अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

दक्षिणायनाधिकरणम्

एवं दक्षिणायने मृतो विद्वा­न्वि­द्या­फ­ल­मा­प्नोति न वेति विद्याया नित्य­व­त्फ­ल­श्रु­ते­रु­त्त­रा­य­ण­प्रा­श­स्त्य­शा­स्त्राच्च सन्देहे पूर्वो­क्त­हे­तू­न­ति­दि­शति -
अतश्चायनेऽपि दक्षिणे ।

पूर्व­प­क्ष­मा­श­ङ्क्या­प­नु­दति -
उत्त­रा­य­णे­त्या­दिना ।
अज्ञा­ना­मु­त्त­रा­यणे दैवान्मरणं चेत्प्र­श­स्त­मि­त्य­भि­ज्ञा­भि­व­च­न­रू­पा­चा­र­प­रि­पा­ल­नार्थं भीष्मस्य प्रतीक्षा । षण्मासानिति श्रुति­स्तू­त्त­रा­य­ण­दे­व­ता­प­रेति वक्ष्यते । तथा च देवतायाः सदा सत्त्वा­द्वि­द्यया दक्षि­णा­य­न­का­लेऽपि तत्प्रा­प्ति­र­वि­रु­द्धेति भावः ॥२०॥

स्मृति­ब­ला­त्का­ल­प्रा­धान्यं शङ्कते -
ननु चेति ।

श्रौत­द­ह­रा­द्यु­पा­स­क­स्या­स्माभिः काला­न­पे­क्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह -
योगिन इति ।

योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह -
स्मार्ते चेति ।

भग­व­दा­रा­ध­न­बु­द्ध्या­नु­ष्ठितं कर्म योगः 'अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च' इति स्मृतेः । धार­णा­पू­र्व­कोऽ­क­र्तृ­त्वा­नु­भवः साङ्ख्यम् , 'इन्द्रि­या­णी­न्द्रि­या­र्थेषु वर्तन्त इति धारयन्' इति स्मृतेः । ननु श्रुति­स्मृ­त्यो­र्भि­न्ना­र्थ­त्व­म­युक्तं प्रत्य­भि­ज्ञा­वि­रो­धा­दिति शङ्कते -
नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्ना­र्थ­त्व­मु­क्तम् । यदि तु श्रौता­र्थ­प्र­त्य­भि­ज्ञया कालशब्दो देव­ता­प­र­स्त­र्ह्यै­का­र्थ्य­मे­वेति समाध्यर्थः । तस्मा­द्वि­द्या­सा­म­र्थ्या­त्स­र्व­दैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम् ॥२१॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां चतुर्थध्यायस्य द्वितीयः पादः ॥२॥
॥ इति चतु­र्थ­स्या­ध्या­य­स्यो­त्क्रा­न्ति­ग­ति­नि­रू­प­णाख्यो द्वितीयः पादः ॥