अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

संज्ञामूर्तिकॢप्त्यधिकरणम्

उत्प­त्ति­रु­त्पा­द­नेति च कार्य­क­र्त्रो­र्व्या­पारौ प्रसिद्धौ तत्र जग­दु­त्प­त्ति­श्रु­ति­वि­रोधः अतीतेन पादद्वयेन निरस्तः, सम्प्र­त्यु­त्पा­द­न­श्रु­ति­वि­रोधो निरस्यते । तत्रापि सूक्ष्म­भू­तो­त्पा­दनं पारमेश्वरमेवेति श्रुति­ष्व­वि­प्र­ति­प­न्नम् , स्थूल­भू­तो­त्पा­दने त्वस्ति श्रुति­वि­प्र­ति­प­त्ति­रिति तन्निरासार्थमाह -
संज्ञा­मू­र्ति­कॢ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
नाम­रू­प­भे­दा­त्क­र­ण­भिन्नः प्राण इत्युक्तम् , तत्प्रसङ्गेन स्थूल­ना­म­रू­प­कॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्य­वा­न्त­र­स­ङ्गतिः । प्रक्रिया प्रकरणम् ।

ईक्षणमेवाह -
हन्तेत्यादिना ।
हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति सम्बन्धः । तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्ची­क­र­णो­प­ल­क्ष­णार्था । छान्दो­ग्येऽ­प्या­का­श­वा­य्वो­रु­प­सं­हा­र­स्यो­क्त­त्वात् । एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति पर­दे­व­ता­या­स्ता­त्प­र्यम् ।

जीवेनेतिपदस्य व्याक­र­वा­णी­त्य­नेन सम्ब­न्ध­स­म्भ­वा­स­म्भ­वाभ्यां संशयमाह -
तत्रेति ।
पूर्वपक्षे जीवस्यैव भौति­क­स्र­ष्टृ­त्वा­द्ब्र­ह्मणः सर्व­स्र­ष्टृ­त्वा­सिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।

जीवेनेत्यस्य व्याक­र­वा­णी­ति­प्र­धा­न­क्रि­या­प­देन सम्बन्ध इति पूर्वपक्षमाह -
तत्र प्राप्तमिति ।

परदेवताया अकर्तृत्वे कथ­मु­त्त­म­पु­रु­ष­प्र­योग इत्याशङ्क्य प्रयो­ज­क­त्वा­त्क­र्तृ­त्वो­प­चार इत्याह -
यथा लोक इति ।

सिद्धान्तयति -
तुश­ब्दे­ने­त्या­दिना ।

प्रत्याकृति ।
प्रति­जा­ती­त्यर्थः । अनेन स्थूलसर्वसर्गे जीव­स्या­सा­मर्थ्यं द्योतितम् । तथा च पदान्वयस्य पदा­र्थ­यो­ग्य­ता­धी­न­त्वा­ज्जी­व­रू­पेण प्रविश्याहमेव व्याक­र­वा­णी­त्य­न्वयः । न तु जीवेन व्याकरवाणीति ।

ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याक­र­ण­मी­श्व­र­क­र्तृ­क­मिति कर्तृ­भे­दा­त्क्त्वा­प्र­त्ययो न स्यादित्यत आह -
न च जीवो नामेति ।
वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रति­बि­म्ब­भा­वा­ख्य­प्र­वेशे सूर्यस्यैव कर्तृ­त्व­प्र­यो­गा­ज्जी­वा­त्मना प्रवेशेऽपीश्वर एव कर्तेति क्त्वाश्रु­ति­र्यु­क्तेति बोध्यम् ।

नन्व­भे­द­श्चे­ज्जीव एव व्याकर्ता किं न स्यादि­त्या­शङ्क्य कल्पनया भिन्नस्य तस्या­श­क्त­त्वा­च्छ्रु­ति­वि­रो­धाच्च मैवमित्याह -
परमेश्वर इति ।

प्रत्येकं महाभूतसर्गस्य प्रागु­क्त­त्वा­दिह व्याकरणवाक्ये यत्नपूर्वकं स्थूलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह -
त्रिवृ­त्क­र­ण­पू­र्व­क­मिति ।

ईश्वरकृतं त्र्यात्म­त्व­मिति क्व दृष्टमित्यत आह -
तच्चेति ।

इदानीं नामरूपव्याकरणे क्रममाह -
तत्राग्निरिति ।
यद्यपि 'अतः प्रभवात्' इत्यत्र वेद­श­ब्द­पू­र्वि­का­र्थ­सृ­ष्टि­रुक्ता तथा­प्य­व्य­क्ता­त्स्मृ­ता­च्छ­ब्दा­द­र्थ­सृष्टौ सत्यां स्फुट­ना­म­स­म्ब­न्धा­भि­व्य­क्ति­र­त्रो­क्ते­त्य­वि­रोधः ।

नन्वग्न्यादीनां तैजसानामेव श्रुता­वु­दा­ह­र­णा­द्भू­ज­ल­यो­स्त्र्या­त्म­कत्वं न विवक्षितमित्यत आह -
अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः । यत्कपोतरूपादिकं कृष्ण­त्वा­दि­वि­शे­षा­का­रेण विज्ञातमिव भवति तद्देवतानां समु­दा­य­रू­प­मि­त्यर्थः ॥२०॥

बाह्यं त्रिवृ­त्क­र­ण­मु­क्त्वा­ध्या­त्मि­क­म­परं पूर्वो­क्त­वि­ल­क्षणं वद­न्नु­त्त­र­सू­त्र­म­व­ता­र­यति -
तासामित्यादिना ।
पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः । उत्त­र­सू­त्रे­णा­श­ङ्कितं दोषं निरसितुमादौ शङ्का­वि­ष­य­मा­ध्या­त्मि­क­त्रि­वृ­त्क­रणं दर्शयतीति भाष्यार्थः ।

नन्वन्नमयं मांसादि कथं भौममित्यत आह -
त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायो­र­प्का­र्य­त्व­मौ­प­चा­रिकं द्रष्टव्यम् ॥२१॥

एवं विषयमुक्त्वा दोषं शङ्कते -
अत्राहेति ।

तदुत्तरत्वेन सूत्रं व्याचष्टे -
तुशब्देनेति ।

स्वभावाधिक्यं वैशेष्यं किमर्थं कृतमित्यत आह -
व्यव­हा­र­प्र­सि­द्ध्य­र्थ­मिति ।
एवं स्मृति­न्या­य­म­ता­न्त­र­श्रु­ति­भि­र­वि­रोधो ब्रह्मणि वेदा­न्त­ता­त्प­र्य­स्येति सिद्धम् ॥२२॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­द्गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­या­ध्या­यस्य चतुर्थः पादः ॥४॥