अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्राणश्रैष्ठ्याधिकरणम्

श्रेष्ठश्च ।

अतिदेशत्वान्न सङ्ग­त्या­द्य­पेक्षा । 'तथा प्राणाः' इत्यु­क्त­न्या­योऽ­त्रा­ति­दि­श्यते । ननु प्राणो जायते न वेति संश­या­भा­वा­द­ति­देशो न युक्त इत्याक्षिपति -
किमर्थ इति ।

निश्चि­त­म­हा­प्र­लये प्राण­स­द्भा­व­श्रु­त्या­धिकां शङ्कामाह -
नासदासीये हीति ।
'नास­दा­सीत्' इत्यारभ्याधीत इत्यर्थः । तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत् , अमृतं च देवभोग्यं नासीत् , रात्र्याः प्रके­त­श्चि­ह्न­रू­प­श्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्ताम् , स्वधया सहेत्यन्वयः । पितृभ्यो देयमन्नं स्वधा । यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मा­नी­दा­सी­दिति परमार्थः । अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः । तस्माद्ब्रह्मणः परः पर­मु­त्कृ­ष्ट­म­न्यच्च किमपि न बभूवेत्यर्थः । परिहारः सुबोधः ।

ननु श्रेष्ठशब्दस्य प्राणे प्रसि­द्ध्य­भा­वा­त्कथं सूत्रमिति, तत्राह -
श्रेष्ठ इति चेति ।

श्रुतिं व्याचष्टे -
ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् । न सम्भ­वे­त्त­द्गर्भो न भवेदित्यर्थः । वागा­दि­जी­व­न­हे­तुत्वं प्राणस्य गुणः । एव­मा­नी­च्छ्रु­त्य­वि­रो­धा­त्प्रा­णो­त्प­त्ति­श्रु­तीनां ब्रह्मणि समन्वय इति सिद्धम् ॥८॥