भाष्यरत्नप्रभाव्याख्या
कार्याधिकरणम्
एवं मार्गं निरूप्य गन्तव्यं चिन्तयति -
कार्यं बादरिरस्य गत्युपपत्तेः ।
परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह -
तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं दृष्टम् , ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः ॥७॥
ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह -
विशेषितत्वाच्चेति ।
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः । नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहाय । न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः ॥८॥
प्रतिसञ्चरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कृतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना । एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह -
कं पुनरित्यादिना ॥९ ॥ ॥१० ॥ ॥११ ॥ ॥१२॥
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता ॥१३॥
एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तम् , सम्प्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसङ्कल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति -
न च कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः । यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसङ्कल्प एवायमित्यर्थः ।
अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह -
सा चेति ।
तत्तत्र ब्रह्मलोके विद्याविहीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता । तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।
किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह -
पदेरपीति ।
पूर्वपक्षमुपसंहरति -
तस्मादिति ।
आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसङ्क्रमते -
ताविति ।
ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्वं स्फुटयति -
न हीति ।
गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः सङ्कल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसम्भवान्मुख्यार्थत्याग इत्यर्थः । यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्य एव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।
यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह -
परेति ।
यथा विद्यासम्बद्धसुषुम्नास्तुत्यर्थं तदसम्बद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणेऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः ।
यदप्युक्तं प्राप्तिसङ्कल्पोऽपि प्रकृतपरविषय इति तन्नेत्याह -
प्रजापतेरिति ।
प्रजापतिसभावेश्मश्रुतिभिस्तत्सङ्घातात्मकवाक्येन च प्रकरणं बाध्यम् , यशोऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थः ।
स्वपक्षमुक्त्वा परमतं दूषयति -
केचिदित्यादिना ।
सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते -
नन्विति ।
यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् ।
ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह -
सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसोऽपि कालान्तरेऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः ।
अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह -
नेत्यादिना ।
'अनादिमत्परं ब्रह्म' इत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः ।
सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यम् , निर्विशेषं तु नास्त्येवेति शङ्कते -
जगदुत्पत्तीति ।
किं निर्विशेषस्यासत्त्वं मानाभावात्सविशेषश्रुतिविरोधाद्वा । नाद्य इत्याह -
नेति ।
द्वितीयं शङ्कते -
उत्पत्त्यादीति ।
सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह -
नेति ।
निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह -
कस्मादिति ।
तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्सन्निधावफलं तदङ्गमिति न्यायादित्याह -
उच्यत इत्यादिना ।
न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह -
प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये । तथा तैत्तिरीयकेऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः ।
एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह -
एवमिति ।
स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह -
न तस्येति ।
एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति -
गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः ।
नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह -
अत्यन्तेति ।
कल्पत्रये किं दूषणमिति पृच्छति -
यद्येवमिति ।
कल्पद्वयेऽपि दोषान्तरमाह -
विकारावयवपक्षयोश्चेति ।
विकारावयवरूपजीवविशिष्टस्य ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् । न ह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यर्थः । अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः ।
तृतीयकल्पमनूद्य विकल्प्य दूषयति -
अथेत्यादिना ।
अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह -
विकारावयवयोरिति ।
भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति -
नेति ।
किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् । न चास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशेऽपि न नश्येदित्याह -
सर्वेष्विति ।
ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति -
यत्त्वित्यादिना ।
तदिति ।
एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः ।
तर्क एव मानमित्यत आह -
न चैतत्तर्कयितुमिति ।
ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह -
कर्मशेषसद्भावसिद्धिश्चेति ।
सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते -
स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् ।
पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति सञ्चितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह -
तन्नेत्यादिना ।
क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह -
न च नित्येति ।
प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।
तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।
तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह -
संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः ।
ब्रह्मभिन्नस्य जीवस्य कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह -
न चेति ।
कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते -
स्यादेतदिति ।
कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसम्बद्धत्वान्मोक्षो न स्यादिति परिहरति -
तच्चेत्यादिना ।
मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति -
परस्मादित्यादिना ।
प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति -
तदेवमिति ।
ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह -
ब्रह्मविदाप्नोतीति ।
वैफल्याच्च गतेर्न परविषयत्वमित्याह -
अपि चेति ।
अनुचिन्तनपक्षं प्रत्याह -
न च नित्यसिद्धेति ।
कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्त्येत्याह -
तत्र परापरेति ।
प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह -
किं द्वे इत्यादिना ।
व्यापिनो जीवस्य कथं गतिस्तत्राह -
सर्वगतत्वेऽपीति ॥१४॥