याः । विरु­द्धा­स्त्व­न­ग्नि­का­श्रमा उपेक्ष्याः कर्मा­न­धि­कृ­तै­र­न्धा­दि­भिर्वा अनुष्ठेया इत्यर्थः । याव­ज्जी­व­श्रु­ति­वि­रो­धा­ल्ला­घवं त्याज्यमिति भावः ।

स्कन्ध­श्रु­ता­व­नु­वा­द्य­त्वा­वि­शे­षा­द्गा­र्ह­स्थ्य­व­दि­त­रे­षा­म­नु­ष्ठे­य­त्व­मा­शङ्क्य तस्य श्रौत­त्वा­द­नु­ष्ठानं नेत­रे­षा­म­श्रौ­त­त्वा­दतो ब्रह्म­सं­स्थ­ता­स्तु­ति­प­र­मिदं स्कन्ध­वा­क्य­मि­त्याह -
नन्वित्यादिना ।
तन्तुं संततिम् ।

तथा ये चेति ।
तेऽर्चि­ष­म­भि­सं­भ­व­न्तीति वाक्य­शे­षा­दि­त्यर्थः ।

स्कन्धशब्दस्य आश्र­मे­ष्व­रू­ढ­त्वा­च्चात्र नाश्र­मि­वि­धि­रि­त्याह -
संदिग्धं चेति ।

तर्हि प्रव्र­ज­न्ती­त्या­श्र­म­वि­धि­री­त्यत आह -
तथैतमिति ।
आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुति­र्व­र्त­मा­ना­प­दे­शा­दि­त्यर्थः ।

संप्रति पूर्व­प­क्ष­मा­क्षि­प्येयं श्रुति­र्ना­स्ती­ति­कृत्वा चिन्त्यत इत्याह -
नन्वित्यादिना ॥१८॥

स्कन्ध­श्रु­ता­वि­त­रा­श्रमाः श्रुत्य­न्त­र­वि­हिता अनूद्यन्ते एत­द्वा­क्या­नु­वा­द्य­त्वा­द्गा­र्ह­स्थ्य­व­दिति सिद्धान्तयति -
अनुष्ठेयमिति ।

अनुवादस्य क्वचि­द्वि­धि­पू­र्व­कत्वे दृष्टान्तमाह -
यथा चेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते । तत्स्तुतये द्वयमनूद्यते । मानुषक्रियासु देहा­र्ध­व­स्त्र­ब­न्ध­ना­ख्य­नि­वी­तस्य सौकर्यार्ततया प्राप्त­त्वा­त्पित्र्ये कर्मणि प्राची­ना­वी­त­स्यापि विध्य­न्त­र­प्रा­प्त­त्वा­दि­त्यर्थः ।

वाक्यान्तरे च साक्षादेव पारि­व्रा­ज्य­वि­धि­र्वि­धेयैः साहित्यादित्याह -
तथैतमेवेति ।
अस्येति पारि­व्रा­ज्योक्तिः । विधे­य­वे­दा­नु­व­च­ना­दि­सा­हि­त्या­त्पा­रि­व्रा­ज्यस्य विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -
ये चेति ।
अस्येति वानप्रस्थोक्तिः । विधे­य­प­ञ्चा­ग्नि­वि­द्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः ।

श्रुत­त्रि­त्वा­न्य­था­नु­प­पत्त्या स्कन्धशब्दस्य आश्र­म­प­र­त्व­नि­श्चय इत्याह -
यत्तू­क्त­मि­त्या­दिना ।

उत्पत्तिभिन्ना इति ।
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः ॥१९॥

स्कन्ध­श्रु­ते­र­नु­वा­द­क­त्व­म­ङ्गी­कृत्य विध्य­न्त­र­क­ल्प­ने­ना­श्रमा अनुष्ठेया इत्युक्तम् । इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह -
विधिर्वेति ।
याव­ज्जी­वा­दि­श्रु­ते­र­वि­र­क्त­वि­ष­य­त्वान्न लाघवबाधकत्वमिति भावः ।

अल्प­फ­ल­त्वे­ना­श्र­म­त्र­य­नि­न्दया ब्रह्म­सं­स्थ­ता­स्तु­ति­प­र­मे­क­मिदं वाक्यं भाति । तत्रा­श्र­म­वि­धि­च­तु­ष्ट­य­म­यु­क्त­मिति शङ्कते -
नन्विति ।

आश्रमाणां विध्य­न्त­र­प्रा­प्त्य­भा­वा­द­नु­वा­दा­यो­गात् । स्तुति­ल­क्ष­णा­दो­षाच्च वरं विस्प­ष्टा­श्र­म­वि­धि­भे­द­क­ल्प­न­म­पू­र्व­त्वा­दि­त्याह -
सत्यमित्यादिना ।

प्रती­तै­क­वा­क्य­त्व­भ­ङ्गेन भेदकल्पने दृष्टान्तमाह -
धारणवदिति ।
महापितृयज्ञे प्रेता­ग्नि­होत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हवि­षःऽ­अ­ध­स्ता­त्स­मिधं धार­य­न्न­नु­द्र­वे­त्ऽ­इति विहि­ता­धो­धा­र­ण­स्ता­व­क­त­यो­परि हीत्य­स्यै­क­वा­क्य­त्व­भा­नेऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधि­रे­वा­पू­र्व­त्वा­दिति वाक्य­भे­द­स्तृ­ती­या­ध्याये जैमि­न्या­चा­र्ये­णोक्त इत्यर्थः ।

एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः । संप्र­त्या­श्र­म­त्र­या­नु­वा­देन पारि­व्रा­ज्य­मे­क­मेव विधीयत इति पक्षान्तरमाह -
यदापीत्यादिना ।

ब्रह्म­सं­स्थ­ता­विधौ कथं पारि­व्रा­ज्य­वि­धि­रि­त्या­शङ्क्य विचारयति -
सा चेति ।

ननु त्रय इति वाक्य आश्र­म­च­तु­ष्ट­य­स्या­प्रा­प्ते­र्नि­र्बी­जोऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्व­प­क्ष­प्रा­प्ति­माह -
यदि चेति ।

नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह -
अनाश्रमित्वेति ।
अनाश्रमी न तिष्ठेतेति निषेधादिति भावः ।

द्वितीये सिद्धा­न्प्रा­प्ति­माह -
अथेति ।

एवं परा­म­र्श­त­द­भा­वाभ्यां संशयमुक्त्वा पूर्वपक्षयति -
तत्रेति ।

वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् । तेनैकेन तपः शब्दे­नो­भ­य­ग्र­ह­ण­म­न्याय्यं भिक्षो­स्त­प­स्वि­त्व­प्र­सि­द्ध्या­भा­वाच्च ॥ तथा च यज्ञा­द्य­सा­धा­र­ण­ध­र्म­द्वारा गृह­स्था­द्या­श्र­म­त्र­य­व­द्ब्र­ह्म­सं­स्थ­श­ब्दे­नैव ब्रह्म­नि­ष्ठा­प्र­धा­न­श्च­तु­र्था­श्रमो गृह्यते । स च स्तुति­सा­म­र्थ्या­त्सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति -
तद­यु­क्त­मि­त्या­दिना ।

पृथ­ग्व्य­प­दे­शाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह -
अपि चेति ।
न चावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् । कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञा­धि­क्य­व­त्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्म­सं­स्था­नु­प­पत्तेः । कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्य­स्म­दि­ष्ट­सि­द्धि­रिति भावः ।

इममेवार्थं स्पष्टयितुं शङ्कते -
कथं पुनरिति ।

यद्यपि ब्रह्म­सं­स्थ­शब्दः संन्यासाश्रमे न रूढस्तथापि योगा­त्त­मे­वो­प­स्था­प­यति । अन्याश्रमेषु यौगि­का­र्था­स­म­वा­या­दि­त्याह -
अत्रोच्यत इति ।

सर्व­क­र्म­त्या­गिनः प्रण­वा­र्थ­ब्र­ह्म­नि­ष्ठा­ति­रे­के­णा­नु­ष्ठेयं नास्तीत्यत्र मानमाह -
तथा चेति ।

न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह -
ब्रह्मा हीति ।
हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति । ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः । तद्बुद्धये ब्रह्म­चि­त्ता­स्त­दा­त्मानो ब्रह्म­स्व­रू­पा­स्त­न्निष्ठाः श्रव­णा­दि­प­रा­स्त­त्प­रा­यणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् ।

एवं ब्रह्म­सं­स्थ­श­ब्दस्य ज्ञान­प्र­धा­ना­श्र­म­वा­चि­त्वा­द­मृ­त­त्व­का­म­स्त्व­मु­मा­श्र­म­म­नु­ति­ष्ठे­दिति विधिः परिणम्यते । अतो न ज्ञाना­न­र्थ­क्य­दोष इत्युपसंहरति -
तस्मादिति ।

संप्रति कृत्वा­चि­न्ता­मु­द्धा­ट­यति -
अनपेक्ष्येति ।
शिष्य­बु­द्धि­वै­श­द्यार्थं स्कन्ध­श्रु­ति­मा­दाय चिन्ता कृतेति भावः ।

यदिवेतरथेति ।
ब्रह्मचर्ये स्थितस्यैव पूर्व­सु­कृ­त­प­रि­पा­का­द्वै­राग्यं यदि स्यादित्यर्थः ।

यदुक्तं कर्मा­न­धि­कृ­ता­न्धा­दि­वि­षयः संन्यास इति तन्नेत्याह -
न चेति ।
सामान्यश्रुतेः संको­च­हे­त्व­भा­वा­दिति भावः ।

पृथगिति ।
संन्यासस्येति शेषः । व्रती गोदा­ना­दि­वे­द­व्र­त­वान् । गुरु­कु­ला­न्नि­वृ­त्ति­रू­प­स्ना­ना­न­न्त­र­म­कृ­त­गा­र्हस्थ्यो गुरुसेवी स्नातकः उत्स­न्ना­ग्नि­र्वि­धुरः अगृ­ही­ता­ग्नि­र­न­ग्निकः प्रव्र­जे­दि­त्य­न्वयः ।

सकलाङ्गानमेव कथ­ञ्चि­त्क­र्मा­न­धि­कृ­तानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञान­प्र­धा­न­सं­न्या­सा­धि­कार इत्याह -
ब्रह्मेति ।
दृष्टि­पू­त­सं­चा­र­श्र­व­णा­दिकं विना ज्ञाना­नु­त्पत्तेः । 'शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि­वि­श्रु­वम्' इत्य­ङ्ग­सा­क­ल्य­प्रा­र्थ­ना­लि­ङ्गाच्च नान्ध­प­ङ्गु­मू­क­ब­धि­र­दी­ना­म­धि­कार इत्यर्थः ।

तच्चेति ।
पारिव्राज्यस्य ब्रह्म­ज्ञा­ना­ङ्गत्वं चेत्यर्थः । ब्रह्मभूयाय ब्रह्म­सा­क्षा­त्का­रा­येति यावत् ॥२०॥