भाष्यरत्नप्रभाव्याख्या
आसृत्युपक्रमाधिकरणम्
एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता । सा च सर्वप्राणिषु तुल्येत्याह -
समाना चानुपोष्य ।
'पुरुषस्य प्रयतो वाङ्मनसि' इत्यविशेषश्रुतेः 'विद्ययामृतमश्नुते' इति श्रुतेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दिहानानामित्यर्थः । पूर्वपक्षे सगुणब्रह्मविदसम्बन्धित्वमुत्क्रान्तेर्विशेषः साध्यते । ततोऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलम् , सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।
पूर्वपक्षमाक्षिप्य समाधत्ते -
ननु विद्येत्यादिना ।
विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा । न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधोऽपि तद्विषयः । अतः सगुणविदोऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति -
एवमिति ।
सृतिर्मार्गस्तस्योपक्रमोऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः ।
यत्तु दहरोपासकस्यामृतत्वं श्रुतं 'तयोर्ध्वमायन्नमृतत्वमेति' इति तदापेक्षिकमेव न मुख्यं 'यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति' इति भोगश्रवणादित्याह -
अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥७॥